जनमेजय उवाच 001
कथं नागायुतप्राणो भीमसेनो महाबलः 001a
भयमाहारयत्तीव्रं तस्मादजगरान्मुने 001c
पौलस्त्यं योऽऽह्वयद्युद्धे धनदं बलदर्पितः 002a
नलिन्यां कदनं कृत्वा वराणां यक्षरक्षसाम् 002c
तं शंससि भयाविष्टमापन्नमरिकर्षणम् 003a
एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे 003c
वैशम्पायन उवाच 004
बह्वाश्चर्ये वने तेषां वसतामुग्रधन्विनाम् 004a
प्राप्तानामाश्रमाद्राजन्राजर्षेर्वृषपर्वणः 004c
यदृच्छया धनुष्पाणिर्बद्धखड्गो वृकोदरः 005a
ददर्श तद्वनं रम्यं देवगन्धर्वसेवितम् 005c
स ददर्श शुभान्देशान्गिरेर्हिमवतस्तदा 006a
देवर्षिसिद्धचरितानप्सरोगणसेवितान् 006c
चकोरैश्चक्रवाकैश्च पक्षिभिर्जीवजीवकैः 007a
कोकिलैर्भृङ्गराजैश्च तत्र तत्र विनादितान् 007c
नित्यपुष्पफलैर्वृक्षैर्हिमसंस्पर्शकोमलैः 008a
उपेतान्बहुलच्छायैर्मनोनयननन्दनैः 008c
स सम्पश्यन्गिरिनदीर्वैडूर्यमणिसन्निभैः 009a
सलिलैर्हिमसंस्पर्शैर्हंसकारण्डवायुतैः 009c
वनानि देवदारूणां मेघानामिव वागुराः 010a
हरिचन्दनमिश्राणि तुङ्गकालीयकान्यपि 010c
मृगयां परिधावन्स समेषु मरुधन्वसु 011a
विध्यन्मृगाञ्शरैः शुद्धैश्चचार सुमहाबलः 011c
स ददर्श महाकायं भुजङ्गं लोमहर्षणम् 012a
गिरिदुर्गे समापन्नं कायेनावृत्य कन्दरम् 012c
पर्वताभोगवर्ष्माणं भोगैश्चन्द्रार्कमण्डलैः 013a
चित्राङ्गमजिनैश्चित्रैर्हरिद्रासदृशच्छविम् 013c
गुहाकारेण वक्त्रेण चतुर्दंष्ट्रेण राजता 014a
दीप्ताक्षेणातिताम्रेण लिहन्तं सृक्किणी मुहुः 014c
त्रासनं सर्वभूतानां कालान्तकयमोपमम् 015a
निःश्वासक्ष्वेडनादेन भर्त्सयन्तमिव स्थितम् 015c
स भीमं सहसाभ्येत्य पृदाकुः क्षुधितो भृशम् 016a
जग्राहाजगरो ग्राहो भुजयोरुभयोर्बलात् 016c
तेन संस्पृष्टमात्रस्य भिमसेनस्य वै तदा 017a
सञ्ज्ञा मुमोह सहसा वरदानेन तस्य ह 017c
दश नागसहस्राणि धारयन्ति हि यद्बलम् 018a
तद्बलं भीमसेनस्य भुजयोरसमं परैः 018c
स तेजस्वी तथा तेन भुजगेन वशीकृतः 019a
विस्फुरञ्शनकैर्भीमो न शशाक विचेष्टितुम् 019c
नागायुतसमप्राणः सिंहस्कन्धो महाभुजः 020a
गृहीतो व्यजहात्सत्त्वं वरदानेन मोहितः 020c
स हि प्रयत्नमकरोत्तीव्रमात्मविमोक्षणे 021a
न चैनमशकद्वीरः कथञ्चित्प्रतिबाधितुम् 021c