अर्जुन उवाच 001
ततो मामभिविश्वस्तं संरूढशरविक्षतम् 001a
देवराजोऽनुगृह्येदं काले वचनमब्रवीत् 001c
दिव्यान्यस्त्राणि सर्वाणि त्वयि तिष्ठन्ति भारत 002a
न त्वाभिभवितुं शक्तो मानुषो भुवि कश्चन 002c
भीष्मो द्रोणः कृपः कर्णः शकुनिः सह राजभिः 003a
सङ्ग्रामस्थस्य ते पुत्र कलां नार्हन्ति षोडशीम् 003c
इदं च मे तनुत्राणं प्रायच्छन्मघवान्प्रभुः 004a
अभेद्यं कवचं दिव्यं स्रजं चैव हिरण्मयीम् 004c
देवदत्तं च मे शङ्खं देवः प्रादान्महारवम् 005a
दिव्यं चेदं किरीटं मे स्वयमिन्द्रो युयोज ह 005c
ततो दिव्यानि वस्त्राणि दिव्यान्याभरणानि च 006a
प्रादाच्छक्रो ममैतानि रुचिराणि बृहन्ति च 006c
एवं सम्पूजितस्तत्र सुखमस्म्युषितो नृप 007a
इन्द्रस्य भवने पुण्ये गन्धर्वशिशुभिः सह 007c
ततो मामब्रवीच्छक्रः प्रीतिमानमरैः सह 008a
समयोऽर्जुन गन्तुं ते भ्रातरो हि स्मरन्ति ते 008c
एवमिन्द्रस्य भवने पञ्च वर्षाणि भारत 009a
उषितानि मया राजन्स्मरता द्यूतजं कलिम् 009c
ततो भवन्तमद्राक्षं भ्रातृभिः परिवारितम् 010a
गन्धमादनमासाद्य पर्वतस्यास्य मूर्धनि 010c
युधिष्ठिर उवाच 011
दिष्ट्या धनञ्जयास्त्राणि त्वया प्राप्तानि भारत 011a
दिष्ट्या चाराधितो राजा देवानामीश्वरः प्रभुः 011c
दिष्ट्या च भगवान्स्थाणुर्देव्या सह परन्तप 012a
साक्षाद्दृष्टः सुयुद्धेन तोषितश्च त्वयानघ 012c
दिष्ट्या च लोकपालैस्त्वं समेतो भरतर्षभ 013a
दिष्ट्या वर्धामहे सर्वे दिष्ट्यासि पुनरागतः 013c
अद्य कृत्स्नामिमां देवीं विजितां पुरमालिनीम् 014a
मन्ये च धृतराष्ट्रस्य पुत्रानपि वशीकृतान् 014c
तानि त्विच्छामि ते द्रष्टुं दिव्यान्यस्त्राणि भारत 015a
यैस्तथा वीर्यवन्तस्ते निवातकवचा हता 015c
अर्जुन उवाच 016
श्वः प्रभाते भवान्द्रष्टा दिव्यान्यस्त्राणि सर्वशः 016a
निवातकवचा घोरा यैर्मया विनिपातिताः 016c
वैशम्पायन उवाच 017
एवमागमनं तत्र कथयित्वा धनञ्जयः 017a
भ्रातृभिः सहितः सर्वै रजनीं तामुवास ह 017c