जनमेजय उवाच 001
तस्मिन्कृतास्त्रे रथिनां प्रधाने प्रत्यागते भवनाद्वृत्रहन्तुः 001a
अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनञ्जयेन 001c
वैशम्पायन उवाच 002
वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः 002a
तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः 002c
वेश्मानि तान्यप्रतिमानि पश्यन्क्रीडाश्च नानाद्रुमसन्निकर्षाः 003a
चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी 003c
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः 004a
न प्राणिनां ते स्पृहयन्ति राजञ्शिवश्च कालः स बभूव तेषाम् 004c
समेत्य पार्थेन यथैकरात्रमूषुः समास्तत्र तदा चतस्रः 005a
पूर्वाश्च षट्ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु 005c
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य 006a
यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च 006c
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनु प्रियं च 007a
ततोऽनुगच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम् 007c
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः 008a
तं वञ्चयित्वाधमबुद्धिशीलमज्ञातवासं सुखमाप्नुयामः 008c
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरन्वनानि 009a
समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान् 009c
संवत्सरं तं तु विहृत्य गूढं नराधमं तं सुखमुद्धरेम 010a
निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय 010c
सुयोधनायानुचरैर्वृताय ततो महीमाहर धर्मराज 011a
स्वर्गोपमं शैलमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः 011c
कीर्तिश्च ते भारत पुण्यगन्धा नश्येत लोकेषु चराचरेषु 012a
तत्प्राप्य राज्यं कुरुपुङ्गवानां शक्यं महत्प्राप्तमथ क्रियाश्च 012c
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात् 013a
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च 013c
तेजस्तवोग्रं न सहेत राजन्समेत्य साक्षादपि वज्रपाणिः 014a
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज 014c
त्वदर्थसिद्ध्यर्थमभिप्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता 015a
यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः 015c
तवार्थसिद्ध्यर्थमभिप्रवृत्तौ यथैव कृष्णः सह यादवैस्तैः 016a
तथैव चावां नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे 016c
त्वदर्थयोगप्रभवप्रधानाः समं करिष्याम परान्समेत्य 016e
ततस्तदाज्ञाय मतं महात्मा तेषां स धर्मस्य सुतो वरिष्ठः 017a
प्रदक्षिणं वैश्रवणाधिवासं चकार धर्मार्थविदुत्तमौजः 017c
आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः 018a
यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः 018c
समाप्तकर्मा सहितः सुहृद्भिर्जित्वा सपत्नान्प्रतिलभ्य राज्यम् 019a
शैलेन्द्र भूयस्तपसे धृतात्मा द्रष्टा तवास्मीति मतिं चकार 019c
वृतः स सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पतिः कुरूणाम् 020a
उवाह चैनान्सगणांस्तथैव घटोत्कचः पर्वतनिर्झरेषु 020c
तान्प्रस्थितान्प्रीतिमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् 021a
स लोमशः प्रीतमना जगाम दिवौकसां पुण्यतमं निवासम् 021c
तेनानुशिष्टार्ष्टिषेणेन चैव तीर्थानि रम्याणि तपोवनानि 022a
महान्ति चान्यानि सरांसि पार्थाः सम्पश्यमानाः प्रययुर्नराग्र्याः 022c