मार्कण्डेय उवाच 001
भूय एव तु माहात्म्यं ब्राह्मणानां निबोध मे 001a
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः 001c
तमत्रिर्गन्तुमारेभे वित्तार्थमिति नः श्रुतम् 001e
भूयोऽथ नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् 002a
सञ्चिन्त्य स महातेजा वनमेवान्वरोचयत् 002c
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह 002e
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम् 003a
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् 003c
तं भार्या प्रत्युवाचेदं धर्ममेवानुरुध्यती 004a
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहु 004c
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम् 004e
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु 005a
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम् 005c
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः 005e
अत्रिरुवाच 006
कथितो मे महाभागे गौतमेन महात्मना 006a
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः 006c
किं त्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः 007a
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् 007c
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम् 008a
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थकाम् 008c
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव 009a
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसञ्चयम् 009c
मार्कण्डेय उवाच 010
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः 010a
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् 010c
राजन्वैन्य त्वमीशश्च भुवि त्वं प्रथमो नृपः 011a
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् 011c
तमब्रवीदृषिस्तत्र वचः क्रुद्धो महातपाः 012a
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता 012c
अत्र नः प्रथमं स्थाता महेन्द्रो वै प्रजापतिः 012e
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत 013a
अयमेव विधाता च यथैवेन्द्रः प्रजापतिः 013c
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह 013e
गौतम उवाच 014
जानामि नाहं मुह्यामि त्वं विवक्षुर्विमुह्यसे 014a
स्तोष्यसेऽभ्युदयप्रेप्सुस्तस्य दर्शनसंश्रयात् 014c
न वेत्थ परमं धर्मं न चावैषि प्रयोजनम् 015a
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना 015c
मार्कण्डेय उवाच 016
विवदन्तौ तथा तौ तु मुनीनां दर्शने स्थितौ 016a
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ 016c
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि 017a
उच्चैः समभिभाषन्तौ केन कार्येण विष्ठितौ 017c
ततः परमधर्मात्मा काश्यपः सर्वधर्मवित् 018a
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् 018c
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान् 019a
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजपुङ्गवाः 019c
वैन्यो विधातेत्याहात्रिरत्र नः संशयो महान् 019e
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्द्रुतम् 020a
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै 020c
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः 021a
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः 021c
सनत्कुमार उवाच 022
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह 022a
राजा वै प्रथमो धर्मः प्रजानां पतिरेव च 022c
स एव शक्रः शुक्रश्च स धाता स बृहस्पतिः 022e
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः 023a
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति 023c
पुरायोनिर्युधाजिच्च अभिया मुदितो भवः 024a
स्वर्णेता सहजिद्बभ्रुरिति राजाभिधीयते 024c
सत्यमन्युर्युधाजीवः सत्यधर्मप्रवर्तकः 025a
अधर्मादृषयो भीता बलं क्षत्रे समादधन् 025c
आदित्यो दिवि देवेषु तमो नुदति तेजसा 026a
तथैव नृपतिर्भूमावधर्मं नुदते भृशम् 026c
अतो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात् 027a
उत्तरः सिध्यते पक्षो येन राजेति भाषितम् 027c
मार्कण्डेय उवाच 028
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः 028a
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः 028c
यस्मात्सर्वमनुष्येषु ज्यायांसं मामिहाब्रवीः 029a
सर्वदेवैश्च विप्रर्षे सम्मितं श्रेष्ठमेव च 029c
तस्मात्तेऽहं प्रदास्यामि विविधं वसु भूरि च 029e
दासीसहस्रं श्यामानां सुवस्त्राणामलकृतम् 030a
दश कोट्यो हिरण्यस्य रुक्मभारांस्तथा दश 030c
एतद्ददानि ते विप्र सर्वज्ञस्त्वं हि मे मतः 030e
तदत्रिर्न्यायतः सर्वं प्रतिगृह्य महामनाः 031a
प्रत्याजगाम तेजस्वी गृहानेव महातपाः 031c
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् 032a
तपः समभिसन्धाय वनमेवान्वपद्यत 032c