वैशम्पायन उवाच 001
स भीमसेनस्तेजस्वी तथा सर्पवशं गतः 001a
चिन्तयामास सर्पस्य वीर्यमत्यद्भुतं महत् 001c
उवाच च महासर्पं कामया ब्रूहि पन्नग 002a
कस्त्वं भो भुजगश्रेष्ठ किं मया च करिष्यसि 002c
पाण्डवो भिमसेनोऽहं धर्मराजादनन्तरः 003a
नागायुतसमप्राणस्त्वया नीतः कथं वशम् 003c
सिंहाः केसरिणो व्याघ्रा महिषा वारणास्तथा 004a
समागताश्च बहुशो निहताश्च मया मृधे 004c
दानवाश्च पिशाचाश्च राक्षसाश्च महाबलाः 005a
भुजवेगमशक्ता मे सोढुं पन्नगसत्तम 005c
किं नु विद्याबलं किं वा वरदानमथो तव 006a
उद्योगमपि कुर्वाणो वशगोऽस्मि कृतस्त्वया 006c
असत्यो विक्रमो नॄणामिति मे निश्चिता मतिः 007a
यथेदं मे त्वया नाग बलं प्रतिहतं महत् 007c
इत्येवंवादिनं वीरं भीममक्लिष्टकारिणम् 008a
भोगेन महता सर्पः समन्तात्पर्यवेष्टयत् 008c
निगृह्य तं महाबाहुं ततः स भुजगस्तदा 009a
विमुच्यास्य भुजौ पीनाविदं वचनमब्रवीत् 009c
दिष्ट्या त्वं क्षुधितस्याद्य देवैर्भक्षो महाभुज 010a
दिष्ट्या कालस्य महतः प्रियाः प्राणा हि देहिनाम् 010c
यथा त्विदं मया प्राप्तं भुजङ्गत्वमरिन्दम 011a
तदवश्यं मया ख्याप्यं तवाद्य शृणु सत्तम 011c
इमामवस्थां सम्प्राप्तो ह्यहं कोपान्मनीषिणाम् 012a
शापस्यान्तं परिप्रेप्सुः सर्पस्य कथयामि तत् 012c
नहुषो नाम राजर्षिर्व्यक्तं ते श्रोत्रमागतः 013a
तवैव पूर्वः पूर्वेषामायोर्वंशकरः सुतः 013c
सोऽहं शापादगस्त्यस्य ब्राह्मणानवमन्य च 014a
इमामवस्थामापन्नः पश्य दैवमिदं मम 014c
त्वां चेदवध्यमायान्तमतीव प्रियदर्शनम् 015a
अहमद्योपयोक्ष्यामि विधानं पश्य यादृशम् 015c
न हि मे मुच्यते कश्चित्कथञ्चिद्ग्रहणं गतः 016a
गजो वा महिषो वापि षष्ठे काले नरोत्तम 016c
नासि केवलसर्पेण तिर्यग्योनिषु वर्तता 017a
गृहीतः कौरवश्रेष्ठ वरदानमिदं मम 017c
पतता हि विमानाग्रान्मया शक्रासनाद्द्रुतम् 018a
कुरु शापान्तमित्युक्तो भगवान्मुनिसत्तमः 018c
स मामुवाच तेजस्वी कृपयाभिपरिप्लुतः 019a
मोक्षस्ते भविता राजन्कस्माच्चित्कालपर्ययात् 019c
ततोऽस्मि पतितो भूमौ न च मामजहात्स्मृतिः 020a
स्मार्तमस्ति पुराणं मे यथैवाधिगतं तथा 020c
यस्तु ते व्याहृतान्प्रश्नान्प्रतिब्रूयाद्विशेषवित् 021a
स त्वां मोक्षयिता शापादिति मामब्रवीदृषिः 021c
गृहीतस्य त्वया राजन्प्राणिनोऽपि बलीयसः 022a
सत्त्वभ्रंशोऽधिकस्यापि सर्वस्याशु भविष्यति 022c
इति चाप्यहमश्रौषं वचस्तेषां दयावताम् 023a
मयि सञ्जातहार्दानामथ तेऽन्तर्हिता द्विजाः 023c
सोऽहं परमदुष्कर्मा वसामि निरयेऽशुचौ 024a
सर्पयोनिमिमां प्राप्य कालाकाङ्क्षी महाद्युते 024c
तमुवाच महाबाहुर्भीमसेनो भुजङ्गमम् 025a
न ते कुप्ये महासर्प न चात्मानं विगर्हये 025c
यस्मादभावी भावी वा मनुष्यः सुखदुःखयोः 026a
आगमे यदि वापाये न तत्र ग्लपयेन्मनः 026c
दैवं पुरुषकारेण को निवर्तितुमर्हति 027a
दैवमेव परं मन्ये पुरुषार्थो निरर्थकः 027c
पश्य दैवोपघाताद्धि भुजवीर्यव्यपाश्रयम् 028a
इमामवस्थां सम्प्राप्तमनिमित्तमिहाद्य माम् 028c
किं तु नाद्यानुशोचामि तथात्मानं विनाशितम् 029a
यथा तु विपिने न्यस्तान्भ्रातॄन्राज्यपरिच्युतान् 029c
हिमवांश्च सुदुर्गोऽयं यक्षराक्षससङ्कुलः 030a
मां च ते समुदीक्षन्तः प्रपतिष्यन्ति विह्वलाः 030c
विनष्टमथ वा श्रुत्वा भविष्यन्ति निरुद्यमाः 031a
धर्मशीला मया ते हि बाध्यन्ते राज्यगृद्धिना 031c
अथ वा नार्जुनो धीमान्विषादमुपयास्यति 032a
सर्वास्त्रविदनाधृष्यो देवगन्धर्वराक्षसैः 032c
समर्थः स महाबाहुरेकाह्ना सुमहाबलः 033a
देवराजमपि स्थानात्प्रच्यावयितुमोजसा 033c
किं पुनर्धृतराष्ट्रस्य पुत्रं दुर्द्यूतदेविनम् 034a
विद्विष्टं सर्वलोकस्य दम्भलोभपरायणम् 034c
मातरं चैव शोचामि कृपणां पुत्रगृद्धिनीम् 035a
यास्माकं नित्यमाशास्ते महत्त्वमधिकं परैः 035c
कथं नु तस्यानाथाया मद्विनाशाद्भुजङ्गम 036a
अफलास्ते भविष्यन्ति मयि सर्वे मनोरथाः 036c
नकुलः सहदेवश्च यमजौ गुरुवर्तिनौ 037a
मद्बाहुबलसंस्तब्धौ नित्यं पुरुषमानिनौ 037c
निरुत्साहौ भविष्येते भ्रष्टवीर्यपराक्रमौ 038a
मद्विनाशात्परिद्यूनाविति मे वर्तते मतिः 038c
एवंविधं बहु तदा विललाप वृकोदरः 039a
भुजङ्गभोगसंरुद्धो नाशकच्च विचेष्टितुम् 039c
युधिष्ठिरस्तु कौन्तेय बभूवास्वस्थचेतनः 040a
अनिष्टदर्शनान्घोरानुत्पातान्परिचिन्तयन् 040c
दारुणं ह्यशिवं नादं शिवा दक्षिणतः स्थिता 041a
दीप्तायां दिशि वित्रस्ता रौति तस्याश्रमस्य ह 041c
एकपक्षाक्षिचरणा वर्तिका घोरदर्शना 042a
रुधिरं वमन्ती ददृशे प्रत्यादित्यमपस्वरा 042c
प्रववावनिलो रूक्षश्चण्डः शर्करकर्षणः 043a
अपसव्यानि सर्वाणि मृगपक्षिरुतानि च 043c
पृष्ठतो वायसः कृष्णो याहि याहीति वाशति 044a
मुहुर्मुहुः प्रस्फुरति दक्षिणोऽस्य भुजस्तथा 044c
हृदयं चरणश्चापि वामोऽस्य परिवर्तते 045a
सव्यस्याक्ष्णो विकारश्चाप्यनिष्टः समपद्यत 045c
स धर्मराजो मेधावी शङ्कमानो महद्भयम् 046a
द्रौपदीं परिपप्रच्छ क्व भीम इति भारत 046c
शशंस तस्मै पाञ्चाली चिरयातं वृकोदरम् 047a
स प्रतस्थे महाबाहुर्धौम्येन सहितो नृपः 047c
द्रौपद्या रक्षणं कार्यमित्युवाच धनञ्जयम् 048a
नकुलं सहदेवं च व्यादिदेश द्विजान्प्रति 048c
स तस्य पदमुन्नीय तस्मादेवाश्रमात्प्रभुः 049a
ददर्श पृथिवीं चिह्नैर्भीमस्य परिचिह्निताम् 049c
धावतस्तस्य वीरस्य मृगार्थे वातरंहसः 050a
ऊरुवातविनिर्भग्नान्द्रुमान्व्यावर्जितान्पथि 050c
स गत्वा तैस्तदा चिह्नैर्ददर्श गिरिगह्वरे 051a
गृहीतं भुजगेन्द्रेण निश्चेष्टमनुजं तथा 051c