वैशम्पायन उवाच 001
ततः स पुनरेवाथ मार्कण्डेयं यशस्विनम् 001a
पप्रच्छ विनयोपेतो धर्मराजो युधिष्ठिरः 001c
नैके युगसहस्रान्तास्त्वया दृष्टा महामुने 002a
न चापीह समः कश्चिदायुषा तव विद्यते 002c
वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् 002e
अनन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते 003a
त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसि 003c
प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे 004a
त्वमेव सृज्यमानानि भूतानीह प्रपश्यसि 004c
चतुर्विधानि विप्रर्षे यथावत्परमेष्ठिना 005a
वायुभूता दिशः कृत्वा विक्षिप्यापस्ततस्ततः 005c
त्वया लोकगुरुः साक्षात्सर्वलोकपितामहः 006a
आराधितो द्विजश्रेष्ठ तत्परेण समाधिना 006c
तस्मात्सर्वान्तको मृत्युर्जरा वा देहनाशिनी 007a
न त्वा विशति विप्रर्षे प्रसादात्परमेष्ठिनः 007c
यदा नैव रविर्नाग्निर्न वायुर्न च चन्द्रमाः 008a
नैवान्तरिक्षं नैवोर्वी शेषं भवति किञ्चन 008c
तस्मिन्नेकार्णवे लोके नष्टे स्थावरजङ्गमे 009a
नष्टे देवासुरगणे समुत्सन्नमहोरगे 009c
शयानममितात्मानं पद्मे पद्मनिकेतनम् 010a
त्वमेकः सर्वभूतेशं ब्रह्माणमुपतिष्ठसि 010c
एतत्प्रत्यक्षतः सर्वं पूर्ववृत्तं द्विजोत्तम 011a
तस्मादिच्छामहे श्रोतुं सर्वहेत्वात्मिकां कथाम् 011c
अनुभूतं हि बहुशस्त्वयैकेन द्विजोत्तम 012a
न तेऽस्त्यविदितं किञ्चित्सर्वलोकेषु नित्यदा 012c
मार्कण्डेय उवाच 013
हन्त ते कथयिष्यामि नमस्कृत्वा स्वयम्भुवे 013a
पुरुषाय पुराणाय शाश्वतायाव्ययाय च 013c
य एष पृथुदीर्घाक्षः पीतवासा जनार्दनः 014a
एष कर्ता विकर्ता च सर्वभावनभूतकृत् 014c
अचिन्त्यं महदाश्चर्यं पवित्रमपि चोत्तमम् 015a
अनादिनिधनं भूतं विश्वमक्षयमव्ययम् 015c
एष कर्ता न क्रियते कारणं चापि पौरुषे 016a
यो ह्येनं पुरुषं वेत्ति देवा अपि न तं विदुः 016c
सर्वमाश्चर्यमेवैतन्निर्वृत्तं राजसत्तम 017a
आदितो मनुजव्याघ्र कृत्स्नस्य जगतः क्षये 017c
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् 018a
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् 018c
त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते 019a
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च ततः परम् 019c
तथा वर्षसहस्रे द्वे द्वापरं परिमाणतः 020a
तस्यापि द्विशती सन्ध्या सन्ध्यांशश्च ततः परम् 020c
सहस्रमेकं वर्षाणां ततः कलियुगं स्मृतम् 021a
तस्य वर्षशतं सन्ध्या सन्ध्यांशश्च ततः परम् 021c
सन्ध्यासन्ध्यांशयोस्तुल्यं प्रमाणमुपधारय 021e
क्षीणे कलियुगे चैव प्रवर्तति कृतं युगम् 022a
एषा द्वादशसाहस्री युगाख्या परिकीर्तिता 022c
एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् 023a
विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते 023c
लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः 023e
अल्पावशिष्टे तु तदा युगान्ते भरतर्षभ 024a
सहस्रान्ते नराः सर्वे प्रायशोऽनृतवादिनः 024c
यज्ञप्रतिनिधिः पार्थ दानप्रतिनिधिस्तथा 025a
व्रतप्रतिनिधिश्चैव तस्मिन्काले प्रवर्तते 025c
ब्राह्मणाः शूद्रकर्माणस्तथा शूद्रा धनार्जकाः 026a
क्षत्रधर्मेण वाप्यत्र वर्तयन्ति गते युगे 026c
निवृत्तयज्ञस्वाध्यायाः पिण्डोदकविवर्जिताः 027a
ब्राह्मणाः सर्वभक्षाश्च भविष्यन्ति कलौ युगे 027c
अजपा ब्राह्मणास्तात शूद्रा जपपरायणाः 028a
विपरीते तदा लोके पूर्वरूपं क्षयस्य तत् 028c
बहवो म्लेच्छराजानः पृथिव्यां मनुजाधिप 029a
मिथ्यानुशासिनः पापा मृषावादपरायणाः 029c
आन्ध्राः शकाः पुलिन्दाश्च यवनाश्च नराधिपाः 030a
काम्बोजा और्णिकाः शूद्रास्तथाभीरा नरोत्तम 030c
न तदा ब्राह्मणः कश्चित्स्वधर्ममुपजीवति 031a
क्षत्रिया अपि वैश्याश्च विकर्मस्था नराधिप 031c
अल्पायुषः स्वल्पबला अल्पतेजःपराक्रमाः 032a
अल्पदेहाल्पसाराश्च तथा सत्याल्पभाषिणः 032c
बहुशून्या जनपदा मृगव्यालावृता दिशः 033a
युगान्ते समनुप्राप्ते वृथा च ब्रह्मचारिणः 033c
भोवादिनस्तथा शूद्रा ब्राह्मणाश्चार्यवादिनः 033e
युगान्ते मनुजव्याघ्र भवन्ति बहुजन्तवः 034a
न तथा घ्राणयुक्ताश्च सर्वगन्धा विशां पते 034c
रसाश्च मनुजव्याघ्र न तथा स्वादुयोगिनः 034e
बहुप्रजा ह्रस्वदेहाः शीलाचारविवर्जिताः 035a
मुखेभगाः स्त्रियो राजन्भविष्यन्ति युगक्षये 035c
अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः 036a
केशशूलाः स्त्रियो राजन्भविष्यन्ति युगक्षये 036c
अल्पक्षीरास्तथा गावो भविष्यन्ति जनाधिप 037a
अल्पपुष्पफलाश्चापि पादपा बहुवायसाः 037c
ब्रह्मवध्यावलिप्तानां तथा मिथ्याभिशंसिनाम् 038a
नृपाणां पृथिवीपाल प्रतिगृह्णन्ति वै द्विजाः 038c
लोभमोहपरीताश्च मिथ्याधर्मध्वजावृताः 039a
भिक्षार्थं पृथिवीपाल चञ्चूर्यन्ते द्विजैर्दिशः 039c
करभारभयात्पुंसो गृहस्थाः परिमोषकाः 040a
मुनिच्छद्माकृतिच्छन्ना वाणिज्यमुपजीवते 040c
मिथ्या च नखरोमाणि धारयन्ति नरास्तदा 041a
अर्थलोभान्नरव्याघ्र वृथा च ब्रह्मचारिणः 041c
आश्रमेषु वृथाचाराः पानपा गुरुतल्पगाः 042a
ऐहलौकिकमीहन्ते मांसशोणितवर्धनम् 042c
बहुपाषण्डसङ्कीर्णाः परान्नगुणवादिनः 043a
आश्रमा मनुजव्याघ्र न भवन्ति युगक्षये 043c
यथर्तुवर्षी भगवान्न तथा पाकशासनः 044a
न तदा सर्वबीजानि सम्यग्रोहन्ति भारत 044c
अधर्मफलमत्यर्थं तदा भवति चानघ 044e
तथा च पृथिवीपाल यो भवेद्धर्मसंयुतः 045a
अल्पायुः स हि मन्तव्यो न हि धर्मोऽस्ति कश्चन 045c
भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः 046a
वणिजश्च नरव्याघ्र बहुमाया भवन्त्युत 046c
धर्मिष्ठाः परिहीयन्ते पापीयान्वर्धते जनः 047a
धर्मस्य बलहानिः स्यादधर्मश्च बली तथा 047c
अल्पायुषो दरिद्राश्च धर्मिष्ठा मानवास्तदा 048a
दीर्घायुषः समृद्धाश्च विधर्माणो युगक्षये 048c
अधर्मिष्ठैरुपायैश्च प्रजा व्यवहरन्त्युत 049a
सञ्चयेनापि चाल्पेन भवन्त्याढ्या मदान्विताः 049c
धनं विश्वासतो न्यस्तं मिथो भूयिष्ठशो नराः 050a
हर्तुं व्यवसिता राजन्मायाचारसमन्विताः 050c
पुरुषादानि सत्त्वानि पक्षिणोऽथ मृगास्तथा 051a
नगराणां विहारेषु चैत्येष्वपि च शेरते 051c
सप्तवर्षाष्टवर्षाश्च स्त्रियो गर्भधरा नृप 052a
दशद्वादशवर्षाणां पुंसां पुत्रः प्रजायते 052c
भवन्ति षोडशे वर्षे नराः पलितिनस्तथा 053a
आयुःक्षयो मनुष्याणां क्षिप्रमेव प्रपद्यते 053c
क्षीणे युगे महाराज तरुणा वृद्धशीलिनः 054a
तरुणानां च यच्छीलं तद्वृद्धेषु प्रजायते 054c
विपरीतास्तदा नार्यो वञ्चयित्वा रहः पतीन् 055a
व्युच्चरन्त्यपि दुःशीला दासैः पशुभिरेव च 055c
तस्मिन्युगसहस्रान्ते सम्प्राप्ते चायुषः क्षये 056a
अनावृष्टिर्महाराज जायते बहुवार्षिकी 056c
ततस्तान्यल्पसाराणि सत्त्वानि क्षुधितानि च 057a
प्रलयं यान्ति भूयिष्ठं पृथिव्यां पृथिवीपते 057c
ततो दिनकरैर्दीप्तैः सप्तभिर्मनुजाधिप 058a
पीयते सलिलं सर्वं समुद्रेषु सरित्सु च 058c
यच्च काष्ठं तृणं चापि शुष्कं चार्द्रं च भारत 059a
सर्वं तद्भस्मसाद्भूतं दृश्यते भरतर्षभ 059c
ततः संवर्तको वह्निर्वायुना सह भारत 060a
लोकमाविशते पूर्वमादित्यैरुपशोषितम् 060c
ततः स पृथिवीं भित्त्वा समाविश्य रसातलम् 061a
देवदानवयक्षाणां भयं जनयते महत् 061c
निर्दहन्नागलोकं च यच्च किञ्चित्क्षिताविह 062a
अधस्तात्पृथिवीपाल सर्वं नाशयते क्षणात् 062c
ततो योजनविंशानां सहस्राणि शतानि च 063a
निर्दहत्यशिवो वायुः स च संवर्तकोऽनलः 063c
सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् 064a
ततो दहति दीप्तः स सर्वमेव जगद्विभुः 064c
ततो गजकुलप्रख्यास्तडिन्मालाविभूषिताः 065a
उत्तिष्ठन्ति महामेघा नभस्यद्भुतदर्शनाः 065c
केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः 066a
केचित्किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः 066c
केचिद्धारिद्रसङ्काशाः काकाण्डकनिभास्तथा 067a
केचित्कमलपत्राभाः केचिद्धिङ्गुलकप्रभाः 067c
केचित्पुरवराकाराः केचिद्गजकुलोपमाः 068a
केचिदञ्जनसङ्काशाः केचिन्मकरसंस्थिताः 068c
विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः 068e
घोररूपा महाराज घोरस्वननिनादिताः 069a
ततो जलधराः सर्वे व्याप्नुवन्ति नभस्तलम् 069c
तैरियं पृथिवी सर्वा सपर्वतवनाकरा 070a
आपूर्यते महाराज सलिलौघपरिप्लुता 070c
ततस्ते जलदा घोरा राविणः पुरुषर्षभ 071a
सर्वतः प्लावयन्त्याशु चोदिताः परमेष्ठिना 071c
वर्षमाणा महत्तोयं पूरयन्तो वसुन्धराम् 072a
सुघोरमशिवं रौद्रं नाशयन्ति च पावकम् 072c
ततो द्वादश वर्षाणि पयोदास्त उपप्लवे 073a
धाराभिः पूरयन्तो वै चोद्यमाना महात्मना 073c
ततः समुद्रः स्वां वेलामतिक्रामति भारत 074a
पर्वताश्च विशीर्यन्ते मही चापि विशीर्यते 074c
सर्वतः सहसा भ्रान्तास्ते पयोदा नभस्तलम् 075a
संवेष्टयित्वा नश्यन्ति वायुवेगपराहताः 075c
ततस्तं मारुतं घोरं स्वयम्भूर्मनुजाधिप 076a
आदिपद्मालयो देवः पीत्वा स्वपिति भारत 076c
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे 077a
नष्टे देवासुरगणे यक्षराक्षसवर्जिते 077c
निर्मनुष्ये महीपाल निःश्वापदमहीरुहे 078a
अनन्तरिक्षे लोकेऽस्मिन्भ्रमाम्येकोऽहमादृतः 078c
एकार्णवे जले घोरे विचरन्पार्थिवोत्तम 079a
अपश्यन्सर्वभूतानि वैक्लव्यमगमं परम् 079c
ततः सुदीर्घं गत्वा तु प्लवमानो नराधिप 080a
श्रान्तः क्वचिन्न शरणं लभाम्यहमतन्द्रितः 080c
ततः कदाचित्पश्यामि तस्मिन्सलिलसम्प्लवे 081a
न्यग्रोधं सुमहान्तं वै विशालं पृथिवीपते 081c
शाखायां तस्य वृक्षस्य विस्तीर्णायां नराधिप 082a
पर्यङ्के पृथिवीपाल दिव्यास्तरणसंस्तृते 082c
उपविष्टं महाराज पूर्णेन्दुसदृशाननम् 083a
फुल्लपद्मविशालाक्षं बालं पश्यामि भारत 083c
ततो मे पृथिवीपाल विस्मयः सुमहानभूत् 084a
कथं त्वयं शिशुः शेते लोके नाशमुपागते 084c
तपसा चिन्तयंश्चापि तं शिशुं नोपलक्षये 085a
भूतं भव्यं भविष्यच्च जानन्नपि नराधिप 085c
अतसीपुष्पवर्णाभः श्रीवत्सकृतलक्षणः 086a
साक्षाल्लक्ष्म्या इवावासः स तदा प्रतिभाति मे 086c
ततो मामब्रवीद्बालः स पद्मनिभलोचनः 087a
श्रीवत्सधारी द्युतिमान्वाक्यं श्रुतिसुखावहम् 087c
जानामि त्वा परिश्रान्तं तात विश्रामकाङ्क्षिणम् 088a
मार्कण्डेय इहास्स्व त्वं यावदिच्छसि भार्गव 088c
अभ्यन्तरं शरीरं मे प्रविश्य मुनिसत्तम 089a
आस्स्व भो विहितो वासः प्रसादस्ते कृतो मया 089c
ततो बालेन तेनैवमुक्तस्यासीत्तदा मम 090a
निर्वेदो जीविते दीर्घे मनुष्यत्वे च भारत 090c
ततो बालेन तेनास्यं सहसा विवृतं कृतम् 091a
तस्याहमवशो वक्त्रं दैवयोगात्प्रवेशितः 091c
ततः प्रविष्टस्तत्कुक्षिं सहसा मनुजाधिप 092a
सराष्ट्रनगराकीर्णां कृत्स्नां पश्यामि मेदिनीम् 092c
गङ्गां शतद्रुं सीतां च यमुनामथ कौशिकीम् 093a
चर्मण्वतीं वेत्रवतीं चन्द्रभागां सरस्वतीम् 093c
सिन्धुं चैव विपाशां च नदीं गोदावरीमपि 094a
वस्वोकसारां नलिनीं नर्मदां चैव भारत 094c
नदीं ताम्रां च वेण्णां च पुण्यतोयां शुभावहाम् 095a
सुवेणां कृष्णवेणां च इरामां च महानदीम् 095c
शोणं च पुरुषव्याघ्र विशल्यां कम्पुनामपि 095e
एताश्चान्याश्च नद्योऽहं पृथिव्यां या नरोत्तम 096a
परिक्रामन्प्रपश्यामि तस्य कुक्षौ महात्मनः 096c
ततः समुद्रं पश्यामि यादोगणनिषेवितम् 097a
रत्नाकरममित्रघ्न निधानं पयसो महत् 097c
ततः पश्यामि गगनं चन्द्रसूर्यविराजितम् 098a
जाज्वल्यमानं तेजोभिः पावकार्कसमप्रभैः 098c
पश्यामि च महीं राजन्काननैरुपशोभिताम् 098e
यजन्ते हि तदा राजन्ब्राह्मणा बहुभिः सवैः 099a
क्षत्रियाश्च प्रवर्तन्ते सर्ववर्णानुरञ्जने 099c
वैश्याः कृषिं यथान्यायं कारयन्ति नराधिप 100a
शुश्रूषायां च निरता द्विजानां वृषलास्तथा 100c
ततः परिपतन्राजंस्तस्य कुक्षौ महात्मनः 101a
हिमवन्तं च पश्यामि हेमकूटं च पर्वतम् 101c
निषधं चापि पश्यामि श्वेतं च रजताचितम् 102a
पश्यामि च महीपाल पर्वतं गन्धमादनम् 102c
मन्दरं मनुजव्याघ्र नीलं चापि महागिरिम् 103a
पश्यामि च महाराज मेरुं कनकपर्वतम् 103c
महेन्द्रं चैव पश्यामि विन्ध्यं च गिरिमुत्तमम् 104a
मलयं चापि पश्यामि पारियात्रं च पर्वतम् 104c
एते चान्ये च बहवो यावन्तः पृथिवीधराः 105a
तस्योदरे मया दृष्टाः सर्वरत्नविभूषिताः 105c
सिंहान्व्याघ्रान्वराहांश्च नागांश्च मनुजाधिप 106a
पृथिव्यां यानि चान्यानि सत्त्वानि जगतीपते 106c
तानि सर्वाण्यहं तत्र पश्यन्पर्यचरं तदा 106e
कुक्षौ तस्य नरव्याघ्र प्रविष्टः सञ्चरन्दिशः 107a
शक्रादींश्चापि पश्यामि कृत्स्नान्देवगणांस्तथा 107c
गन्धर्वाप्सरसो यक्षानृषींश्चैव महीपते 108a
दैत्यदानवसङ्घांश्च कालेयांश्च नराधिप 108c
सिंहिकातनयांश्चापि ये चान्ये सुरशत्रवः 108e
यच्च किञ्चिन्मया लोके दृष्टं स्थावरजङ्गमम् 109a
तदपश्यमहं सर्वं तस्य कुक्षौ महात्मनः 109c
फलाहारः प्रविचरन्कृत्स्नं जगदिदं तदा 109e
अन्तः शरीरे तस्याहं वर्षाणामधिकं शतम् 110a
न च पश्यामि तस्याहमन्तं देहस्य कुत्रचित् 110c
सततं धावमानश्च चिन्तयानो विशां पते 111a
आसादयामि नैवान्तं तस्य राजन्महात्मनः 111c
ततस्तमेव शरणं गतोऽस्मि विधिवत्तदा 112a
वरेण्यं वरदं देवं मनसा कर्मणैव च 112c
ततोऽहं सहसा राजन्वायुवेगेन निःसृतः 113a
महात्मनो मुखात्तस्य विवृतात्पुरुषोत्तम 113c
ततस्तस्यैव शाखायां न्यग्रोधस्य विशां पते 114a
आस्ते मनुजशार्दूल कृत्स्नमादाय वै जगत् 114c
तेनैव बालवेषेण श्रीवत्सकृतलक्षणम् 115a
आसीनं तं नरव्याघ्र पश्याम्यमिततेजसम् 115c
ततो मामब्रवीद्वीर स बालः प्रहसन्निव 116a
श्रीवत्सधारी द्युतिमान्पीतवासा महाद्युतिः 116c
अपीदानीं शरीरेऽस्मिन्मामके मुनिसत्तम 117a
उषितस्त्वं सुविश्रान्तो मार्कण्डेय ब्रवीहि मे 117c
मुहूर्तादथ मे दृष्टिः प्रादुर्भूता पुनर्नवा 118a
यया निर्मुक्तमात्मानमपश्यं लब्धचेतसम् 118c
तस्य ताम्रतलौ तात चरणौ सुप्रतिष्ठितौ 119a
सुजातौ मृदुरक्ताभिरङ्गुलीभिरलङ्कृतौ 119c
प्रयतेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ 120a
दृष्ट्वापरिमितं तस्य प्रभावममितौजसः 120c
विनयेनाञ्जलिं कृत्वा प्रयत्नेनोपगम्य च 121a
दृष्टो मया स भूतात्मा देवः कमललोचनः 121c
तमहं प्राञ्जलिर्भूत्वा नमस्कृत्येदमब्रुवम् 122a
ज्ञातुमिच्छामि देव त्वां मायां चेमां तवोत्तमाम् 122c
आस्येनानुप्रविष्टोऽहं शरीरं भगवंस्तव 123a
दृष्टवानखिलाल्ँलोकान्समस्ताञ्जठरे तव 123c
तव देव शरीरस्था देवदानवराक्षसाः 124a
यक्षगन्धर्वनागाश्च जगत्स्थावरजङ्गमम् 124c
त्वत्प्रसादाच्च मे देव स्मृतिर्न परिहीयते 125a
द्रुतमन्तः शरीरे ते सततं परिधावतः 125c
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वाहमनिन्दित 126a
इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते 126c
पीत्वा जगदिदं विश्वमेतदाख्यातुमर्हसि 126e
किमर्थं च जगत्सर्वं शरीरस्थं तवानघ 127a
कियन्तं च त्वया कालमिह स्थेयमरिन्दम 127c
एतदिच्छामि देवेश श्रोतुं ब्राह्मणकाम्यया 128a
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम् 128c
महद्ध्येतदचिन्त्यं च यदहं दृष्टवान्प्रभो 128e
इत्युक्तः स मया श्रीमान्देवदेवो महाद्युतिः 129a
सान्त्वयन्मामिदं वाक्यमुवाच वदतां वरः 129c