अर्जुन उवाच 001
निवर्तमानेन मया महद्दृष्टं ततोऽपरम् 001a
पुरं कामचरं दिव्यं पावकार्कसमप्रभम् 001c
द्रुमै रत्नमयैश्चैत्रैर्भास्वरैश्च पतत्रिभिः 002a
पौलोमैः कालकेयैश्च नित्यहृष्टैरधिष्ठितम् 002c
गोपुराट्टालकोपेतं चतुर्द्वारं दुरासदम् 003a
सर्वरत्नमयं दिव्यमद्भुतोपमदर्शनम् 003c
द्रुमैः पुष्पफलोपेतैर्दिव्यरत्नमयैर्वृतम् 003e
तथा पतत्रिभिर्दिव्यैरुपेतं सुमनोहरैः 004a
असुरैर्नित्यमुदितैः शूलर्ष्टिमुसलायुधैः 004c
चापमुद्गरहस्तैश्च स्रग्विभिः सर्वतो वृतम् 004e
तदहं प्रेक्ष्य दैत्यानां पुरमद्भुतदर्शनम् 005a
अपृच्छं मातलिं राजन्किमिदं दृश्यतेति वै 005c
मातलिरुवाच 006
पुलोमा नाम दैतेयी कालका च महासुरी 006a
दिव्यं वर्षसहस्रं ते चेरतुः परमं तपः 006c
तपसोऽन्ते ततस्ताभ्यां स्वयम्भूरददाद्वरम् 006e
अगृह्णीतां वरं ते तु सुतानामल्पदुःखताम् 007a
अवध्यतां च राजेन्द्र सुरराक्षसपन्नगैः 007c
रमणीयं पुरं चेदं खचरं सुकृतप्रभम् 008a
सर्वरत्नैः समुदितं दुर्धर्षममरैरपि 008c
सयक्षगन्धर्वगणैः पन्नगासुरराक्षसैः 008e
सर्वकामगुणोपेतं वीतशोकमनामयम् 009a
ब्रह्मणा भरतश्रेष्ठ कालकेयकृते कृतम् 009c
तदेतत्खचरं दिव्यं चरत्यमरवर्जितम् 010a
पौलोमाध्युषितं वीर कालकेयैश्च दानवैः 010c
हिरण्यपुरमित्येतत्ख्यायते नगरं महत् 011a
रक्षितं कालकेयैश्च पौलोमैश्च महासुरैः 011c
त एते मुदिता नित्यमवध्याः सर्वदैवतैः 012a
निवसन्त्यत्र राजेन्द्र गतोद्वेगा निरुत्सुकाः 012c
मानुषो मृत्युरेतेषां निर्दिष्टो ब्रह्मणा पुरा 012e
अर्जुन उवाच 013
सुरासुरैरवध्यांस्तानहं ज्ञात्वा ततः प्रभो 013a
अब्रुवं मातलिं हृष्टो याह्येतत्पुरमञ्जसा 013c
त्रिदशेशद्विषो यावत्क्षयमस्त्रैर्नयाम्यहम् 014a
न कथञ्चिद्धि मे पापा न वध्या ये सुरद्विषः 014c
उवाह मां ततः शीघ्रं हिरण्यपुरमन्तिकात् 015a
रथेन तेन दिव्येन हरियुक्तेन मातलिः 015c
ते मामालक्ष्य दैतेया विचित्राभरणाम्बराः 016a
समुत्पेतुर्महावेगा रथानास्थाय दंशिताः 016c
ततो नालीकनाराचैर्भल्लशक्त्यृष्टितोमरैः 017a
अभ्यघ्नन्दानवेन्द्रा मां क्रुद्धास्तीव्रपराक्रमाः 017c
तदहं चास्त्रवर्षेण महता प्रत्यवारयम् 018a
शस्त्रवर्षं महद्राजन्विद्याबलमुपाश्रितः 018c
व्यामोहयं च तान्सर्वान्रथमार्गैश्चरन्रणे 019a
तेऽन्योन्यमभिसम्मूढाः पातयन्ति स्म दानवाः 019c
तेषामहं विमूढानामन्योन्यमभिधावताम् 020a
शिरांसि विशिखैर्दीप्तैर्व्यहरं शतसङ्घशः 020c
ते वध्यमाना दैतेयाः पुरमास्थाय तत्पुनः 021a
खमुत्पेतुः सनगरा मायामास्थाय दानवीम् 021c
ततोऽहं शरवर्षेण महता प्रत्यवारयम् 022a
मार्गमावृत्य दैत्यानां गतिं चैषामवारयम् 022c
तत्पुरं खचरं दिव्यं कामगं दिव्यवर्चसम् 023a
दैतेयैर्वरदानेन धार्यते स्म यथासुखम् 023c
अन्तर्भूमौ निपतितं पुनरूर्ध्वं प्रतिष्ठते 024a
पुनस्तिर्यक्प्रयात्याशु पुनरप्सु निमज्जति 024c
अमरावतिसङ्काशं पुरं कामगमं तु तत् 025a
अहमस्त्रैर्बहुविधैः प्रत्यगृह्णं नराधिप 025c
ततोऽहं शरजालेन दिव्यास्त्रमुदितेन च 026a
न्यगृह्णं सह दैतेयैस्तत्पुरं भरतर्षभ 026c
विक्षतं चायसैर्बाणैर्मत्प्रयुक्तैरजिह्मगैः 027a
महीमभ्यपतद्राजन्प्रभग्नं पुरमासुरम् 027c
ते वध्यमाना मद्बाणैर्वज्रवेगैरयस्मयैः 028a
पर्यभ्रमन्त वै राजन्नसुराः कालचोदिताः 028c
ततो मातलिरप्याशु पुरस्तान्निपतन्निव 029a
महीमवातरत्क्षिप्रं रथेनादित्यवर्चसा 029c
ततो रथसहस्राणि षष्टिस्तेषाममर्षिणाम् 030a
युयुत्सूनां मया सार्धं पर्यवर्तन्त भारत 030c
तानहं निशितैर्बाणैर्व्यधमं गार्ध्रवाजितैः 031a
ते युद्धे सन्न्यवर्तन्त समुद्रस्य यथोर्मयः 031c
नेमे शक्या मानुषेण युद्धेनेति प्रचिन्त्य वै 032a
ततोऽहमानुपूर्व्येण सर्वाण्यस्त्राण्ययोजयम् 032c
ततस्तानि सहस्राणि रथानां चित्रयोधिनाम् 033a
अस्त्राणि मम दिव्यानि प्रत्यघ्नञ्शनकैरिव 033c
रथमार्गान्विचित्रांस्ते विचरन्तो महारथाः 034a
प्रत्यदृश्यन्त सङ्ग्रामे शतशोऽथ सहस्रशः 034c
विचित्रमुकुटापीडा विचित्रकवचध्वजाः 035a
विचित्राभरणाश्चैव नन्दयन्तीव मे मनः 035c
अहं तु शरवर्षैस्तानस्त्रप्रमुदितै रणे 036a
नाशक्नुवं पीडयितुं ते तु मां पर्यपीडयन् 036c
तैः पीड्यमानो बहुभिः कृतास्त्रैः कुशलैर्युधि 037a
व्यथितोऽस्मि महायुद्धे भयं चागान्महन्मम 037c
ततोऽहं देवदेवाय रुद्राय प्रणतो रणे 038a
स्वस्ति भूतेभ्य इत्युक्त्वा महास्त्रं समयोजयम् 038c
यत्तद्रौद्रमिति ख्यातं सर्वामित्रविनाशनम् 038e
ततोऽपश्यं त्रिशिरसं पुरुषं नवलोचनम् 039a
त्रिमुखं षड्भुजं दीप्तमर्कज्वलनमूर्धजम् 039c
लेलिहानैर्महानागैः कृतशीर्षममित्रहन् 039e
विभीस्ततस्तदस्त्रं तु घोरं रौद्रं सनातनम् 040a
दृष्ट्वा गाण्डीवसंयोगमानीय भरतर्षभ 040c
नमस्कृत्वा त्रिनेत्राय शर्वायामिततेजसे 041a
मुक्तवान्दानवेन्द्राणां पराभावाय भारत 041c
मुक्तमात्रे ततस्तस्मिन्रूपाण्यासन्सहस्रशः 042a
मृगाणामथ सिंहानां व्याघ्राणां च विशां पते 042c
ऋक्षाणां महिषाणां च पन्नगानां तथा गवाम् 042e
गजानां सृमराणां च शरभाणां च सर्वशः 043a
ऋषभाणां वराहाणां मार्जाराणां तथैव च 043c
शालावृकाणां प्रेतानां भुरुण्डानां च सर्वशः 043e
गृध्राणां गरुडानां च मकराणां तथैव च 044a
पिशाचानां सयक्षाणां तथैव च सुरद्विषाम् 044c
गुह्यकानां च सङ्ग्रामे नैर्ऋतानां तथैव च 045a
झषाणां गजवक्त्राणामुलूकानां तथैव च 045c
मीनकूर्मसमूहानां नानाशस्त्रासिपाणिनाम् 046a
तथैव यातु धानानां गदामुद्गरधारिणाम् 046c
एतैश्चान्यैश्च बहुभिर्नानारूपधरैस्तथा 047a
सर्वमासीज्जगद्व्याप्तं तस्मिन्नस्त्रे विसर्जिते 047c
त्रिशिरोभिश्चतुर्दंष्ट्रैश्चतुरास्यैश्चतुर्भुजैः 048a
अनेकरूपसंयुक्तैर्मांसमेदोवसाशिभिः 048c
अभीक्ष्णं वध्यमानास्ते दानवा ये समागताः 048e
अर्कज्वलनतेजोभिर्वज्राशनिसमप्रभैः 049a
अद्रिसारमयैश्चान्यैर्बाणैररिविदारणैः 049c
न्यहनं दानवान्सर्वान्मुहूर्तेनैव भारत 049e
गाण्डीवास्त्रप्रणुन्नांस्तान्गतासून्नभसश्च्युतान् 050a
दृष्ट्वाहं प्राणमं भूयस्त्रिपुरघ्नाय वेधसे 050c
तथा रौद्रास्त्रनिष्पिष्टान्दिव्याभरणभूषितान् 051a
निशाम्य परमं हर्षमगमद्देवसारथिः 051c
तदसह्यं कृतं कर्म देवैरपि दुरासदम् 052a
दृष्ट्वा मां पूजयामास मातलिः शक्रसारथिः 052c
उवाच चेदं वचनं प्रीयमाणः कृताञ्जलिः 053a
सुरासुरैरसह्यं हि कर्म यत्साधितं त्वया 053c
न ह्येतत्संयुगे कर्तुमपि शक्तः सुरेश्वरः 053e
सुरासुरैरवध्यं हि पुरमेतत्खगं महत् 054a
त्वया विमथितं वीर स्ववीर्यास्त्रतपोबलात् 054c
विध्वस्तेऽथ पुरे तस्मिन्दानवेषु हतेषु च 055a
विनदन्त्यः स्त्रियः सर्वा निष्पेतुर्नगराद्बहिः 055c
प्रकीर्णकेश्यो व्यथिताः कुरर्य इव दुःखिताः 056a
पेतुः पुत्रान्पितॄन्भ्रातॄञ्शोचमाना महीतले 056c
रुदन्त्यो दीनकण्ठ्यस्ता विनदन्त्यो हतेश्वराः 057a
उरांसि पाणिभिर्घ्नन्त्यः प्रस्रस्तस्रग्विभूषणाः 057c
तच्छोकयुक्तमश्रीकं दुःखदैन्यसमाहतम् 058a
न बभौ दानवपुरं हतत्विट्कं हतेश्वरम् 058c
गन्धर्वनगराकारं हतनागमिव ह्रदम् 059a
शुष्कवृक्षमिवारण्यमदृश्यमभवत्पुरम् 059c
मां तु संहृष्टमनसं क्षिप्रं मातलिरानयत् 060a
देवराजस्य भवनं कृतकर्माणमाहवात् 060c
हिरण्यपुरमारुज्य निहत्य च महासुरान् 061a
निवातकवचांश्चैव ततोऽहं शक्रमागमम् 061c
मम कर्म च देवेन्द्रं मातलिर्विस्तरेण तत् 062a
सर्वं विश्रावयामास यथा भूतं महाद्युते 062c
हिरण्यपुरघातं च मायानां च निवारणम् 063a
निवातकवचानां च वधं सङ्ख्ये महौजसाम् 063c
तच्छ्रुत्वा भगवान्प्रीतः सहस्राक्षः पुरन्दरः 064a
मरुद्भिः सहितः श्रीमान्साधु साध्वित्यथाब्रवीत् 064c
ततो मां देवराजो वै समाश्वास्य पुनः पुनः 065a
अब्रवीद्विबुधैः सार्धमिदं सुमधुरं वचः 065c
अतिदेवासुरं कर्म कृतमेतत्त्वया रणे 066a
गुर्वर्थश्च महान्पार्थ कृतः शत्रून्घ्नता मम 066c
एवमेव सदा भाव्यं स्थिरेणाजौ धनञ्जय 067a
असम्मूढेन चास्त्राणां कर्तव्यं प्रतिपादनम् 067c
अविषह्यो रणे हि त्वं देवदानवराक्षसैः 068a
सयक्षासुरगन्धर्वैः सपक्षिगणपन्नगैः 068c
वसुधां चापि कौन्तेय त्वद्बाहुबलनिर्जिताम् 069a
पालयिष्यति धर्मात्मा कुन्तीपुत्रो युधिष्ठिरः 069c