वैशम्पायन उवाच 001
भूय एव ब्राह्मणमहाभाग्यं वक्तुमर्हसीत्यब्रवीत्पाण्डवेयो मार्कण्डेयम् 001A
अथाचष्ट मार्कण्डेयः 002A
अयोध्यायामिक्ष्वाकुकुलोत्पन्नः पार्थिवः परिक्षिन्नाम मृगयामगमत् 003A
तमेकाश्वेन मृगमनुसरन्तं मृगो दूरमपाहरत् 004A
अथाध्वनि जातश्रमः क्षुत्तृष्णाभिभूतश्च कस्मिंश्चिदुद्देशे नीलं वनषण्डमपश्यत् 005A
तच्च विवेश 005B
ततस्तस्य वनषण्डस्य मध्येऽतीव रमणीयं सरो दृष्ट्वा साश्व एव व्यगाहत 006A
अथाश्वस्तः स बिसमृणालमश्वस्याग्रे निक्षिप्य पुष्करिणीतीरे समाविशत् 007A
ततः शयानो मधुरं गीतशब्दमशृणोत् 008A
स श्रुत्वाचिन्तयत् 009A
नेह मनुष्यगतिं पश्यामि 009B
कस्य खल्वयं गीतशब्द इति 009C
अथापश्यत्कन्यां परमरूपदर्शनीयां पुष्पाण्यवचिन्वतीं गायन्तीं च 010A
अथ सा राज्ञः समीपे पर्यक्रामत् 011A
तामब्रवीद्राजा 012A
कस्यासि सुभगे त्वमिति 012B
सा प्रत्युवाच 013A
कन्यास्मीति 013B
तां राजोवाच 014A
अर्थी त्वयाहमिति 014B
अथोवाच कन्या 015A
समयेनाहं शक्या त्वया लब्धुम् 015B
नान्यथेति 015C
तां राजा समयमपृच्छत् 016A
ततः कन्येदमुवाच 017A
उदकं मे न दर्शयितव्यमिति 017B
स राजा बाढमित्युक्त्वा तां समागम्य तया सहास्ते 018A
तत्रैवासीने राजनि सेनान्वगच्छत् 019A
पदेनानुपदं दृष्ट्वा राजानं परिवार्यातिष्ठत् 019B
पर्याश्वस्तश्च राजा तयैव सह शिबिकया प्रायादविघाटितया 020A
स्वनगरमनुप्राप्य रहसि तया सह रमन्नास्ते 020B
नान्यत्किञ्चनापश्यत् 020C
अथ प्रधानामात्यस्तस्याभ्याशचराः स्त्रियोऽपृच्छत् 021A
किमत्र प्रयोजनं वर्तत इति 021B
अथाब्रुवंस्ताः स्त्रियः 022A
अपूर्वमिव पश्याम उदकं नात्र नीयत इति 022B
अथामात्योऽनुदकं वनं कारयित्वोदारवृक्षं बहुमूलपुष्पफलं रहस्युपगम्य राजानमब्रवीत् 023A
वनमिदमुदारमनुदकम् 023B
साध्वत्र रम्यतामिति 023C
स तस्य वचनात्तयैव सह देव्या तद्वनं प्राविशत् 024A
स कदाचित्तस्मिन्वने रम्ये तयैव सह व्यवहरत् 024B
अथ क्षुत्तृष्णार्दितः श्रान्तोऽतिमात्रमतिमुक्तागारमपश्यत् 024C
तत्प्रविश्य राजा सह प्रियया सुधातलसुकृतां विमलसलिलपूर्णां वापीमपश्यत् 025A
दृष्ट्वैव च तां तस्या एव तीरे सहैव तया देव्या व्यतिष्ठत् 026A
अथ तां देवीं स राजाब्रवीत् 027A
साध्ववतर वापीसलिलमिति 027B
सा तद्वचः श्रुत्वावतीर्य वापीं न्यमज्जत् 028A
न पुनरुदमज्जत् 028B
तां मृगयमाणो राजा नापश्यत् 029A
वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास 030A
सर्वमण्डूकवधः क्रियतामिति 030B
यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति 030C
अथ मण्डूकवधे घोरे क्रियमाणे दिक्षु सर्वासु मण्डूकान्भयमाविशत् 031A
ते भीता मण्डूकराज्ञे यथावृत्तं न्यवेदयन् 031B
ततो मण्डूकराट् तापसवेषधारी राजानमभ्यगच्छत् 032A
उपेत्य चैनमुवाच 033A
मा राजन्क्रोधवशं गमः 033B
प्रसादं कुरु 033C
नार्हसि मण्डूकानामनपराधिनां वधं कर्तुमिति 033D
श्लोकौ चात्र भवतः 034A
मा मण्डूकाञ्जिघांस त्वं कोपं सन्धारयाच्युत 034a
प्रक्षीयते धनोद्रेको जनानामविजानताम् 034c
प्रतिजानीहि नैतांस्त्वं प्राप्य क्रोधं विमोक्ष्यसे 035a
अलं कृत्वा तवाधर्मं मण्डूकैः किं हतैर्हि ते 035c
तमेवंवादिनमिष्टजनशोकपरीतात्मा राजा प्रोवाच 036a
न हि क्षम्यते तन्मया 036B
हनिष्याम्येतान् 036C
एतैर्दुरात्मभिः प्रिया मे भक्षिता 036D
सर्वथैव मे वध्या मण्डूकाः 036e
नार्हसि विद्वन्मामुपरोद्धुमिति 036F
स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच 037A
प्रसीद राजन् 037B
अहमायुर्नाम मण्डूकराजः 037C
मम सा दुहिता सुशोभना नाम 037D
तस्या दौःशील्यमेतत् 037e
बहवो हि राजानस्तया विप्रलब्धपूर्वा इति 037F
तमब्रवीद्राजा 038A
तयास्म्यर्थी 038B
सा मे दीयतामिति 038C
अथैनां राज्ञे पितादात् 039A
अब्रवीच्चैनाम् 039B
एनं राजानं शुश्रूषस्वेति 039C
स उवाच दुहितरम् 040A
यस्मात्त्वया राजानो विप्रलब्धास्तस्मादब्रह्मण्यानि तवापत्यानि भविष्यन्त्यनृतकत्वात्तवेति 040B
स च राजा तामुपलभ्य तस्यां सुरतगुणनिबद्धहृदयो लोकत्रयैश्वर्यमिवोपलभ्य हर्षबाष्पकलया वाचा प्रणिपत्याभिपूज्य मण्डूकराजानमब्रवीत् 041A
अनुगृहीतोऽस्मीति 041B
स च मण्डूकराजो जामातरमनुज्ञाप्य यथागतमगच्छत् 042A
अथ कस्यचित्कालस्य तस्यां कुमारास्त्रयस्तस्य राज्ञः सम्बभूवुः शलो दलो बलश्चेति 043A
ततस्तेषां ज्येष्ठं शलं समये पिता राज्येऽभिषिच्य तपसि धृतात्मा वनं जगाम 043B
अथ कदाचिच्छलो मृगयामचरत् 044A
मृगं चासाद्य रथेनान्वधावत् 044B
सूतं चोवाच 045A
शीघ्रं मां वहस्वेति 045B
स तथोक्तः सूतो राजानमब्रवीत् 046A
मा क्रियतामनुबन्धः 046B
नैष शक्यस्त्वया मृगो ग्रहीतुं यद्यपि ते रथे युक्तौ वाम्यौ स्यातामिति 046C
ततोऽब्रवीद्राजा सूतम् 047A
आचक्ष्व मे वाम्यौ 047B
हन्मि वा त्वामिति 047C
स एवमुक्तो राजभयभीतो वामदेवशापभीतश्च सन्नाचख्यौ राज्ञे 048A
वामदेवस्याश्वौ वाम्यौ मनोजवाविति 048B
अथैनमेवं ब्रुवाणमब्रवीद्राजा 049A
वामदेवाश्रमं याहीति 049B
स गत्वा वामदेवाश्रमं तमृषिमब्रवीत् 050A
भगवन्मृगो मया विद्धः पलायते 050B
तं सम्भावयेयम् 050C
अर्हसि मे वाम्यौ दातुमिति 050D
तमब्रवीदृषिः 051A
ददानि ते वाम्यौ 051B
कृतकार्येण भवता ममैव निर्यात्यौ क्षिप्रमिति 051C
स च तावश्वौ प्रतिगृह्यानुज्ञाप्य चर्षिं प्रायाद्वाम्यसंयुक्तेन रथेन मृगं प्रति 052A
गच्छंश्चाब्रवीत्सूतम् 052C
अश्वरत्नाविमावयोग्यौ ब्राह्मणानाम् 052D
नैतौ प्रतिदेयौ वामदेवायेति 052e
एवमुक्त्वा मृगमवाप्य स्वनगरमेत्याश्वावन्तःपुरेऽस्थापयत् 053A
अथर्षिश्चिन्तयामास 054A
तरुणो राजपुत्रः कल्याणं पत्रमासाद्य रमते 054B
न मे प्रतिनिर्यातयति 054C
अहो कष्टमिति 054D
मनसा निश्चित्य मासि पूर्णे शिष्यमब्रवीत् 055A
गच्छात्रेय 055B
राजानं ब्रूहि 055C
यदि पर्याप्तं निर्यातयोपाध्यायवाम्याविति 055D
स गत्वैवं तं राजानमब्रवीत् 056A
तं राजा प्रत्युवाच 057A
राज्ञामेतद्वाहनम् 057B
अनर्हा ब्राह्मणा रत्नानामेवंविधानाम् 057C
किं च ब्राह्मणानामश्वैः कार्यम् 057D
साधु प्रतिगम्यतामिति 057e
स गत्वैवमुपाध्यायायाचष्ट 058A
तच्छ्रुत्वा वचनमप्रियं वामदेवः क्रोधपरीतात्मा स्वयमेव राजानमभिगम्याश्वार्थमभ्यचोदयत् 059A
न चादाद्राजा 059B
वामदेव उवाच 060
प्रयच्छ वाम्यौ मम पार्थिव त्वं कृतं हि ते कार्यमन्यैरशक्यम् 060a
मा त्वा वधीद्वरुणो घोरपाशैर्ब्रह्मक्षत्रस्यान्तरे वर्तमानः 060c
राजोवाच 061
अनड्वाहौ सुव्रतौ साधु दान्तावेतद्विप्राणां वाहनं वामदेव 061a
ताभ्यां याहि त्वं यत्र कामो महर्षे छन्दांसि वै त्वादृशं संवहन्ति 061c
वामदेव उवाच 062
छन्दांसि वै मादृशं संवहन्ति लोकेऽमुष्मिन्पार्थिव यानि सन्ति 062a
अस्मिंस्तु लोके मम यानमेतदस्मद्विधानामपरेषां च राजन् 062c
राजोवाच 063
चत्वारो वा गर्दभास्त्वां वहन्तु श्रेष्ठाश्वतर्यो हरयो वा तुरङ्गाः 063a
तैस्त्वं याहि क्षत्रियस्यैष वाहो मम वाम्यौ न तवैतौ हि विद्धि 063c
वामदेव उवाच 064
घोरं व्रतं ब्राह्मणस्यैतदाहुरेतद्राजन्यदिहाजीवमानः 064a
अयस्मया घोररूपा महान्तो वहन्तु त्वां शितशूलाश्चतुर्धा 064c
राजोवाच 065
ये त्वा विदुर्ब्राह्मणं वामदेव वाचा हन्तुं मनसा कर्मणा वा 065a
ते त्वां सशिष्यमिह पातयन्तु मद्वाक्यनुन्नाः शितशूलासिहस्ताः 065c
वामदेव उवाच 066
नानुयोगा ब्राह्मणानां भवन्ति वाचा राजन्मनसा कर्मणा वा 066a
यस्त्वेवं ब्रह्म तपसान्वेति विद्वांस्तेन श्रेष्ठो भवति हि जीवमानः 066c
मार्कण्डेय उवाच 067
एवमुक्ते वामदेवेन राजन्समुत्तस्थू राक्षसा घोररूपाः 067a
तैः शूलहस्तैर्वध्यमानः स राजा प्रोवाचेदं वाक्यमुच्चैस्तदानीम् 067c
इक्ष्वाकवो यदि ब्रह्मन्दलो वा विधेया मे यदि वान्ये विशोऽपि 068a
नोत्स्रक्ष्येऽहं वामदेवस्य वाम्यौ नैवंविधा धर्मशीला भवन्ति 068c
एवं ब्रुवन्नेव स यातुधानैर्हतो जगामाशु महीं क्षितीशः 069a
ततो विदित्वा नृपतिं निपातितमिक्ष्वाकवो वै दलमभ्यषिञ्चन् 069c
राज्ये तदा तत्र गत्वा स विप्रः प्रोवाचेदं वचनं वामदेवः 070a
दलं राजानं ब्राह्मणानां हि देयमेवं राजन्सर्वधर्मेषु दृष्टम् 070c
बिभेषि चेत्त्वमधर्मान्नरेन्द्र प्रयच्छ मे शीघ्रमेवाद्य वाम्यौ 071a
एतच्छ्रुत्वा वामदेवस्य वाक्यं स पार्थिवः सूतमुवाच रोषात् 071c
एकं हि मे सायकं चित्ररूपं दिग्धं विषेणाहर सङ्गृहीतम् 072a
येन विद्धो वामदेवः शयीत सन्दश्यमानः श्वभिरार्तरूपः 072c
वामदेव उवाच 073
जानामि पुत्रं दशवर्षं तवाहं जातं महिष्यां श्येनजितं नरेन्द्र 073a
तं जहि त्वं मद्वचनात्प्रणुन्नस्तूर्णं प्रियं सायकैर्घोररूपैः 073c
मार्कण्डेय उवाच 074
एवमुक्तो वामदेवेन राजन्नन्तःपुरे राजपुत्रं जघान 074a
स सायकस्तिग्मतेजा विसृष्टः श्रुत्वा दलस्तच्च वाक्यं बभाषे 074c
इक्ष्वाकवो हन्त चरामि वः प्रियं निहन्मीमं विप्रमद्य प्रमथ्य 075a
आनीयतामपरस्तिग्मतेजाः पश्यध्वं मे वीर्यमद्य क्षितीशाः 075c
वामदेव उवाच 076
यं त्वमेनं सायकं घोररूपं विषेण दिग्धं मम सन्दधासि 076a
न त्वमेनं शरवर्यं विमोक्तुं सन्धातुं वा शक्ष्यसि मानवेन्द्र 076c
राजोवाच 077
इक्ष्वाकवः पश्यत मां गृहीतं न वै शक्नोम्येष शरं विमोक्तुम् 077a
न चास्य कर्तुं नाशमभ्युत्सहामि आयुष्मान्वै जीवतु वामदेवः 077c
वामदेव उवाच 078
संस्पृशैनां महिषीं सायकेन ततस्तस्मादेनसो मोक्ष्यसे त्वम् 078a
मार्कण्डेय उवाच 079
ततस्तथा कृतवान्पार्थिवस्तु ततो मुनिं राजपुत्री बभाषे 079a
यथा युक्तं वामदेवाहमेनं दिने दिने संविशन्ती व्यशंसम् 079c
ब्राह्मणेभ्यो मृगयन्ती सूनृतानि तथा ब्रह्मन्पुण्यलोकं लभेयम् 079e
वामदेव उवाच 080
त्वया त्रातं राजकुलं शुभेक्षणे वरं वृणीष्वाप्रतिमं ददानि ते 080a
प्रशाधीमं स्वजनं राजपुत्रि इक्ष्वाकुराज्यं सुमहच्चाप्यनिन्द्ये 080c
राजपुत्र्युवाच 081
वरं वृणे भगवन्नेकमेव विमुच्यतां किल्बिषादद्य भर्ता 081a
शिवेन चाध्याहि सपुत्रबान्धवं वरो वृतो ह्येष मया द्विजाग्र्य 081c
मार्कण्डेय उवाच 082
श्रुत्वा वचः स मुनी राजपुत्र्यास्तथास्त्विति प्राह कुरुप्रवीर 082a
ततः स राजा मुदितो बभूव वाम्यौ चास्मै सम्प्रददौ प्रणम्य 082c