वैशम्पायन उवाच 001
ततः स पाण्डवो भूयो मार्कण्डेयमुवाच ह 001a
कथयस्वेह चरितं मनोर्वैवस्वतस्य मे 001c
मार्कण्डेय उवाच 002
विवस्वतः सुतो राजन्परमर्षिः प्रतापवान् 002a
बभूव नरशार्दूल प्रजापतिसमद्युतिः 002c
ओजसा तेजसा लक्ष्म्या तपसा च विशेषतः 003a
अतिचक्राम पितरं मनुः स्वं च पितामहम् 003c
ऊर्ध्वबाहुर्विशालायां बदर्यां स नराधिपः 004a
एकपादस्थितस्तीव्रं चचार सुमहत्तपः 004c
अवाक्शिरास्तथा चापि नेत्रैरनिमिषैर्दृढम् 005a
सोऽतप्यत तपो घोरं वर्षाणामयुतं तदा 005c
तं कदाचित्तपस्यन्तमार्द्रचीरजटाधरम् 006a
वीरिणीतीरमागम्य मत्स्यो वचनमब्रवीत् 006c
भगवन्क्षुद्रमत्स्योऽस्मि बलवद्भ्यो भयं मम 007a
मत्स्येभ्यो हि ततो मां त्वं त्रातुमर्हसि सुव्रत 007c
दुर्बलं बलवन्तो हि मत्स्यं मत्स्या विशेषतः 008a
भक्षयन्ति यथा वृत्तिर्विहिता नः सनातनी 008c
तस्माद्भयौघान्महतो मज्जन्तं मां विशेषतः 009a
त्रातुमर्हसि कर्तास्मि कृते प्रतिकृतं तव 009c
स मत्स्यवचनं श्रुत्वा कृपयाभिपरिप्लुतः 010a
मनुर्वैवस्वतोऽगृह्णात्तं मत्स्यं पाणिना स्वयम् 010c
उदकान्तमुपानीय मत्स्यं वैवस्वतो मनुः 011a
अलिञ्जरे प्राक्षिपत्स चन्द्रांशुसदृशप्रभम् 011c
स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः 012a
पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः 012c
अथ कालेन महता स मत्स्यः सुमहानभूत् 013a
अलिञ्जरे जले चैव नासौ समभवत्किल 013c
अथ मत्स्यो मनुं दृष्ट्वा पुनरेवाभ्यभाषत 014a
भगवन्साधु मेऽद्यान्यत्स्थानं सम्प्रतिपादय 014c
उद्धृत्यालिञ्जरात्तस्मात्ततः स भगवान्मुनिः 015a
तं मत्स्यमनयद्वापीं महतीं स मनुस्तदा 015c
तत्र तं प्राक्षिपच्चापि मनुः परपुरञ्जय 016a
अथावर्धत मत्स्यः स पुनर्वर्षगणान्बहून् 016c
द्वियोजनायता वापी विस्तृता चापि योजनम् 017a
तस्यां नासौ समभवन्मत्स्यो राजीवलोचन 017c
विचेष्टितुं वा कौन्तेय मत्स्यो वाप्यां विशां पते 017e
मनुं मत्स्यस्ततो दृष्ट्वा पुनरेवाभ्यभाषत 018a
नय मां भगवन्साधो समुद्रमहिषीं प्रभो 018c
गङ्गां तत्र निवत्स्यामि यथा वा तात मन्यसे 018e
एवमुक्तो मनुर्मत्स्यमनयद्भगवान्वशी 019a
नदीं गङ्गां तत्र चैनं स्वयं प्राक्षिपदच्युतः 019c
स तत्र ववृधे मत्स्यः किञ्चित्कालमरिन्दम 020a
ततः पुनर्मनुं दृष्ट्वा मत्स्यो वचनमब्रवीत् 020c
गङ्गायां हि न शक्नोमि बृहत्त्वाच्चेष्टितुं प्रभो 021a
समुद्रं नय मामाशु प्रसीद भगवन्निति 021c
उद्धृत्य गङ्गासलिलात्ततो मत्स्यं मनुः स्वयम् 022a
समुद्रमनयत्पार्थ तत्र चैनमवासृजत् 022c
सुमहानपि मत्स्यः सन्स मनोर्मनसस्तदा 023a
आसीद्यथेष्टहार्यश्च स्पर्शगन्धसुखश्च वै 023c
यदा समुद्रे प्रक्षिप्तः स मत्स्यो मनुना तदा 024a
तत एनमिदं वाक्यं स्मयमान इवाब्रवीत् 024c
भगवन्कृता हि मे रक्षा त्वया सर्वा विशेषतः 025a
प्राप्तकालं तु यत्कार्यं त्वया तच्छ्रूयतां मम 025c
अचिराद्भगवन्भौममिदं स्थावरजङ्गमम् 026a
सर्वमेव महाभाग प्रलयं वै गमिष्यति 026c
सम्प्रक्षालनकालोऽयं लोकानां समुपस्थितः 027a
तस्मात्त्वां बोधयाम्यद्य यत्ते हितमनुत्तमम् 027c
त्रसानां स्थावराणां च यच्चेङ्गं यच्च नेङ्गति 028a
तस्य सर्वस्य सम्प्राप्तः कालः परमदारुणः 028c
नौश्च कारयितव्या ते दृढा युक्तवटाकरा 029a
तत्र सप्तर्षिभिः सार्धमारुहेथा महामुने 029c
बीजानि चैव सर्वाणि यथोक्तानि मया पुरा 030a
तस्यामारोहयेर्नावि सुसङ्गुप्तानि भागशः 030c
नौस्थश्च मां प्रतीक्षेथास्तदा मुनिजनप्रिय 031a
आगमिष्याम्यहं शृङ्गी विज्ञेयस्तेन तापस 031c
एवमेतत्त्वया कार्यमापृष्टोऽसि व्रजाम्यहम् 032a
नातिशङ्क्यमिदं चापि वचनं ते ममाभिभो 032c
एवं करिष्य इति तं स मत्स्यं प्रत्यभाषत 033a
जग्मतुश्च यथाकाममनुज्ञाप्य परस्परम् 033c
ततो मनुर्महाराज यथोक्तं मत्स्यकेन ह 034a
बीजान्यादाय सर्वाणि सागरं पुप्लुवे तदा 034c
नावा तु शुभया वीर महोर्मिणमरिन्दम 034e
चिन्तयामास च मनुस्तं मत्स्यं पृथिवीपते 035a
स च तच्चिन्तितं ज्ञात्वा मत्स्यः परपुरञ्जय 035c
शृङ्गी तत्राजगामाशु तदा भरतसत्तम 035e
तं दृष्ट्वा मनुजेन्द्रेन्द्र मनुर्मत्स्यं जलार्णवे 036a
शृङ्गिणं तं यथोक्तेन रूपेणाद्रिमिवोच्छ्रितम् 036c
वटाकरमयं पाशमथ मत्स्यस्य मूर्धनि 037a
मनुर्मनुजशार्दूल तस्मिञ्शृङ्गे न्यवेशयत् 037c
संयतस्तेन पाशेन मत्स्यः परपुरञ्जय 038a
वेगेन महता नावं प्राकर्षल्लवणाम्भसि 038c
स ततार तया नावा समुद्रं मनुजेश्वर 039a
नृत्यमानमिवोर्मीभिर्गर्जमानमिवाम्भसा 039c
क्षोभ्यमाणा महावातैः सा नौस्तस्मिन्महोदधौ 040a
घूर्णते चपलेव स्त्री मत्ता परपुरञ्जय 040c
नैव भूमिर्न च दिशः प्रदिशो वा चकाशिरे 041a
सर्वमाम्भसमेवासीत्खं द्यौश्च नरपुङ्गव 041c
एवम्भूते तदा लोके सङ्कुले भरतर्षभ 042a
अदृश्यन्त सप्तर्षयो मनुर्मत्स्यः सहैव ह 042c
एवं बहून्वर्षगणांस्तां नावं सोऽथ मत्स्यकः 043a
चकर्षातन्द्रितो राजंस्तस्मिन्सलिलसञ्चये 043c
ततो हिमवतः शृङ्गं यत्परं पुरुषर्षभ 044a
तत्राकर्षत्ततो नावं स मत्स्यः कुरुनन्दन 044c
ततोऽब्रवीत्तदा मत्स्यस्तानृषीन्प्रहसञ्शनैः 045a
अस्मिन्हिमवतः शृङ्गे नावं बध्नीत माचिरम् 045c
सा बद्धा तत्र तैस्तूर्णमृषिभिर्भरतर्षभ 046a
नौर्मत्स्यस्य वचः श्रुत्वा शृङ्गे हिमवतस्तदा 046c
तच्च नौबन्धनं नाम शृङ्गं हिमवतः परम् 047a
ख्यातमद्यापि कौन्तेय तद्विद्धि भरतर्षभ 047c
अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा 048a
अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते 048c
मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् 048e
मनुना च प्रजाः सर्वाः सदेवासुरमानवाः 049a
स्रष्टव्याः सर्वलोकाश्च यच्चेङ्गं यच्च नेङ्गति 049c
तपसा चातितीव्रेण प्रतिभास्य भविष्यति 050a
मत्प्रसादात्प्रजासर्गे न च मोहं गमिष्यति 050c
इत्युक्त्वा वचनं मत्स्यः क्षणेनादर्शनं गतः 051a
स्रष्टुकामः प्रजाश्चापि मनुर्वैवस्वतः स्वयम् 051c
प्रमूढोऽभूत्प्रजासर्गे तपस्तेपे महत्ततः 051e
तपसा महता युक्तः सोऽथ स्रष्टुं प्रचक्रमे 052a
सर्वाः प्रजा मनुः साक्षाद्यथावद्भरतर्षभ 052c
इत्येतन्मात्स्यकं नाम पुराणं परिकीर्तितम् 053a
आख्यानमिदमाख्यातं सर्वपापहरं मया 053c
य इदं शृणुयान्नित्यं मनोश्चरितमादितः 054a
स सुखी सर्वसिद्धार्थः स्वर्गलोकमियान्नरः 054c