वैशम्पायन उवाच 001
नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किन्नरपक्षिभिश्च 001a
सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम् 001c
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव 002a
कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम् 002c
समुच्छ्रयान्पर्वतसन्निरोधान्गोष्ठान्गिरीणां गिरिसेतुमालाः 003a
बहून्प्रपातांश्च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र 003c
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि 004a
आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनः खड्गधरा नराग्र्याः 004c
वनानि रम्याणि सरांसि नद्यो गुहा गिरीणां गिरिगह्वराणि 005a
एते निवासाः सततं बभूवुर्निशानिशं प्राप्य नरर्षभाणाम् 005c
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् 006a
आसेदुरत्यर्थमनोरमं वै तमाश्रमाग्र्यं वृषपर्वणस्ते 006c
समेत्य राज्ञा वृषपर्वणस्ते प्रत्यर्चितास्तेन च वीतमोहाः 007a
शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते 007c
सुखोषितास्तत्र त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे 008a
अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम् 008c
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगता नराग्र्याः 009a
कुबेरकान्तां नलिनीं विशोकाः सम्पश्यमानाः सुरसिद्धजुष्टाम् 009c
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रवीराः 010a
ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतभया यथैव 010c
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः 011a
विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः 011c
चीनांस्तुखारान्दरदान्सदार्वान्देशान्कुणिन्दस्य च भूरिरत्नान् 012a
अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः 012c
श्रुत्वा च तान्पार्थिवपुत्रपौत्रान्प्राप्तान्सुबाहुर्विषये समग्रान् 013a
प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम् 013c
समेत्य राज्ञा तु सुबाहुना ते सूतैर्विशोकप्रमुखैश्च सर्वैः 014a
सहेन्द्रसेनैः परिचारकैश्च पौरोगवैर्ये च महानसस्थाः 014c
सुखोषितास्तत्र त एकरात्रं सूतानुपादाय रथांश्च सर्वान् 015a
घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम् 015c
तस्मिन्गिरौ प्रस्रवणोपपन्ने हिमोत्तरीयारुणपाण्डुसानौ 016a
विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः 016c
वराहनानामृगपक्षिजुष्टं महद्वनं चैत्ररथप्रकाशम् 017a
शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्र वने विजह्रुः 017c
तत्राससादातिबलं भुजङ्गं क्षुधार्दितं मृत्युमिवोग्ररूपम् 018a
वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा 018c
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः 019a
अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम् 019c
ते द्वादशं वर्षमथोपयान्तं वने विहर्तुं कुरवः प्रतीताः 020a
तस्माद्वनाच्चैत्ररथप्रकाशाच्छ्रिया ज्वलन्तस्तपसा च युक्ताः 020c
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः 021a
सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः 021c
समीक्ष्य तान्द्वैतवने निविष्टान्निवासिनस्तत्र ततोऽभिजग्मुः 022a
तपोदमाचारसमाधियुक्तास्तृणोदपात्राहरणाश्मकुट्टाः 022c
प्लक्षाक्षरौहीतकवेतसाश्च स्नुहा बदर्यः खदिराः शिरीषाः 023a
बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः 023c
तां यक्षगन्धर्वमहर्षिकान्तामायागभूतामिव देवतानाम् 024a
सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः 024c