देव उवाच 001
कामं देवापि मां विप्र न विजानन्ति तत्त्वतः 001a
त्वत्प्रीत्या तु प्रवक्ष्यामि यथेदं विसृजाम्यहम् 001c
पितृभक्तोऽसि विप्रर्षे मां चैव शरणं गतः 002a
अतो दृष्टोऽस्मि ते साक्षाद्ब्रह्मचर्यं च ते महत् 002c
आपो नारा इति प्रोक्ताः सञ्ज्ञानाम कृतं मया 003a
तेन नारायणोऽस्म्युक्तो मम तद्ध्ययनं सदा 003c
अहं नारायणो नाम प्रभवः शाश्वतोऽव्ययः 004a
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम 004c
अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः 005a
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा 005c
अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः 006a
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम 006c
अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ च लोचने 007a
सदिशं च नभः कायो वायुर्मनसि मे स्थितः 007c
मया क्रतुशतैरिष्टं बहुभिः स्वाप्तदक्षिणैः 008a
यजन्ते वेदविदुषो मां देवयजने स्थितम् 008c
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाङ्क्षिणः 009a
यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः 009c
चतुःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् 010a
शेषो भूत्वाहमेवैतां धारयामि वसुन्धराम् 010c
वाराहं रूपमास्थाय मयेयं जगती पुरा 011a
मज्जमाना जले विप्र वीर्येणासीत्समुद्धृता 011c
अग्निश्च वडवावक्त्रो भूत्वाहं द्विजसत्तम 012a
पिबाम्यपः समाविद्धास्ताश्चैव विसृजाम्यहम् 012c
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः 013a
पादौ शूद्रा भजन्ते मे विक्रमेण क्रमेण च 013c
ऋग्वेदः सामवेदश्च यजुर्वेदोऽप्यथर्वणः 014a
मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च 014c
यतयः शान्तिपरमा यतात्मानो मुमुक्षवः 015a
कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः 015c
सत्त्वस्था निरहङ्कारा नित्यमध्यात्मकोविदाः 016a
मामेव सततं विप्राश्चिन्तयन्त उपासते 016c
अहं संवर्तको ज्योतिरहं सर्वर्तको यमः 017a
अहं संवर्तकः सूर्यो अहं संवर्तकोऽनिलः 017c
तारारूपाणि दृश्यन्ते यान्येतानि नभस्तले 018a
मम रूपाण्यथैतानि विद्धि त्वं द्विजसत्तम 018c
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशम् 019a
वसनं शयनं चैव निलयं चैव विद्धि मे 019c
कामं क्रोधं च हर्षं च भयं मोहं तथैव च 020a
ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम 020c
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्मशोभनम् 021a
सत्यं दानं तपश्चोग्रमहिंसा चैव जन्तुषु 021c
मद्विधानेन विहिता मम देहविहारिणः 022a
मयाभिभूतविज्ञाना विचेष्टन्ते न कामतः 022c
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः 023a
शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः 023c
प्राप्तुं न शक्यो यो विद्वन्नरैर्दुष्कृतकर्मभिः 024a
लोभाभिभूतैः कृपणैरनार्यैरकृतात्मभिः 024c
तं मां महाफलं विद्धि पदं सुकृतकर्मणः 025a
दुष्प्रापं विप्रमूढानां मार्गं योगैर्निषेवितम् 025c
यदा यदा च धर्मस्य ग्लानिर्भवति सत्तम 026a
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् 026c
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः 027a
राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः 027c
तदाहं सम्प्रसूयामि गृहेषु शुभकर्मणाम् 028a
प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् 028c
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् 029a
स्थावराणि च भूतानि संहराम्यात्ममायया 029c
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् 030a
प्रविश्य मानुषं देहं मर्यादाबन्धकारणात् 030c
श्वेतः कृतयुगे वर्णः पीतस्त्रेतायुगे मम 031a
रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा 031c
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्त्युत 032a
अन्तकाले च सम्प्राप्ते कालो भूत्वातिदारुणः 032c
त्रैलोक्यं नाशयाम्येकः कृत्स्नं स्थावरजङ्गमम् 032e
अहं त्रिवर्त्मा सर्वात्मा सर्वलोकसुखावहः 033a
अभिभूः सर्वगोऽनन्तो हृषीकेश उरुक्रमः 033c
कालचक्रं नयाम्येको ब्रह्मन्नहमरूपि वै 034a
शमनं सर्वभूतानां सर्वलोककृतोद्यमम् 034c
एवं प्रणिहितः सम्यङ्मयात्मा मुनिसत्तम 035a
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन 035c
यच्च किञ्चित्त्वया प्राप्तं मयि क्लेषात्मकं द्विज 036a
सुखोदयाय तत्सर्वं श्रेयसे च तवानघ 036c
यच्च किञ्चित्त्वया लोके दृष्टं स्थावरजङ्गमम् 037a
विहितः सर्वथैवासौ ममात्मा मुनिसत्तम 037c
अर्धं मम शरीरस्य सर्वलोकपितामहः 038a
अहं नारायणो नाम शङ्खचक्रगदाधरः 038c
यावद्युगानां विप्रर्षे सहस्रपरिवर्तनम् 039a
तावत्स्वपिमि विश्वात्मा सर्वलोकपितामहः 039c
एवं सर्वमहं कालमिहासे मुनिसत्तम 040a
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते 040c
मया च विप्र दत्तोऽयं वरस्ते ब्रह्मरूपिणा 041a
असकृत्परितुष्टेन विप्रर्षिगणपूजित 041c
सर्वमेकार्णवं दृष्ट्वा नष्टं स्थावरजङ्गमम् 042a
विक्लवोऽसि मया ज्ञातस्ततस्ते दर्शितं जगत् 042c
अभ्यन्तरं शरीरस्य प्रविष्टोऽसि यदा मम 043a
दृष्ट्वा लोकं समस्तं च विस्मितो नावबुध्यसे 043c
ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया 044a
आख्यातस्ते मया चात्मा दुर्ज्ञेयोऽपि सुरासुरैः 044c
यावत्स भगवान्ब्रह्मा न बुध्यति महातपाः 045a
तावत्त्वमिह विप्रर्षे विश्रब्धश्चर वै सुखम् 045c
ततो विबुद्धे तस्मिंस्तु सर्वलोकपितामहे 046a
एकीभूतो हि स्रक्ष्यामि शरीराद्द्विजसत्तम 046c
आकाशं पृथिवीं ज्योतिर्वायुं सलिलमेव च 047a
लोके यच्च भवेच्छेषमिह स्थावरजङ्गमम् 047c
मार्कण्डेय उवाच 048
इत्युक्त्वान्तर्हितस्तात स देवः परमाद्भुतः 048a
प्रजाश्चेमाः प्रपश्यामि विचित्रा बहुधाकृताः 048c
एतद्दृष्टं मया राजंस्तस्मिन्प्राप्ते युगक्षये 049a
आश्चर्यं भरतश्रेष्ठ सर्वधर्मभृतां वर 049c
यः स देवो मया दृष्टः पुरा पद्मनिभेक्षणः 050a
स एष पुरुषव्याघ्र सम्बन्धी ते जनार्दनः 050c
अस्यैव वरदानाद्धि स्मृतिर्न प्रजहाति माम् 051a
दीर्घमायुश्च कौन्तेय स्वच्छन्दमरणं तथा 051c
स एष कृष्णो वार्ष्णेयः पुराणपुरुषो विभुः 052a
आस्ते हरिरचिन्त्यात्मा क्रीडन्निव महाभुजः 052c
एष धाता विधाता च संहर्ता चैव सात्वतः 053a
श्रीवत्सवक्षा गोविन्दः प्रजापतिपतिः प्रभुः 053c
दृष्ट्वेमं वृष्णिशार्दूलं स्मृतिर्मामियमागता 054a
आदिदेवमजं विष्णुं पुरुषं पीतवाससम् 054c
सर्वेषामेव भूतानां पिता माता च माधवः 055a
गच्छध्वमेनं शरणं शरण्यं कौरवर्षभाः 055c