वैशम्पायन उवाच 001
मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् 001A
अस्ति कश्चिद्भवतश्चिरजाततर इति 001B
स तानुवाच 002A
अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः 002B
कीर्तिस्ते व्युच्छिन्नेति 002C
स मामुपातिष्ठत् 002D
अथ प्रत्यभिजानाति मां भवानिति 002E
तमहमब्रुवम् 003A
न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् 003B
अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः 004A
स भवन्तं यदि जानीयात् 004B
प्रकृष्टे चाध्वनि हिमवान् 004C
तत्रासौ प्रतिवसतीति 004D
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः 005A
अथैनं स राजर्षिः पर्यपृच्छत् 006A
प्रत्यभिजानाति मां भवानिति 006B
स मुहूर्तं ध्यात्वाब्रवीदेनम् 007A
नाभिजाने भवन्तमिति 007B
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् 008A
अस्ति कश्चिद्भवतश्चिरजाततर इति 008B
स एवमुक्तोऽब्रवीदेनम् 009A
अस्ति खल्विन्द्रद्युम्नसरो नाम 009B
तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति 009C
सोऽस्मत्तश्चिरजाततरः 009D
तं पृच्छेति 009E
तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव 010A
सोऽस्माभिः पृष्टः 011A
भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति 011B
स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा 012A
नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति 012B
ततः सोऽस्माभिः पृष्टः 013A
अस्ति कश्चिदन्यो भवतश्चिरजाततर इति 013B
स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति 014A
स मत्तश्चिरजाततर इति 014B
स यदि कथञ्चिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति 014C
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास 015A
अस्त्यस्माकमभिप्रेतं भवन्तं कञ्चिदर्थमभिप्रष्टुम् 015B
साध्वागम्यतां तावदिति 015C
एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे 016A
आगतं चैनं वयमपृच्छाम 017A
भवानिन्द्रद्युम्नं राजानमभिजानातीति 017B
स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसञ्ज्ञकल्पः प्राञ्जलिरब्रवीत् 018A
किमहमेनं न प्रत्यभिजानामि 018B
अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः 018C
सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् 018D
अत्र चाहं प्रतिवसामीति 018E
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् 019A
वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति 020A
प्रस्तुतस्ते स्वर्गः 020B
यथोचितं स्थानमभिपद्यस्व 020C
कीर्तिमानसि 020D
अव्यग्रो याहीति 020E
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः 021a
यावत्स शब्दो भवति तावत्पुरुष उच्यते 021c
अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् 022a
पतत्येवाधमाल्ँलोकान्यावच्छब्दः स कीर्त्यते 022c
तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि 023a
विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् 023c
इत्येतच्छ्रुत्वा स राजाब्रवीत् 024A
तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति 024B
स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः 025A
एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः 026A
पाण्डवाश्चोचुः प्रीताः 027A
साधु 027B
शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति 027C
अथैनानब्रवीदसौ 028A
ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति 028B