मार्कण्डेय उवाच 001
स एवमुक्तो राजर्षिरुत्तङ्केनापराजितः 001a
उत्तङ्कं कौरवश्रेष्ठ कृताञ्जलिरथाब्रवीत् 001c
न तेऽभिगमनं ब्रह्मन्मोघमेतद्भविष्यति 002a
पुत्रो ममायं भगवन्कुवलाश्व इति स्मृतः 002c
धृतिमान्क्षिप्रकारी च वीर्येणाप्रतिमो भुवि 003a
प्रियं वै सर्वमेतत्ते करिष्यति न संशयः 003c
पुत्रैः परिवृतः सर्वैः शूरैः परिघबाहुभिः 004a
विसर्जयस्व मां ब्रह्मन्न्यस्तशस्त्रोऽस्मि साम्प्रतम् 004c
तथास्त्विति च तेनोक्तो मुनिनामिततेजसा 005a
स तमादिश्य तनयमुत्तङ्काय महात्मने 005c
क्रियतामिति राजर्षिर्जगाम वनमुत्तमम् 005e
युधिष्ठिर उवाच 006
क एष भगवन्दैत्यो महावीर्यस्तपोधन 006a
कस्य पुत्रोऽथ नप्ता वा एतदिच्छामि वेदितुम् 006c
एवं महाबलो दैत्यो न श्रुतो मे तपोधन 007a
एतदिच्छामि भगवन्याथातथ्येन वेदितुम् 007c
सर्वमेव महाप्राज्ञ विस्तरेण तपोधन 007e
मार्कण्डेय उवाच 008
शृणु राजन्निदं सर्वं यथावृत्तं नराधिप 008a
एकार्णवे तदा घोरे नष्टे स्थावरजङ्गमे 008c
प्रनष्टेषु च भूतेषु सर्वेषु भरतर्षभ 008e
प्रभवः सर्वभूतानां शाश्वतः पुरुषोऽव्ययः 009a
सुष्वाप भगवान्विष्णुरप्शय्यामेक एव ह 009c
नागस्य भोगे महति शेषस्यामिततेजसः 009e
लोककर्ता महाभाग भगवानच्युतो हरिः 010a
नागभोगेन महता परिरभ्य महीमिमाम् 010c
स्वपतस्तस्य देवस्य पद्मं सूर्यसमप्रभम् 011a
नाभ्यां विनिःसृतं तत्र यत्रोत्पन्नः पितामहः 011c
साक्षाल्लोकगुरुर्ब्रह्मा पद्मे सूर्येन्दुसप्रभे 011e
चतुर्वेदश्चतुर्मूर्तिस्तथैव च चतुर्मुखः 012a
स्वप्रभावाद्दुराधर्षो महाबलपराक्रमः 012c
कस्यचित्त्वथ कालस्य दानवौ वीर्यवत्तरौ 013a
मधुश्च कैटभश्चैव दृष्टवन्तौ हरिं प्रभुम् 013c
शयानं शयने दिव्ये नागभोगे महाद्युतिम् 014a
बहुयोजनविस्तीर्णे बहुयोजनमायते 014c
किरीटकौस्तुभधरं पीतकौशेयवाससम् 015a
दीप्यमानं श्रिया राजंस्तेजसा वपुषा तथा 015c
सहस्रसूर्यप्रतिममद्भुतोपमदर्शनम् 015e
विस्मयः सुमहानासीन्मधुकैटभयोस्तदा 016a
दृष्ट्वा पितामहं चैव पद्मे पद्मनिभेक्षणम् 016c
वित्रासयेतामथ तौ ब्रह्माणममितौजसम् 017a
वित्रास्यमानो बहुशो ब्रह्मा ताभ्यां महायशाः 017c
अकम्पयत्पद्मनालं ततोऽबुध्यत केशवः 017e
अथापश्यत गोविन्दो दानवौ वीर्यवत्तरौ 018a
दृष्ट्वा तावब्रवीद्देवः स्वागतं वां महाबलौ 018c
ददानि वां वरं श्रेष्ठं प्रीतिर्हि मम जायते 018e
तौ प्रहस्य हृषीकेशं महावीर्यौ महासुरौ 019a
प्रत्यब्रूतां महाराज सहितौ मधुसूदनम् 019c
आवां वरय देव त्वं वरदौ स्वः सुरोत्तम 020a
दातारौ स्वो वरं तुभ्यं तद्ब्रवीह्यविचारयन् 020c
भगवानुवाच 021
प्रतिगृह्णे वरं वीरावीप्सितश्च वरो मम 021a
युवां हि वीर्यसम्पन्नौ न वामस्ति समः पुमान् 021c
वध्यत्वमुपगच्छेतां मम सत्यपराक्रमौ 022a
एतदिच्छाम्यहं कामं प्राप्तुं लोकहिताय वै 022c
मधुकैटभावूचतुः 023
अनृतं नोक्तपूर्वं नौ स्वैरेष्वपि कुतोऽन्यथा 023a
सत्ये धर्मे च निरतौ विद्ध्यावां पुरुषोत्तम 023c
बले रूपे च वीर्ये च शमे च न समोऽस्ति नौ 024a
धर्मे तपसि दाने च शीलसत्त्वदमेषु च 024c
उपप्लवो महानस्मानुपावर्तत केशव 025a
उक्तं प्रतिकुरुष्व त्वं कालो हि दुरतिक्रमः 025c
आवामिच्छावहे देव कृतमेकं त्वया विभो 026a
अनावृतेऽस्मिन्नाकाशे वधं सुरवरोत्तम 026c
पुत्रत्वमभिगच्छाव तव चैव सुलोचन 027a
वर एष वृतो देव तद्विद्धि सुरसत्तम 027c
भगवानुवाच 028
बाढमेवं करिष्यामि सर्वमेतद्भविष्यति 028a
मार्कण्डेय उवाच 029
विचिन्त्य त्वथ गोविन्दो नापश्यद्यदनावृतम् 029a
अवकाशं पृथिव्यां वा दिवि वा मधुसूदनः 029c
स्वकावनावृतावूरू दृष्ट्वा देववरस्तदा 030a
मधुकैटभयो राजञ्शिरसी मधुसूदनः 030c
चक्रेण शितधारेण न्यकृन्तत महायशाः 030e