मार्कण्डेय उवाच 001
इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् 001a
प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् 001c
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् 002a
अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः 002c
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् 003a
आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः 003c
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता 004a
श्रावस्तस्य तु दायादो बृहदश्वो महाबलः 004c
बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः 004e
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः 005a
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः 005c
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् 006a
समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् 006c
कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् 006e
पुत्रसङ्क्रामितश्रीस्तु बृहदश्वो महीपतिः 007a
जगाम तपसे धीमांस्तपोवनममित्रहा 007c
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर 008a
वनं सम्प्रस्थितं राजन्बृहदश्वं द्विजोत्तमः 008c
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् 009a
न्यवारयदमेयात्मा समासाद्य नरोत्तमम् 009c
उत्तङ्क उवाच 010
भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि 010a
निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि 010c
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना 011a
भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि 011c
पालने हि महान्धर्मः प्रजानामिह दृश्यते 012a
न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी 012c
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते 013a
प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः 013c
रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि 013e
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव 014a
ममाश्रमसमीपे वै समेषु मरुधन्वसु 014c
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः 015a
बहुयोजनविस्तीर्णो बहुयोजनमायतः 015c
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः 016a
मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः 016c
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः 017a
तं निहत्य महाराज वनं त्वं गन्तुमर्हसि 017c
शेते लोकविनाशाय तप आस्थाय दारुणम् 018a
त्रिदशानां विनाशाय लोकानां चापि पार्थिव 018c
अवध्यो देवतानां स दैत्यानामथ रक्षसाम् 019a
नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः 019c
अवाप्य स वरं राजन्सर्वलोकपितामहात् 019e
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा 020a
प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् 020c
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै 021a
संवत्सरस्य पर्यन्ते निःश्वासः सम्प्रवर्तते 021c
यदा तदा भूश्चलति सशैलवनकानना 021e
तस्य निःश्वासवातेन रज उद्धूयते महत् 022a
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् 022c
सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् 022e
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे 023a
तं विनाशय राजेन्द्र लोकानां हितकाम्यया 023c
लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे 023e
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः 024a
तेजसा तव तेजश्च विष्णुराप्याययिष्यति 024c
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे 025a
यस्तं महासुरं रौद्रं वधिष्यति महीपतिः 025c
तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् 025e
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् 026a
तं निषूदय सन्दुष्टं दैत्यं रौद्रपराक्रमम् 026c
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते 027a
निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि 027c