वैशम्पायन उवाच 001
युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ 001a
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् 001c
विदितास्तव धर्मज्ञ देवदानवराक्षसाः 002a
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः 002c
न तेऽस्त्यविदितं किञ्चिदस्मिल्ँलोके द्विजोत्तम 002e
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् 003a
एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज 003c
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः 004a
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः 004c
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम 005a
विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः 005c
मार्कण्डेय उवाच 006
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर 006a
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु 006c
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः 007a
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते 007c
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत 008a
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव 008c
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् 009a
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो 009c
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् 010a
दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः 010c
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः 011a
स्थावराणि च भूतानि जङ्गमानि तथैव च 011c
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते 011e
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ 012a
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत 012c
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः 012e
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन 013a
पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा 013c
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः 014a
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः 014c
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर 015a
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः 015c
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् 016a
भयानामपनेतासि त्वमेकः पुरुषोत्तम 016c
देवानां मानुषाणां च सर्वभूतसुखावहः 017a
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः 017c
असुराणां समृद्धानां विनाशश्च त्वया कृतः 017e
तव विक्रमणैर्देवा निर्वाणमगमन्परम् 018a
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते 018c
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः 019a
आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः 019c
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना 020a
उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु 020c
उत्तङ्क उवाच 021
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् 021a
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् 021c
विष्णुरुवाच 022
प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम 022a
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज 022c
एवं सञ्छन्द्यमानस्तु वरेण हरिणा तदा 023a
उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम 023c
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः 024a
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा 024c
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर 024e
विष्णुरुवाच 025
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज 025a
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् 025c
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि 025e
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः 026a
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति 026c
बृहदश्व इति ख्यातो भविष्यति महीपतिः 027a
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः 027c
स योगबलमास्थाय मामकं पार्थिवोत्तमः 028a
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति 028c
मार्कण्डेय उवाच 029
उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत 029a