युधिष्ठिर उवाच 001
भवानेतादृशो लोके वेदवेदाङ्गपारगः 001a
ब्रूहि किं कुर्वतः कर्म भवेद्गतिरनुत्तमा 001c
सर्प उवाच 002
पात्रे दत्त्वा प्रियाण्युक्त्वा सत्यमुक्त्वा च भारत 002a
अहिंसानिरतः स्वर्गं गच्छेदिति मतिर्मम 002c
युधिष्ठिर उवाच 003
दानाद्वा सर्प सत्याद्वा किमतो गुरु दृश्यते 003a
अहिंसाप्रिययोश्चैव गुरुलाघवमुच्यताम् 003c
सर्प उवाच 004
दाने रतत्वं सत्यं च अहिंसा प्रियमेव च 004a
एषां कार्यगरीयस्त्वाद्दृश्यते गुरुलाघवम् 004c
कस्माच्चिद्दानयोगाद्धि सत्यमेव विशिष्यते 005a
सत्यवाक्याच्च राजेन्द्र किञ्चिद्दानं विशिष्यते 005c
एवमेव महेष्वास प्रियवाक्यान्महीपते 006a
अहिंसा दृश्यते गुर्वी ततश्च प्रियमिष्यते 006c
एवमेतद्भवेद्राजन्कार्यापेक्षमनन्तरम् 007a
यदभिप्रेतमन्यत्ते ब्रूहि यावद्ब्रवीम्यहम् 007c
युधिष्ठिर उवाच 008
कथं स्वर्गे गतिः सर्प कर्मणां च फलं ध्रुवम् 008a
अशरीरस्य दृश्येत विषयांश्च ब्रवीहि मे 008c
सर्प उवाच 009
तिस्रो वै गतयो राजन्परिदृष्टाः स्वकर्मभिः 009a
मानुष्यं स्वर्गवासश्च तिर्यग्योनिश्च तत्त्रिधा 009c
तत्र वै मानुषाल्लोकाद्दानादिभिरतन्द्रितः 010a
अहिंसार्थसमायुक्तैः कारणैः स्वर्गमश्नुते 010c
विपरीतैश्च राजेन्द्र कारणैर्मानुषो भवेत् 011a
तिर्यग्योनिस्तथा तात विशेषश्चात्र वक्ष्यते 011c
कामक्रोधसमायुक्तो हिंसालोभसमन्वितः 012a
मनुष्यत्वात्परिभ्रष्टस्तिर्यग्योनौ प्रसूयते 012c
तिर्यग्योन्यां पृथग्भावो मनुष्यत्वे विधीयते 013a
गवादिभ्यस्तथाश्वेभ्यो देवत्वमपि दृश्यते 013c
सोऽयमेता गतीः सर्वा जन्तुश्चरति कार्यवान् 014a
नित्ये महति चात्मानमवस्थापयते नृप 014c
जातो जातश्च बलवान्भुङ्क्ते चात्मा स देहवान् 015a
फलार्थस्तात निष्पृक्तः प्रजालक्षणभावनः 015c
युधिष्ठिर उवाच 016
शब्दे स्पर्शे च रूपे च तथैव रसगन्धयोः 016a
तस्याधिष्ठानमव्यग्रं ब्रूहि सर्प यथातथम् 016c
किं न गृह्णासि विषयान्युगपत्त्वं महामते 017a
एतावदुच्यतां चोक्तं सर्वं पन्नगसत्तम 017c
सर्प उवाच 018
यदात्मद्रव्यमायुष्मन्देहसंश्रयणान्वितम् 018a
करणाधिष्ठितं भोगानुपभुङ्क्ते यथाविधि 018c
ज्ञानं चैवात्र बुद्धिश्च मनश्च भरतर्षभ 019a
तस्य भोगाधिकरणे करणानि निबोध मे 019c
मनसा तात पर्येति क्रमशो विषयानिमान् 020a
विषयायतनस्थेन भूतात्मा क्षेत्रनिःसृतः 020c
अत्र चापि नरव्याघ्र मनो जन्तोर्विधीयते 021a
तस्माद्युगपदस्यात्र ग्रहणं नोपपद्यते 021c
स आत्मा पुरुषव्याघ्र भ्रुवोरन्तरमाश्रितः 022a
द्रव्येषु सृजते बुद्धिं विविधेषु परावराम् 022c
बुद्धेरुत्तरकालं च वेदना दृश्यते बुधैः 023a
एष वै राजशार्दूल विधिः क्षेत्रज्ञभावनः 023c
युधिष्ठिर उवाच 024
मनसश्चापि बुद्धेश्च ब्रूहि मे लक्षणं परम् 024a
एतदध्यात्मविदुषां परं कार्यं विधीयते 024c
सर्प उवाच 025
बुद्धिरात्मानुगा तात उत्पातेन विधीयते 025a
तदाश्रिता हि सञ्ज्ञैषा विधिस्तस्यैषणे भवेत् 025c
बुद्धेर्गुणविधिर्नास्ति मनस्तु गुणवद्भवेत् 026a
बुद्धिरुत्पद्यते कार्ये मनस्तूत्पन्नमेव हि 026c
एतद्विशेषणं तात मनोबुद्ध्योर्मयेरितम् 027a
त्वमप्यत्राभिसम्बुद्धः कथं वा मन्यते भवान् 027c
युधिष्ठिर उवाच 028
अहो बुद्धिमतां श्रेष्ठ शुभा बुद्धिरियं तव 028a
विदितं वेदितव्यं ते कस्मान्मामनुपृच्छसि 028c
सर्वज्ञं त्वां कथं मोह आविशत्स्वर्गवासिनम् 029a
एवमद्भुतकर्माणमिति मे संशयो महान् 029c
सर्प उवाच 030
सुप्रज्ञमपि चेच्छूरमृद्धिर्मोहयते नरम् 030a
वर्तमानः सुखे सर्वो नावैतीति मतिर्मम 030c
सोऽहमैश्वर्यमोहेन मदाविष्टो युधिष्ठिर 031a
पतितः प्रतिसम्बुद्धस्त्वां तु सम्बोधयाम्यहम् 031c
कृतं कार्यं महाराज त्वया मम परन्तप 032a
क्षीणः शापः सुकृच्छ्रो मे त्वया सम्भाष्य साधुना 032c
अहं हि दिवि दिव्येन विमानेन चरन्पुरा 033a
अभिमानेन मत्तः सन्कञ्चिन्नान्यमचिन्तयम् 033c
ब्रह्मर्षिदेवगन्धर्वयक्षराक्षसकिन्नराः 034a
करान्मम प्रयच्छन्ति सर्वे त्रैलोक्यवासिनः 034c
चक्षुषा यं प्रपश्यामि प्राणिनं पृथिवीपते 035a
तस्य तेजो हराम्याशु तद्धि दृष्टिबलं मम 035c
ब्रह्मर्षीणां सहस्रं हि उवाह शिबिकां मम 036a
स मामपनयो राजन्भ्रंशयामास वै श्रियः 036c
तत्र ह्यगस्त्यः पादेन वहन्स्पृष्टो मया मुनिः 037a
अदृष्टेन ततोऽस्म्युक्तो ध्वंस सर्पेति वै रुषा 037c
ततस्तस्माद्विमानाग्रात्प्रच्युतश्च्युतभूषणः 038a
प्रपतन्बुबुधेऽऽत्मानं व्यालीभूतमधोमुखम् 038c
अयाचं तमहं विप्रं शापस्यान्तो भवेदिति 039a
अज्ञानात्सम्प्रवृत्तस्य भगवन्क्षन्तुमर्हसि 039c
ततः स मामुवाचेदं प्रपतन्तं कृपान्वितः 040a
युधिष्ठिरो धर्मराजः शापात्त्वां मोक्षयिष्यति 040c
अभिमानस्य घोरस्य बलस्य च नराधिप 041a
फले क्षीणे महाराज फलं पुण्यमवाप्स्यसि 041c
ततो मे विस्मयो जातस्तद्दृष्ट्वा तपसो बलम् 042a
ब्रह्म च ब्राह्मणत्वं च येन त्वाहमचूचुदम् 042c
सत्यं दमस्तपो योगमहिंसा दाननित्यता 043a
साधकानि सदा पुंसां न जातिर्न कुलं नृप 043c
अरिष्ट एष ते भ्राता भीमो मुक्तो महाभुजः 044a
स्वस्ति तेऽस्तु महाराज गमिष्यामि दिवं पुनः 044c
वैशम्पायन उवाच 045
इत्युक्त्वाजगरं देहं त्यक्त्वा स नहुषो नृपः 045a
दिव्यं वपुः समास्थाय गतस्त्रिदिवमेव ह 045c
युधिष्ठिरोऽपि धर्मात्मा भ्रात्रा भीमेन सङ्गतः 046a
धौम्येन सहितः श्रीमानाश्रमं पुनरभ्यगात् 046c
ततो द्विजेभ्यः सर्वेभ्यः समेतेभ्यो यथातथम् 047a
कथयामास तत्सर्वं धर्मराजो युधिष्ठिरः 047c
तच्छ्रुत्वा ते द्विजाः सर्वे भ्रातरश्चास्य ते त्रयः 048a
आसन्सुव्रीडिता राजन्द्रौपदी च यशस्विनी 048c
ते तु सर्वे द्विजश्रेष्ठाः पाण्डवानां हितेप्सया 049a
मैवमित्यब्रुवन्भीमं गर्हयन्तोऽस्य साहसम् 049c
पाण्डवास्तु भयान्मुक्तं प्रेक्ष्य भीमं महाबलम् 050a
हर्षमाहारयाञ्चक्रुर्विजह्रुश्च मुदा युताः 050c