वैशम्पायन उवाच 001
एवमुक्तास्तु ते पार्था यमौ च पुरुषर्षभौ 001a
द्रौपद्या कृष्णया सार्धं नमश्चक्रुर्जनार्दनम् 001c
स चैतान्पुरुषव्याघ्र साम्ना परमवल्गुना 002a
सान्त्वयामास मानार्हान्मन्यमानो यथाविधि 002c
युधिष्ठिरस्तु कौन्तेयो मार्कण्डेयं महामुनिम् 003a
पुनः पप्रच्छ साम्राज्ये भविष्यां जगतो गतिम् 003c
आश्चर्यभूतं भवतः श्रुतं नो वदतां वर 004a
मुने भार्गव यद्वृत्तं युगादौ प्रभवाप्ययौ 004c
अस्मिन्कलियुगेऽप्यस्ति पुनः कौतूहलं मम 005a
समाकुलेषु धर्मेषु किं नु शेषं भविष्यति 005c
किंवीर्या मानवास्तत्र किमाहारविहारिणः 006a
किमायुषः किंवसना भविष्यन्ति युगक्षये 006c
कां च काष्ठां समासाद्य पुनः सम्पत्स्यते कृतम् 007a
विस्तरेण मुने ब्रूहि विचित्राणीह भाषसे 007c
इत्युक्तः स मुनिश्रेष्ठः पुनरेवाभ्यभाषत 008a
रमयन्वृष्णिशार्दूलं पाण्डवांश्च महामुनिः 008c
मार्कण्डेय उवाच 009
भविष्यं सर्वलोकस्य वृत्तान्तं भरतर्षभ 009a
कलुषं कालमासाद्य कथ्यमानं निबोध मे 009c
कृते चतुष्पात्सकलो निर्व्याजोपाधिवर्जितः 010a
वृषः प्रतिष्ठितो धर्मो मनुष्येष्वभवत्पुरा 010c
अधर्मपादविद्धस्तु त्रिभिरंशैः प्रतिष्ठितः 011a
त्रेतायां द्वापरेऽर्धेन व्यामिश्रो धर्म उच्यते 011c
त्रिभिरंशैरधर्मस्तु लोकानाक्रम्य तिष्ठति 012a
चतुर्थांशेन धर्मस्तु मनुष्यानुपतिष्ठति 012c
आयुर्वीर्यमथो बुद्धिर्बलं तेजश्च पाण्डव 013a
मनुष्याणामनुयुगं ह्रसतीति निबोध मे 013c
राजानो ब्राह्मणा वैश्याः शूद्राश्चैव युधिष्ठिर 014a
व्याजैर्धर्मं चरिष्यन्ति धर्मवैतंसिका नराः 014c
सत्यं सङ्क्षेप्स्यते लोके नरैः पण्डितमानिभिः 015a
सत्यहान्या ततस्तेषामायुरल्पं भविष्यति 015c
आयुषः प्रक्षयाद्विद्यां न शक्ष्यन्त्युपशिक्षितुम् 016a
विद्याहीनानविज्ञानाल्लोभोऽप्यभिभविष्यति 016c
लोभक्रोधपरा मूढाः कामसक्ताश्च मानवाः 017a
वैरबद्धा भविष्यन्ति परस्परवधेप्सवः 017c
ब्राह्मणाः क्षत्रिया वैश्याः सङ्कीर्यन्तः परस्परम् 018a
शूद्रतुल्या भविष्यन्ति तपःसत्यविवर्जिताः 018c
अन्त्या मध्या भविष्यन्ति मध्याश्चान्तावसायिनः 019a
ईदृशो भविता लोको युगान्ते पर्युपस्थिते 019c
वस्त्राणां प्रवरा शाणी धान्यानां कोरदूषकाः 020a
भार्यामित्राश्च पुरुषा भविष्यन्ति युगक्षये 020c
मत्स्यामिषेण जीवन्तो दुहन्तश्चाप्यजैडकम् 021a
गोषु नष्टासु पुरुषा भविष्यन्ति युगक्षये 021c
अन्योन्यं परिमुष्णन्तो हिंसयन्तश्च मानवाः 022a
अजपा नास्तिकाः स्तेना भविष्यन्ति युगक्षये 022c
सरित्तीरेषु कुद्दालैर्वापयिष्यन्ति चौषधीः 023a
ताश्चाप्यल्पफलास्तेषां भविष्यन्ति युगक्षये 023c
श्राद्धे दैवे च पुरुषा ये च नित्यं धृतव्रताः 024a
तेऽपि लोभसमायुक्ता भोक्ष्यन्तीह परस्परम् 024c
पिता पुत्रस्य भोक्ता च पितुः पुत्रस्तथैव च 025a
अतिक्रान्तानि भोज्यानि भविष्यन्ति युगक्षये 025c
न व्रतानि चरिष्यन्ति ब्राह्मणा वेदनिन्दकाः 026a
न यक्ष्यन्ति न होष्यन्ति हेतुवादविलोभिताः 026c
निम्ने कृषिं करिष्यन्ति योक्ष्यन्ति धुरि धेनुकाः 027a
एकहायनवत्सांश्च वाहयिष्यन्ति मानवाः 027c
पुत्रः पितृवधं कृत्वा पिता पुत्रवधं तथा 028a
निरुद्वेगो बृहद्वादी न निन्दामुपलप्स्यते 028c
म्लेच्छभूतं जगत्सर्वं निश्क्रियं यज्ञवर्जितम् 029a
भविष्यति निरानन्दमनुत्सवमथो तथा 029c
प्रायशः कृपणानां हि तथा बन्धुमतामपि 030a
विधवानां च वित्तानि हरिष्यन्तीह मानवाः 030c
अल्पवीर्यबलाः स्तब्धा लोभमोहपरायणाः 031a
तत्कथादानसन्तुष्टा दुष्टानामपि मानवाः 031c
परिग्रहं करिष्यन्ति पापाचारपरिग्रहाः 031e
सङ्घातयन्तः कौन्तेय राजानः पापबुद्धयः 032a
परस्परवधोद्युक्ता मूर्खाः पण्डितमानिनः 032c
भविष्यन्ति युगस्यान्ते क्षत्रिया लोककण्टकाः 032e
अरक्षितारो लुब्धाश्च मानाहङ्कारदर्पिताः 033a
केवलं दण्डरुचयो भविष्यन्ति युगक्षये 033c
आक्रम्याक्रम्य साधूनां दारांश्चैव धनानि च 034a
भोक्ष्यन्ते निरनुक्रोशा रुदतामपि भारत 034c
न कन्यां याचते कश्चिन्नापि कन्या प्रदीयते 035a
स्वयङ्ग्राहा भविष्यन्ति युगान्ते पर्युपस्थिते 035c
राजानश्चाप्यसन्तुष्टाः परार्थान्मूढचेतसः 036a
सर्वोपायैर्हरिष्यन्ति युगान्ते पर्युपस्थिते 036c
म्लेच्छीभूतं जगत्सर्वं भविष्यति च भारत 037a
हस्तो हस्तं परिमुषेद्युगान्ते पर्युपस्थिते 037c
सत्यं सङ्क्षिप्यते लोके नरैः पण्डितमानिभिः 038a
स्थविरा बालमतयो बालाः स्थविरबुद्धयः 038c
भीरवः शूरमानीनः शूरा भीरुविषादिनः 039a
न विश्वसन्ति चान्योन्यं युगान्ते पर्युपस्थिते 039c
एकाहार्यं जगत्सर्वं लोभमोहव्यवस्थितम् 040a
अधर्मो वर्धति महान्न च धर्मः प्रवर्तते 040c
ब्राह्मणाः क्षत्रिया वैश्या न शिष्यन्ति जनाधिप 041a
एकवर्णस्तदा लोको भविष्यति युगक्षये 041c
न क्षंस्यति पिता पुत्रं पुत्रश्च पितरं तथा 042a
भार्या च पतिशुश्रूषां न करिष्यति काचन 042c
ये यवान्ना जनपदा गोधूमान्नास्तथैव च 043a
तान्देशान्संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 043c
स्वैराहाराश्च पुरुषा योषितश्च विशां पते 044a
अन्योन्यं न सहिष्यन्ति युगान्ते पर्युपस्थिते 044c
म्लेच्छभूतं जगत्सर्वं भविष्यति युधिष्ठिर 045a
न श्राद्धैर्हि पितॄंश्चापि तर्पयिष्यन्ति मानवाः 045c
न कश्चित्कस्यचिच्छ्रोता न कश्चित्कस्यचिद्गुरुः 046a
तमोग्रस्तस्तदा लोको भविष्यति नराधिप 046c
परमायुश्च भविता तदा वर्षाणि षोडश 047a
ततः प्राणान्विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 047c
पञ्चमे वाथ षष्ठे वा वर्षे कन्या प्रसूयते 048a
सप्तवर्षाष्टवर्षाश्च प्रजास्यन्ति नरास्तदा 048c
पत्यौ स्त्री तु तदा राजन्पुरुषो वा स्त्रियं प्रति 049a
युगान्ते राजशार्दूल न तोषमुपयास्यति 049c
अल्पद्रव्या वृथालिङ्गा हिंसा च प्रभविष्यति 050a
न कश्चित्कस्यचिद्दाता भविष्यति युगक्षये 050c
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः 051a
केशशूलाः स्त्रियश्चापि भविष्यन्ति युगक्षये 051c
म्लेच्छाः क्रूराः सर्वभक्षा दारुणाः सर्वकर्मसु 052a
भाविनः पश्चिमे काले मनुष्या नात्र संशयः 052c
क्रयविक्रयकाले च सर्वः सर्वस्य वञ्चनम् 053a
युगान्ते भरतश्रेष्ठ वृत्तिलोभात्करिष्यति 053c
ज्ञानानि चाप्यविज्ञाय करिष्यन्ति क्रियास्तथा 054a
आत्मच्छन्देन वर्तन्ते युगान्ते पर्युपस्थिते 054c
स्वभावात्क्रूरकर्माणश्चान्योन्यमभिशङ्किनः 055a
भवितारो जनाः सर्वे सम्प्राप्ते युगसङ्क्षये 055c
आरामांश्चैव वृक्षांश्च नाशयिष्यन्ति निर्व्यथाः 056a
भविता सङ्क्षयो लोके जीवितस्य च देहिनाम् 056c
तथा लोभाभिभूताश्च चरिष्यन्ति महीमिमाम् 057a
ब्राह्मणाश्च भविष्यन्ति ब्रह्मस्वानि च भुञ्जते 057c
हाहाकृता द्विजाश्चैव भयार्ता वृषलार्दिताः 058a
त्रातारमलभन्तो वै भ्रमिष्यन्ति महीमिमाम् 058c
जीवितान्तकरा रौद्राः क्रूराः प्राणिविहिंसकाः 059a
यदा भविष्यन्ति नरास्तदा सङ्क्षेप्स्यते युगम् 059c
आश्रयिष्यन्ति च नदीः पर्वतान्विषमाणि च 060a
प्रधावमाना वित्रस्ता द्विजाः कुरुकुलोद्वह 060c
दस्युप्रपीडिता राजन्काका इव द्विजोत्तमाः 061a
कुराजभिश्च सततं करभारप्रपीडिताः 061c
धैर्यं त्यक्त्वा महीपाल दारुणे युगसङ्क्षये 062a
विकर्माणि करिष्यन्ति शूद्राणां परिचारकाः 062c
शूद्रा धर्मं प्रवक्ष्यन्ति ब्राह्मणाः पर्युपासकाः 063a
श्रोतारश्च भविष्यन्ति प्रामाण्येन व्यवस्थिताः 063c
विपरीतश्च लोकोऽयं भविष्यत्यधरोत्तरः 064a
एडूकान्पूजयिष्यन्ति वर्जयिष्यन्ति देवताः 064c
शूद्राः परिचरिष्यन्ति न द्विजान्युगसङ्क्षये 064e
आश्रमेषु महर्षीणां ब्राह्मणावसथेषु च 065a
देवस्थानेषु चैत्येषु नागानामालयेषु च 065c
एडूकचिह्ना पृथिवी न देवगृहभूषिता 066a
भविष्यति युगे क्षीणे तद्युगान्तस्य लक्षणम् 066c
यदा रौद्रा धर्महीना मांसादाः पानपास्तथा 067a
भविष्यन्ति नरा नित्यं तदा सङ्क्षेप्स्यते युगम् 067c
पुष्पे पुष्पं यदा राजन्फले फलमुपाश्रितम् 068a
प्रजास्यति महाराज तदा सङ्क्षेप्स्यते युगम् 068c
अकालवर्षी पर्जन्यो भविष्यति गते युगे 069a
अक्रमेण मनुष्याणां भविष्यति तदा क्रिया 069c
विरोधमथ यास्यन्ति वृषला ब्राह्मणैः सह 069e
मही म्लेच्छसमाकीर्णा भविष्यति ततोऽचिरात् 070a
करभारभयाद्विप्रा भजिष्यन्ति दिशो दश 070c
निर्विशेषा जनपदा नरावृष्टिभिरर्दिताः 071a
आश्रमानभिपत्स्यन्ति फलमूलोपजीविनः 071c
एवं पर्याकुले लोके मर्यादा न भविष्यति 072a
न स्थास्यन्त्युपदेशे च शिष्या विप्रियकारिणः 072c
आचार्योपनिधिश्चैव वत्स्यते तदनन्तरम् 073a
अर्थयुक्त्या प्रवत्स्यन्ति मित्रसम्बन्धिबान्धवाः 073c
अभावः सर्वभूतानां युगान्ते च भविष्यति 073e
दिशः प्रज्वलिताः सर्वा नक्षत्राणि चलानि च 074a
ज्योतींषि प्रतिकूलानि वाताः पर्याकुलास्तथा 074c
उल्कापाताश्च बहवो महाभयनिदर्शकाः 074e
षड्भिरन्यैश्च सहितो भास्करः प्रतपिष्यति 075a
तुमुलाश्चापि निर्ह्रादा दिग्दाहाश्चापि सर्वशः 075c
कबन्धान्तर्हितो भानुरुदयास्तमये तदा 075e
अकालवर्षी च तदा भविष्यति सहस्रदृक् 076a
सस्यानि च न रोक्ष्यन्ति युगान्ते पर्युपस्थिते 076c
अभीक्ष्णं क्रूरवादिन्यः परुषा रुदितप्रियाः 077a
भर्तॄणां वचने चैव न स्थास्यन्ति तदा स्त्रियः 077c
पुत्राश्च मातापितरौ हनिष्यन्ति युगक्षये 078a
सूदयिष्यन्ति च पतीन्स्त्रियः पुत्रानपाश्रिताः 078c
अपर्वणि महाराज सूर्यं राहुरुपैष्यति 079a
युगान्ते हुतभुक्चापि सर्वतः प्रज्वलिष्यति 079c
पानीयं भोजनं चैव याचमानास्तदाध्वगाः 080a
न लप्स्यन्ते निवासं च निरस्ताः पथि शेरते 080c
निर्घातवायसा नागाः शकुनाः समृगद्विजाः 081a
रूक्षा वाचो विमोक्ष्यन्ति युगान्ते पर्युपस्थिते 081c
मित्रसम्बन्धिनश्चापि सन्त्यक्ष्यन्ति नरास्तदा 082a
जनं परिजनं चापि युगान्ते पर्युपस्थिते 082c
अथ देशान्दिशश्चापि पत्तनानि पुराणि च 083a
क्रमशः संश्रयिष्यन्ति युगान्ते पर्युपस्थिते 083c
हा तात हा सुतेत्येवं तदा वाचः सुदारुणाः 084a
विक्रोशमानश्चान्योन्यं जनो गां पर्यटिष्यति 084c
ततस्तुमुलसङ्घाते वर्तमाने युगक्षये 085a
द्विजातिपूर्वको लोकः क्रमेण प्रभविष्यति 085c
ततः कालान्तरेऽन्यस्मिन्पुनर्लोकविवृद्धये 086a
भविष्यति पुनर्दैवमनुकूलं यदृच्छया 086c
यदा चन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती 087a
एकराशौ समेष्यन्ति प्रपत्स्यति तदा कृतम् 087c
कालवर्षी च पर्जन्यो नक्षत्राणि शुभानि च 088a
प्रदक्षिणा ग्रहाश्चापि भविष्यन्त्यनुलोमगाः 088c
क्षेमं सुभिक्षमारोग्यं भविष्यति निरामयम् 088e
कल्किर्विष्णुयशा नाम द्विजः कालप्रचोदितः 089a
उत्पत्स्यते महावीर्यो महाबुद्धिपराक्रमः 089c
सम्भूतः सम्भलग्रामे ब्राह्मणावसथे शुभे 090a
मनसा तस्य सर्वाणि वाहनान्यायुधानि च 090c
उपस्थास्यन्ति योधाश्च शस्त्राणि कवचानि च 090e
स धर्मविजयी राजा चक्रवर्ती भविष्यति 091a
स चेमं सङ्कुलं लोकं प्रसादमुपनेष्यति 091c
उत्थितो ब्राह्मणो दीप्तः क्षयान्तकृदुदारधीः 092a
स सङ्क्षेपो हि सर्वस्य युगस्य परिवर्तकः 092c
स सर्वत्र गतान्क्षुद्रान्ब्राह्मणैः परिवारितः 093a
उत्सादयिष्यति तदा सर्वान्म्लेच्छगणान्द्विजः 093c