वैशम्पायन उवाच 001
काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः 001a
कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया 001c
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् 002a
ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् 002c
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा 003a
एष्यतीह महाबाहुर्वशी शौरिरुदारधीः 003c
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः 004a
सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः 004c
बहुवत्सरजीवी च मार्कण्डेयो महातपाः 005a
स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति 005c
तथैव तस्य ब्रुवतः प्रत्यदृष्यत केशवः 006a
सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः 006c
मघवानिव पौलोम्या सहितः सत्यभामया 007a
उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् 007c
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि 008a
ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् 008c
पूजयामास धौम्यं च यमाभ्यामभिवादितः 009a
परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् 009c
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् 010a
पर्यष्वजत दाशार्हः पुनः पुनररिन्दमम् 010c
तथैव सत्यभामापि द्रौपदीं परिषस्वजे 011a
पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया 011c
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः 012a
आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः 012c
कृष्णस्तु पार्थेन समेत्य विद्वान्धनञ्जयेनासुरतर्जनेन 013a
बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन 013c
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय 014a
उक्त्वा यथावत्पुनरन्वपृच्छत्कथं सुभद्रा च तथाभिमन्युः 014c
स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च 015a
उवाच राजानमभिप्रशंसन्युधिष्ठिरं तत्र सहोपविश्य 015c
धर्मः परः पाण्डव राज्यलाभात्तस्यार्थमाहुस्तप एव राजन् 016a
सत्यार्जवाभ्यां चरता स्वधर्मं जितस्तवायं च परश्च लोकः 016c
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् 017a
क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः 017c
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किञ्चित्कुरुषे नरेन्द्र 018a
न चार्थलोभात्प्रजहासि धर्मं तस्मात्स्वभावादसि धर्मराजः 018c
दानं च सत्यं च तपश्च राजञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च 019a
अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते 019c
यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत् 020a
अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः 020c
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् 021a
इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता 021c
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः 022a
उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः 022c
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः 023a
कृष्णे धनुर्वेदरतिप्रधानाः सत्यव्रतास्ते शिशवः सुशीलाः 023c
सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि 023e
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च 024a
न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति 024c
आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः 025a
तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे 025c
यथा त्वमेवार्हसि तेषु वृत्तिं प्रयोक्तुमार्या च यथैव कुन्ती 026a
तेष्वप्रमादेन सदा करोति तथा च भूयश्च तथा सुभद्रा 026c
यथानिरुद्धस्य यथाभिमन्योर्यथा सुनीथस्य यथैव भानोः 027a
तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः 027c
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने 028a
सम्यग्विनेता विनयत्यतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः 028c
स चापि सम्यक्प्रणिधाय शिक्षामस्त्राणि चैषां गुरुवत्प्रदाय 029a
तवात्मजानां च तथाभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः 029c
यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि 030a
एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च 030c
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च 031a
एते निदेशं तव पालयन्ति तिष्ठन्ति यत्रेच्छसि तत्र राजन् 031c
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम् 032a
सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा 032c
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः 033a
स सानुबन्धः ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम् 033c
कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयः सभायाम् 034a
दाशार्हयोधैस्तु ससादियोधं प्रतीक्षतां नागपुरं भवन्तम् 034c
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम् 035a
ततः समृद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् 035c
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन 036a
प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच 036c
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः 037a
कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोऽस्ति 037c
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु 038a
अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः 038c
वैशम्पायन उवाच 039
तथा वदति वार्ष्णेये धर्मराजे च भारत 039a
अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् 039c
प्रत्यदृष्यत धर्मात्मा मार्कण्डेयो महातपाः 039e
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् 040a
आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः 040c
तमर्चितं सुविष्वस्तमासीनमृषिसत्तमम् 041a
ब्राह्मणानां मतेनाह पाण्डवानां च केशवः 041c
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः 042a
द्रौपदी सत्यभामा च तथाहं परमं वचः 042c
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः 043a
राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः 043c
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः 044a
आजगाम विशुद्धात्मा पाण्डवानवलोककः 044c
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः 045a
पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् 045c
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् 046a
मार्कण्डेयस्य वदतस्तां कथामन्वमोदत 046c
उवाच चैनं कालज्ञः स्मयन्निव स नारदः 047a
ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् 047c
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः 048a
क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति 048c
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः 049a
मध्यन्दिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् 049c