मार्कण्डेय उवाच 001
ततश्चोरक्षयं कृत्वा द्विजेभ्यः पृथिवीमिमाम् 001a
वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति 001c
स्थापयित्वा स मर्यादाः स्वयम्भुविहिताः शुभाः 002a
वनं पुण्ययशःकर्मा जरावान्संश्रयिष्यति 002c
तच्छीलमनुवर्त्स्यन्ते मनुष्या लोकवासिनः 003a
विप्रैश्चोरक्शये चैव कृते क्षेमं भविष्यति 003c
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च 004a
स्थापयन्विप्रशार्दूलो देशेषु विजितेषु च 004c
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान् 005a
कल्किश्चरिष्यति महीं सदा दस्युवधे रतः 005c
हा तात हा सुतेत्येवं तास्ता वाचः सुदारुणाः 006a
विक्रोशमानान्सुभृशं दस्यून्नेष्यति सङ्क्षयम् 006c
ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत 007a
भविष्यति कृते प्राप्ते क्रियावांश्च जनस्तथा 007c
आरामाश्चैव चैत्याश्च तटाकान्यवटास्तथा 008a
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे 008c
ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः 009a
आश्रमाः सहपाषण्डाः स्थिताः सत्ये जनाः प्रजाः 009c
जास्यन्ति सर्वबीजानि उप्यमानानि चैव ह 010a
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति 010c
नरा दानेषु निरता व्रतेषु नियमेषु च 011a
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः 011c
पालयिष्यन्ति राजानो धर्मेणेमां वसुन्धराम् 011e
व्यवहाररता वैश्या भविष्यन्ति कृते युगे 012a
षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः 012c
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च 013a
एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा 013c
पश्चिमे युगकाले च यः स ते सम्प्रकीर्तितः 013e
सर्वलोकस्य विदिता युगसङ्ख्या च पाण्डव 014a
एतत्ते सर्वमाख्यातमतीतानागतं मया 014c
वायुप्रोक्तमनुस्मृत्य पुराणमृषिसंस्तुतम् 014e
एवं संसारमार्गा मे बहुशश्चिरजीविना 015a
दृष्टाश्चैवानुभूताश्च तांस्ते कथितवानहम् 015c
इदं चैवापरं भूयः सह भ्रातृभिरच्युत 016a
धर्मसंशयमोक्षार्थं निबोध वचनं मम 016c
धर्मे त्वयात्मा संयोज्यो नित्यं धर्मभृतां वर 017a
धर्मात्मा हि सुखं राजा प्रेत्य चेह च नन्दति 017c
निबोध च शुभां वाणीं यां प्रवक्ष्यामि तेऽनघ 018a
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन 018c
ब्राह्मणो रुषितो हन्यादपि लोकान्प्रतिज्ञया 018e
वैशम्पायन उवाच 019
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः 019a
उवाच वचनं धीमान्परमं परमद्युतिः 019c
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने 020a
कथं च वर्तमानो वै न च्यवेयं स्वधर्मतः 020c
मार्कण्डेय उवाच 021
दयावान्सर्वभूतेषु हितो रक्तोऽनसूयकः 021a
अपत्यानामिव स्वेषां प्रजानां रक्षणे रतः 021c
चर धर्मं त्यजाधर्मं पितॄन्देवांश्च पूजय 021e
प्रमादाद्यत्कृतं तेऽभूत्सम्यग्दानेन तज्जय 022a
अलं ते मानमाश्रित्य सततं परवान्भव 022c
विजित्य पृथिवीं सर्वां मोदमानः सुखी भव 023a
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः 023c
न तेऽस्त्यविदितं किञ्चिदतीतानागतं भुवि 024a
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः 024c
एष कालो महाबाहो अपि सर्वदिवौकसाम् 025a
मुह्यन्ति हि प्रजास्तात कालेनाभिप्रचोदिताः 025c
मा च तेऽत्र विचारो भूद्यन्मयोक्तं तवानघ 026a
अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव 026c
जातोऽसि प्रथिते वंशे कुरूणां भरतर्षभ 027a
कर्मणा मनसा वाचा सर्वमेतत्समाचर 027c
युधिष्ठिर उवाच 028
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम् 028a
तथा करिष्ये यत्नेन भवतः शासनं विभो 028c
न मे लोभोऽस्ति विप्रेन्द्र न भयं न च मत्सरः 029a
करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो 029c
वैशम्पायन उवाच 030
श्रुत्वा तु वचनं तस्य पाण्डवस्य महात्मनः 030a
प्रहृष्टाः पाण्डवा राजन्सहिताः शार्ङ्गधन्वना 030c
तथा कथां शुभां श्रुत्वा मार्कण्डेयस्य धीमतः 031a
विस्मिताः समपद्यन्त पुराणस्य निवेदनात् 031c