वैशम्पायन उवाच 001
युधिष्ठिरस्तमासाद्य सर्पभोगाभिवेष्टितम् 001a
दयितं भ्रातरं वीरमिदं वचनमब्रवीत् 001c
कुन्तीमातः कथमिमामापदं त्वमवाप्तवान् 002a
कश्चायं पर्वताभोगप्रतिमः पन्नगोत्तमः 002c
स धर्मराजमालक्ष्य भ्राता भ्रातरमग्रजम् 003a
कथयामास तत्सर्वं ग्रहणादि विचेष्टितम् 003c
युधिष्ठिर उवाच 004
देवो वा यदि वा दैत्य उरगो वा भवान्यदि 004a
सत्यं सर्प वचो ब्रूहि पृच्छति त्वां युधिष्ठिरः 004c
किमाहृत्य विदित्वा वा प्रीतिस्ते स्याद्भुजङ्गम 005a
किमाहारं प्रयच्छामि कथं मुञ्चेद्भवानिमम् 005c
सर्प उवाच 006
नहुषो नाम राजाहमासं पूर्वस्तवानघ 006a
प्रथितः पञ्चमः सोमादायोः पुत्रो नराधिप 006c
क्रतुभिस्तपसा चैव स्वाध्यायेन दमेन च 007a
त्रैलोक्यैश्वर्यमव्यग्रं प्राप्तो विक्रमणेन च 007c
तदैश्वर्यं समासाद्य दर्पो मामगमत्तदा 008a
सहस्रं हि द्विजातीनामुवाह शिबिकां मम 008c
ऐश्वर्यमदमत्तोऽहमवमन्य ततो द्विजान् 009a
इमामगस्त्येन दशामानीतः पृथिवीपते 009c
न तु मामजहात्प्रज्ञा यावदद्येति पाण्डव 010a
तस्यैवानुग्रहाद्राजन्नगस्त्यस्य महात्मनः 010c
षष्ठे काले ममाहारः प्राप्तोऽयमनुजस्तव 011a
नाहमेनं विमोक्ष्यामि न चान्यमभिकामये 011c
प्रश्नानुच्चारितांस्तु त्वं व्याहरिष्यसि चेन्मम 012a
अथ पश्चाद्विमोक्ष्यामि भ्रातरं ते वृकोदरम् 012c
युधिष्ठिर उवाच 013
ब्रूहि सर्प यथाकामं प्रतिवक्ष्यामि ते वचः 013a
अपि चेच्छक्नुयां प्रीतिमाहर्तुं ते भुजङ्गम 013c
वेद्यं यद्ब्राह्मणेनेह तद्भवान्वेत्ति केवलम् 014a
सर्पराज ततः श्रुत्वा प्रतिवक्ष्यामि ते वचः 014c
सर्प उवाच 015
ब्राह्मणः को भवेद्राजन्वेद्यं किं च युधिष्ठिर 015a
ब्रवीह्यतिमतिं त्वां हि वाक्यैरनुमिमीमहे 015c
युधिष्ठिर उवाच 016
सत्यं दानं क्षमा शीलमानृशंस्यं दमो घृणा 016a
दृश्यन्ते यत्र नागेन्द्र स ब्राह्मण इति स्मृतः 016c
वेद्यं सर्प परं ब्रह्म निर्दुःखमसुखं च यत् 017a
यत्र गत्वा न शोचन्ति भवतः किं विवक्षितम् 017c
सर्प उवाच 018
चातुर्वर्ण्यं प्रमाणं च सत्यं च ब्रह्म चैव ह 018a
शूद्रेष्वपि च सत्यं च दानमक्रोध एव च 018c
आनृशंस्यमहिंसा च घृणा चैव युधिष्ठिर 018e
वेद्यं यच्चात्थ निर्दुःखमसुखं च नराधिप 019a
ताभ्यां हीनं पदं चान्यन्न तदस्तीति लक्षये 019c
युधिष्ठिर उवाच 020
शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते 020a
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो न च ब्राह्मणः 020c
यत्रैतल्लक्ष्यते सर्प वृत्तं स ब्राह्मणः स्मृतः 021a
यत्रैतन्न भवेत्सर्प तं शूद्रमिति निर्दिशेत् 021c
यत्पुनर्भवता प्रोक्तं न वेद्यं विद्यतेति ह 022a
ताभ्यां हीनमतीत्यात्र पदं नास्तीति चेदपि 022c
एवमेतन्मतं सर्प ताभ्यां हीनं न विद्यते 023a
यथा शीतोष्णयोर्मध्ये भवेन्नोष्णं न शीतता 023c
एवं वै सुखदुःखाभ्यां हीनमस्ति पदं क्वचित् 024a
एषा मम मतिः सर्प यथा वा मन्यते भवान् 024c
सर्प उवाच 025
यदि ते वृत्ततो राजन्ब्राह्मणः प्रसमीक्षितः 025a
व्यर्था जातिस्तदायुष्मन्कृतिर्यावन्न दृश्यते 025c
युधिष्ठिर उवाच 026
जातिरत्र महासर्प मनुष्यत्वे महामते 026a
सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे मतिः 026c
सर्वे सर्वास्वपत्यानि जनयन्ति यदा नराः 027a
वाङ्मैथुनमथो जन्म मरणं च समं नृणाम् 027c
इदमार्षं प्रमाणं च ये यजामह इत्यपि 028a
तस्माच्छीलं प्रधानेष्टं विदुर्ये तत्त्वदर्शिनः 028c
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते 029a
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते 029c
वृत्त्या शूद्रसमो ह्येष यावद्वेदे न जायते 030a
अस्मिन्नेवं मतिद्वैधे मनुः स्वायम्भुवोऽब्रवीत् 030c
कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते 031a
सङ्करस्तत्र नागेन्द्र बलवान्प्रसमीक्षितः 031c
यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते 032a
तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम 032c
सर्प उवाच 033
श्रुतं विदितवेद्यस्य तव वाक्यं युधिष्ठिर 033a
भक्षयेयमहं कस्माद्भ्रातरं ते वृकोदरम् 033c