मार्कण्डेय उवाच 001
अत्रैव च सरस्वत्या गीतं परपुरञ्जय 001a
पृष्टया मुनिना वीर शृणु तार्क्ष्येण धीमता 001c
तार्क्ष्य उवाच 002
किं नु श्रेयः पुरुषस्येह भद्रे कथं कुर्वन्न च्यवते स्वधर्मात् 002a
आचक्ष्व मे चारुसर्वाङ्गि सर्वं त्वयानुशिष्टो न च्यवेयं स्वधर्मात् 002c
कथं चाग्निं जुहुयां पूजये वा कस्मिन्काले केन धर्मो न नश्येत् 003a
एतत्सर्वं सुभगे प्रब्रवीहि यथा लोकान्विरजाः सञ्चरेयम् 003c
मार्कण्डेय उवाच 004
एवं पृष्टा प्रीतियुक्तेन तेन शुश्रूषुमीक्ष्योत्तमबुद्धियुक्तम् 004a
तार्क्ष्यं विप्रं धर्मयुक्तं हितं च सरस्वती वाक्यमिदं बभाषे 004c
सरस्वत्युवाच 005
यो ब्रह्म जानाति यथाप्रदेशं स्वाध्यायनित्यः शुचिरप्रमत्तः 005a
स वै पुरो देवपुरस्य गन्ता सहामरैः प्राप्नुयात्प्रीतियोगम् 005c
तत्र स्म रम्या विपुला विशोकाः सुपुष्पिताः पुष्करिण्यः सुपुण्याः 006a
अकर्दमा मीनवत्यः सुतीर्था हिरण्मयैरावृताः पुण्डरीकैः 006c
तासां तीरेष्वासते पुण्यकर्मा महीयमानः पृथगप्सरोभिः 007a
सुपुण्यगन्धाभिरलङ्कृताभिर्हिरण्यवर्णाभिरतीव हृष्टः 007c
परं लोकं गोप्रदास्त्वाप्नुवन्ति दत्त्वानड्वाहं सूर्यलोकं व्रजन्ति 008a
वासो दत्त्वा चन्द्रमसः स लोकं दत्त्वा हिरण्यममृतत्वमेति 008c
धेनुं दत्त्वा सुव्रतां साधुदोहां कल्याणवत्सामपलायिनीं च 009a
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् 009c
अनड्वाहं सुव्रतं यो ददाति हलस्य वोढारमनन्तवीर्यम् 010a
धुरन्धरं बलवन्तं युवानं प्राप्नोति लोकान्दश धेनुदस्य 010c
यः सप्त वर्षाणि जुहोति तार्क्ष्य हव्यं त्वग्नौ सुव्रतः साधुशीलः 011a
सप्तावरान्सप्त पूर्वान्पुनाति पितामहानात्मनः कर्मभिः स्वैः 011c
तार्क्ष्य उवाच 012
किमग्निहोत्रस्य व्रतं पुराणमाचक्ष्व मे पृच्छतश्चारुरूपे 012a
त्वयानुशिष्टोऽहमिहाद्य विद्यां यदग्निहोत्रस्य व्रतं पुराणम् 012c
सरस्वत्युवाच 013
न चाशुचिर्नाप्यनिर्णिक्तपाणिर्नाब्रह्मविज्जुहुयान्नाविपश्चित् 013a
बुभुक्षवः शुचिकामा हि देवा नाश्रद्दधानाद्धि हविर्जुषन्ति 013c
नाश्रोत्रियं देवहव्ये नियुञ्ज्यान्मोघं परा सिञ्चति तादृशो हि 014a
अपूर्णमश्रोत्रियमाह तार्क्ष्य न वै तादृग्जुहुयादग्निहोत्रम् 014c
कृशानुं ये जुह्वति श्रद्दधानाः सत्यव्रता हुतशिष्टाशिनश्च 015a
गवां लोकं प्राप्य ते पुण्यगन्धं पश्यन्ति देवं परमं चापि सत्यम् 015c
तार्क्ष्य उवाच 016
क्षेत्रज्ञभूतां परलोकभावे कर्मोदये बुद्धिमतिप्रविष्टाम् 016a
प्रज्ञां च देवीं सुभगे विमृश्य पृच्छामि त्वां का ह्यसि चारुरूपे 016c
सरस्वत्युवाच 017
अग्निहोत्रादहमभ्यागतास्मि विप्रर्षभाणां संशयच्छेदनाय 017a
त्वत्संयोगादहमेतदब्रुवं भावे स्थिता तथ्यमर्थं यथावत् 017c
तार्क्ष्य उवाच 018
न हि त्वया सदृशी काचिदस्ति विभ्राजसे ह्यतिमात्रं यथा श्रीः 018a
रूपं च ते दिव्यमत्यन्तकान्तं प्रज्ञां च देवीं सुभगे बिभर्षि 018c
सरस्वत्युवाच 019
श्रेष्ठानि यानि द्विपदां वरिष्ठ यज्ञेषु विद्वन्नुपपादयन्ति 019a
तैरेवाहं सम्प्रवृद्धा भवामि आप्यायिता रूपवती च विप्र 019c
यच्चापि द्रव्यमुपयुज्यते ह वानस्पत्यमायसं पार्थिवं वा 020a
दिव्येन रूपेण च प्रज्ञया च तेनैव सिद्धिरिति विद्धि विद्वन् 020c
तार्क्ष्य उवाच 021
इदं श्रेयः परमं मन्यमाना व्यायच्छन्ते मुनयः सम्प्रतीताः 021a
आचक्ष्व मे तं परमं विशोकं मोक्षं परं यं प्रविशन्ति धीराः 021c
सरस्वत्युवाच 022
तं वै परं वेदविदः प्रपन्नाः परं परेभ्यः प्रथितं पुराणम् 022a
स्वाध्यायदानव्रतपुण्ययोगैस्तपोधना वीतशोका विमुक्ताः 022c
तस्याथ मध्ये वेतसः पुण्यगन्धः सहस्रशाखो विमलो विभाति 023a
तस्य मूलात्सरितः प्रस्रवन्ति मधूदकप्रस्रवणा रमण्यः 023c
शाखां शाखां महानद्यः संयान्ति सिकतासमाः 024a
धानापूपा मांसशाकाः सदा पायसकर्दमाः 024c
यस्मिन्नग्निमुखा देवाः सेन्द्राः सह मरुद्गणैः 025a
ईजिरे क्रतुभिः श्रेष्ठैस्तत्पदं परमं मुने 025c