वैशम्पायन उवाच 001
तस्यां रजन्यां व्युष्टायां धर्मराजो युधिष्ठिरः 001a
उत्थायावश्यकार्याणि कृतवान्भ्रतृभिः सह 001c
ततः सञ्चोदयामास सोऽर्जुनं भ्रातृनन्दनम् 002a
दर्शयास्त्राणि कौन्तेय यैर्जिता दानवास्त्वया 002c
ततो धनञ्जयो राजन्देवैर्दत्तानि पाण्डवः 003a
अस्त्राणि तानि दिव्यानि दर्शयामास भारत 003c
यथान्यायं महातेजाः शौचं परममास्थितः 004a
गिरिकूबरं पादपाङ्गं शुभवेणु त्रिवेणुकम् 004c
पार्थिवं रथमास्थाय शोभमानो धनञ्जयः 004e
ततः सुदंशितस्तेन कवचेन सुवर्चसा 005a
धनुरादाय गाण्डीवं देवदत्तं च वारिजम् 005c
शोशुभ्यमानः कौन्तेय आनुपूर्व्यान्महाभुजः 006a
अस्त्राणि तानि दिव्यानि दर्शनायोपचक्रमे 006c
अथ प्रयोक्ष्यमाणेन दिव्यान्यस्त्राणि तेन वै 007a
समाक्रान्ता मही पद्भ्यां समकम्पत सद्रुमा 007c
क्षुभिताः सरितश्चैव तथैव च महोदधिः 008a
शैलाश्चापि व्यशीर्यन्त न ववौ च समीरणः 008c
न बभासे सहस्रांशुर्न जज्वाल च पावकः 009a
न वेदाः प्रतिभान्ति स्म द्विजातीनां कथञ्चन 009c
अन्तर्भूमिगता ये च प्राणिनो जनमेजय 010a
पीड्यमानाः समुत्थाय पाण्डवं पर्यवारयन् 010c
वेपमानाः प्राञ्जलयस्ते सर्वे पिहिताननाः 011a
दह्यमानास्तदास्त्रैस्तैर्याचन्ति स्म धनञ्जयम् 011c
ततो ब्रह्मर्षयश्चैव सिद्धाश्चैव सुरर्षयः 012a
जङ्गमानि च भूतानि सर्वाण्येवावतस्थिरे 012c
राजर्षयश्च प्रवरास्तथैव च दिवौकसः 013a
यक्षराक्षसगन्धर्वास्तथैव च पतत्रिणः 013c
ततः पितामहश्चैव लोकपालाश्च सर्वशः 014a
भगवांश्च महादेवः सगणोऽभ्याययौ तदा 014c
ततो वायुर्महाराज दिव्यैर्माल्यैः सुगन्धिभिः 015a
अभितः पाण्डवांश्चित्रैरवचक्रे समन्ततः 015c
जगुश्च गाथा विविधा गन्धर्वाः सुरचोदिताः 016a
ननृतुः सङ्घशश्चैव राजन्नप्सरसां गणाः 016c
तस्मिंस्तु तुमुले काले नारदः सुरचोदितः 017a
आगम्याह वचः पार्थं श्रवणीयमिदं नृप 017c
अर्जुनार्जुन मा युङ्क्ष्व दिव्यान्यस्त्राणि भारत 018a
नैतानि निरधिष्ठाने प्रयुज्यन्ते कदाचन 018c
अधिष्ठाने न वानार्तः प्रयुञ्जीत कदाचन 019a
प्रयोगे सुमहान्दोषो ह्यस्त्राणां कुरुनन्दन 019c
एतानि रक्ष्यमाणानि धनञ्जय यथागमम् 020a
बलवन्ति सुखार्हाणि भविष्यन्ति न संशयः 020c
अरक्ष्यमाणान्येतानि त्रैलोक्यस्यापि पाण्डव 021a
भवन्ति स्म विनाशाय मैवं भूयः कृथाः क्वचित् 021c
अजातशत्रो त्वं चैव द्रक्ष्यसे तानि संयुगे 022a
योज्यमानानि पार्थेन द्विषतामवमर्दने 022c
निवार्याथ ततः पार्थं सर्वे देवा यथागतम् 023a
जग्मुरन्ये च ये तत्र समाजग्मुर्नरर्षभ 023c
तेषु सर्वेषु कौरव्य प्रतियातेषु पाण्डवाः 024a
तस्मिन्नेव वने हृष्टास्त ऊषुः सह कृष्णया 024c