वैशम्पायन उवाच 001
निदाघान्तकरः कालः सर्वभूतसुखावहः 001a
तत्रैव वसतां तेषां प्रावृट्समभिपद्यत 001c
छादयन्तो महाघोषाः खं दिशश्च बलाहकाः 002a
प्रववर्षुर्दिवारात्रमसिताः सततं तदा 002c
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः 003a
अपेतार्कप्रभाजालाः सविद्युद्विमलप्रभाः 003c
विरूढशष्पा पृथिवी मत्तदंशसरीसृपा 004a
बभूव पयसा सिक्ता शान्तधूमरजोऽरुणा 004c
न स्म प्रज्ञायते किञ्चिदम्भसा समवस्तृते 005a
समं वा विषमं वापि नद्यो वा स्थावराणि वा 005c
क्षुब्धतोया महाघोषाः श्वसमाना इवाशुगाः 006a
सिन्धवः शोभयाञ्चक्रुः काननानि तपात्यये 006c
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः 007a
वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् 007c
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह 008a
मत्ताः परिपतन्ति स्म दर्दुराश्चैव दर्पिताः 008c
तथा बहुविधाकारा प्रावृण्मेघानुनादिता 009a
अभ्यतीता शिवा तेषां चरतां मरुधन्वसु 009c
क्रौञ्चहंसगणाकीर्णा शरत्प्रणिहिताभवत् 010a
रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा 010c
विमलाकाशनक्षत्रा शरत्तेषां शिवाभवत् 011a
मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् 011c
पश्यन्तः शान्तरजसः क्षपा जलदशीतलाः 012a
ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः 012c
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः 013a
नदीः पुष्करिणीश्चैव ददृशुः समलङ्कृताः 013c
आकाशनीकाशतटां नीपनीवारसङ्कुलाम् 014a
बभूव चरतां हर्षः पुण्यतीर्थां सरस्वतीम् 014c
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम् 015a
पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् 015c
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी 016a
तत्रैव वसतामासीत्कार्त्तिकी जनमेजय 016c
पुण्यकृद्भिर्महासत्त्वैस्तापसैः सह पाण्डवाः 017a
तत्सर्वं भरतश्रेष्ठाः समूहुर्योगमुत्तमम् 017c
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः 018a
सूतैः पौरोगवैश्चैव काम्यकं प्रययुर्वनम् 018c