वैशम्पायन उवाच 001
तं विवक्षन्तमालक्ष्य कुरुराजो महामुनिम् 001a
कथासञ्जननार्थाय चोदयामास पाण्डवः 001c
भवान्दैवतदैत्यानामृषीणां च महात्मनाम् 002a
राजर्षीणां च सर्वेषां चरितज्ञः सनातनः 002c
सेव्यश्चोपासितव्यश्च मतो नः काङ्क्षितश्चिरम् 003a
अयं च देवकीपुत्रः प्राप्तोऽस्मानवलोककः 003c
भवत्येव हि मे बुद्धिर्दृष्ट्वात्मानं सुखाच्च्युतम् 004a
धार्तराष्ट्रांश्च दुर्वृत्तानृध्यतः प्रेक्ष्य सर्वशः 004c
कर्मणः पुरुषः कर्ता शुभस्याप्यशुभस्य च 005a
स्वफलं तदुपाश्नाति कथं कर्ता स्विदीश्वरः 005c
अथ वा सुखदुःखेषु नृणां ब्रह्मविदां वर 006a
इह वा कृतमन्वेति परदेहेऽथ वा पुनः 006c
देही च देहं सन्त्यज्य मृग्यमाणः शुभाशुभैः 007a
कथं संयुज्यते प्रेत्य इह वा द्विजसत्तम 007c
ऐहलौकिकमेवैतदुताहो पारलौकिकम् 008a
क्व च कर्माणि तिष्ठन्ति जन्तोः प्रेतस्य भार्गव 008c
मार्कण्डेय उवाच 009
त्वद्युक्तोऽयमनुप्रश्नो यथावद्वदतां वर 009a
विदितं वेदितव्यं ते स्थित्यर्थमनुपृच्छसि 009c
अत्र ते वर्तयिष्यामि तदिहैकमनाः शृणु 010a
यथेहामुत्र च नरः सुखदुःखमुपाश्नुते 010c
निर्मलानि शरीराणि विशुद्धानि शरीरिणाम् 011a
ससर्ज धर्मतन्त्राणि पूर्वोत्पन्नः प्रजापतिः 011c
अमोघबलसङ्कल्पाः सुव्रताः सत्यवादिनः 012a
ब्रह्मभूता नराः पुण्याः पुराणाः कुरुनन्दन 012c
सर्वे देवैः समायान्ति स्वच्छन्देन नभस्तलम् 013a
ततश्च पुनरायान्ति सर्वे स्वच्छन्दचारिणः 013c
स्वच्छन्दमरणाश्चासन्नराः स्वच्छन्दजीविनः 014a
अल्पबाधा निरातङ्का सिद्धार्था निरुपद्रवाः 014c
द्रष्टारो देवसङ्घानामृषीणां च महात्मनाम् 015a
प्रत्यक्षाः सर्वधर्माणां दान्ता विगतमत्सराः 015c
आसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः 016a
ततः कालान्तरेऽन्यस्मिन्पृथिवीतलचारिणः 016c
कामक्रोधाभिभूतास्ते मायाव्याजोपजीविनः 017a
लोभमोहाभिभूताश्च त्यक्ता देवैस्ततो नराः 017c
अशुभैः कर्मभिः पापास्तिर्यङ्नरकगामिनः 018a
संसारेषु विचित्रेषु पच्यमानाः पुनः पुनः 018c
मोघेष्टा मोघसङ्कल्पा मोघज्ञाना विचेतसः 019a
सर्वातिशङ्किनश्चैव संवृत्ताः क्लेशभागिनः 019c
अशुभैः कर्मभिश्चापि प्रायशः परिचिह्निताः 019e
दौष्कुल्या व्याधिबहुला दुरात्मानोऽप्रतापिनः 020a
भवन्त्यल्पायुषः पापा रौद्रकर्मफलोदयाः 020c
नाथन्तः सर्वकामानां नास्तिका भिन्नसेतवः 020e
जन्तोः प्रेतस्य कौन्तेय गतिः स्वैरिह कर्मभिः 021a
प्राज्ञस्य हीनबुद्धेश्च कर्मकोशः क्व तिष्ठति 021c
क्वस्थस्तत्समुपाश्नाति सुकृतं यदि वेतरत् 022a
इति ते दर्शनं यच्च तत्राप्यनुनयं शृणु 022c
अयमादिशरीरेण देवसृष्टेन मानवः 023a
शुभानामशुभानां च कुरुते सञ्चयं महत् 023c
आयुषोऽन्ते प्रहायेदं क्षीणप्रायं कलेवरम् 024a
सम्भवत्येव युगपद्योनौ नास्त्यन्तराभवः 024c
तत्रास्य स्वकृतं कर्म छायेवानुगतं सदा 025a
फलत्यथ सुखार्हो वा दुःखार्हो वापि जायते 025c
कृतान्तविधिसंयुक्तः स जन्तुर्लक्षणैः शुभैः 026a
अशुभैर्वा निरादानो लक्ष्यते ज्ञानदृष्टिभिः 026c
एषा तावदबुद्धीनां गतिरुक्ता युधिष्ठिर 027a
अतः परं ज्ञानवतां निबोध गतिमुत्तमाम् 027c
मनुष्यास्तप्ततपसः सर्वागमपरायणाः 028a
स्थिरव्रताः सत्यपरा गुरुशुश्रूषणे रताः 028c
सुशीलाः शुक्लजातीयाः क्षान्ता दान्ताः सुतेजसः 029a
शुभयोन्यन्तरगताः प्रायशः शुभलक्षणाः 029c
जितेन्द्रियत्वाद्वशिनः शुक्लत्वान्मन्दरोगिणः 030a
अल्पबाधपरित्रासाद्भवन्ति निरुपद्रवाः 030c
च्यवन्तं जायमानं च गर्भस्थं चैव सर्वशः 031a
स्वमात्मानं परं चैव बुध्यन्ते ज्ञानचक्षुषः 031c
कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् 031e
किञ्चिद्दैवाद्धठात्किञ्चित्किञ्चिदेव स्वकर्मभिः 032a
प्राप्नुवन्ति नरा राजन्मा तेऽस्त्वन्या विचारणा 032c
इमामत्रोपमां चापि निबोध वदतां वर 033a
मनुष्यलोके यच्छ्रेयः परं मन्ये युधिष्ठिर 033c
इह वैकस्य नामुत्र अमुत्रैकस्य नो इह 034a
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह 034c
धनानि येषां विपुलानि सन्ति नित्यं रमन्ते सुविभूषिताङ्गाः 035a
तेषामयं शत्रुवरघ्न लोको नासौ सदा देहसुखे रतानाम् 035c
ये योगयुक्तास्तपसि प्रसक्ताः स्वाध्यायशीला जरयन्ति देहान् 036a
जितेन्द्रिया भूतहिते निविष्टास्तेषामसौ नायमरिघ्न लोकः 036c
ये धर्ममेव प्रथमं चरन्ति धर्मेण लब्ध्वा च धनानि काले 037a
दारानवाप्य क्रतुभिर्यजन्ते तेषामयं चैव परश्च लोकः 037c
ये नैव विद्यां न तपो न दानं न चापि मूढाः प्रजने यतन्ते 038a
न चाधिगच्छन्ति सुखान्यभाग्यास्तेषामयं चैव परश्च नास्ति 038c
सर्वे भवन्तस्त्वतिवीर्यसत्त्वा दिव्यौजसः संहननोपपन्नाः 039a
लोकादमुष्मादवनिं प्रपन्नाः स्वधीतविद्याः सुरकार्यहेतोः 039c
कृत्वैव कर्माणि महान्ति शूरास्तपोदमाचारविहारशीलाः 040a
देवानृषीन्प्रेतगणांश्च सर्वान्सन्तर्पयित्वा विधिना परेण 040c
स्वर्गं परं पुण्यकृतां निवासं क्रमेण सम्प्राप्स्यथ कर्मभिः स्वैः 041a
मा भूद्विशङ्का तव कौरवेन्द्र दृष्ट्वात्मनः क्लेशमिमं सुखार्ह 041c