वैशम्पायन उवाच 001
मार्कण्डेयं महात्मानमूचुः पाण्डुसुतास्तदा 001a
माहात्म्यं द्विजमुख्यानां श्रोतुमिच्छाम कथ्यताम् 001c
एवमुक्तः स भगवान्मार्कण्डेयो महातपाः 002a
उवाच सुमहातेजाः सर्वशास्त्रविशारदः 002c
हैहयानां कुलकरो राजा परपुरञ्जयः 003a
कुमारो रूपसम्पन्नो मृगयामचरद्बली 003c
चरमाणस्तु सोऽरण्ये तृणवीरुत्समावृते 004a
कृष्णाजिनोत्तरासङ्गं ददर्श मुनिमन्तिके 004c
स तेन निहतोऽरण्ये मन्यमानेन वै मृगम् 004e
व्यथितः कर्म तत्कृत्वा शोकोपहतचेतनः 005a
जगाम हैहयानां वै सकाशं प्रथितात्मनाम् 005c
राज्ञां राजीवनेत्रोसौ कुमारः पृथिवीपते 006a
तेषां च तद्यथावृत्तं कथयामास वै तदा 006c
तं चापि हिंसितं तात मुनिं मूलफलाशिनम् 007a
श्रुत्वा दृष्ट्वा च ते तत्र बभूवुर्दीनमानसाः 007c
कस्यायमिति ते सर्वे मार्गमाणास्ततस्ततः 008a
जग्मुश्चारिष्टनेमेस्ते तार्क्ष्यस्याश्रममञ्जसा 008c
तेऽभिवाद्य महात्मानं तं मुनिं संशितव्रतम् 009a
तस्थुः सर्वे स तु मुनिस्तेषां पूजामथाहरत् 009c
ते तमूचुर्महात्मानं न वयं सत्क्रियां मुने 010a
त्वत्तोऽर्हाः कर्मदोषेण ब्राह्मणो हिंसितो हि नः 010c
तानब्रवीत्स विप्रर्षिः कथं वो ब्राह्मणो हतः 011a
क्व चासौ ब्रूत सहिताः पश्यध्वं मे तपोबलम् 011c
ते तु तत्सर्वमखिलमाख्यायास्मै यथातथम् 012a
नापश्यंस्तमृषिं तत्र गतासुं ते समागताः 012c
अन्वेषमाणाः सव्रीडाः स्वप्नवद्गतमानसाः 012e
तानब्रवीत्तत्र मुनिस्तार्क्ष्यः परपुरञ्जयः 013a
स्यादयं ब्राह्मणः सोऽथ यो युष्माभिर्विनाशितः 013c
पुत्रो ह्ययं मम नृपास्तपोबलसमन्वितः 013e
ते तु दृष्ट्वैव तमृषिं विस्मयं परमं गताः 014a
महदाश्चर्यमिति वै विब्रुवाणा महीपते 014c
मृतो ह्ययमतो दृष्टः कथं जीवितमाप्तवान् 015a
किमेतत्तपसो वीर्यं येनायं जीवितः पुनः 015c
श्रोतुमिच्छाम विप्रर्षे यदि श्रोतव्यमित्युत 015e
स तानुवाच नास्माकं मृत्युः प्रभवते नृपाः 016a
कारणं वः प्रवक्ष्यामि हेतुयोगं समासतः 016c
सत्यमेवाभिजानीमो नानृते कुर्महे मनः 017a
स्वधर्ममनुतिष्ठामस्तस्मान्मृत्युभयं न नः 017c
यद्ब्राह्मणानां कुशलं तदेषां कथयामहे 018a
नैषां दुश्चरितं ब्रूमस्तस्मान्मृत्युभयं न नः 018c
अतिथीनन्नपानेन भृत्यानत्यशनेन च 019a
तेजस्विदेशवासाच्च तस्मान्मृत्युभयं न नः 019c
एतद्वै लेशमात्रं वः समाख्यातं विमत्सराः 020a
गच्छध्वं सहिताः सर्वे न पापाद्भयमस्ति वः 020c
एवमस्त्विति ते सर्वे प्रतिपूज्य महामुनिम् 021a
स्वदेशमगमन्हृष्टा राजानो भरतर्षभ 021c