अर्जुन उवाच 001
अदृश्यमानास्ते दैत्या योधयन्ति स्म मायया 001a
अदृश्यानस्त्रवीर्येण तानप्यहमयोधयम् 001c
गाण्डीवमुक्ता विशिखाः सम्यगस्त्रप्रचोदिताः 002a
अच्छिन्दन्नुत्तमाङ्गानि यत्र यत्र स्म तेऽभवन् 002c
ततो निवातकवचा वध्यमाना मया युधि 003a
संहृत्य मायां सहसा प्राविशन्पुरमात्मनः 003c
व्यपयातेषु दैत्येषु प्रादुर्भूते च दर्शने 004a
अपश्यं दानवांस्तत्र हताञ्शतसहस्रशः 004c
विनिष्पिष्टानि तत्रैषां शस्त्राण्याभरणानि च 005a
कूटशः स्म प्रदृश्यन्ते गात्राणि कवचानि च 005c
हयानां नान्तरं ह्यासीत्पदाद्विचलितुं पदम् 006a
उत्पत्य सहसा तस्थुरन्तरिक्षगमास्ततः 006c
ततो निवातकवचा व्योम सञ्छाद्य केवलम् 007a
अदृश्या ह्यभ्यवर्तन्त विसृजन्तः शिलोच्चयान् 007c
अन्तर्भूमिगताश्चान्ये हयानां चरणान्यथ 008a
न्यगृह्णन्दानवा घोरा रथचक्रे च भारत 008c
विनिगृह्य हरीनश्वान्रथं च मम युध्यतः 009a
सर्वतो मामचिन्वन्त सरथं धरणीधरैः 009c
पर्वतैरुपचीयद्भिः पतमानैस्तथापरैः 010a
स देशो यत्र वर्ताम गुहेव समपद्यत 010c
पर्वतैश्छाद्यमानोऽहं निगृहीतैश्च वाजिभिः 011a
अगच्छं परमामार्तिं मातलिस्तदलक्षयत् 011c
लक्षयित्वा तु मां भीतमिदं वचनमब्रवीत् 012a
अर्जुनार्जुन मा भैस्त्वं वज्रमस्त्रमुदीरय 012c
ततोऽहं तस्य तद्वाक्यं श्रुत्वा वज्रमुदीरयम् 013a
देवराजस्य दयितं वज्रमस्त्रं नराधिप 013c
अचलं स्थानमासाद्य गाण्डीवमनुमन्त्र्य च 014a
अमुञ्चं वज्रसंस्पर्शानायसान्निशिताञ्शरान् 014c
ततो मायाश्च ताः सर्वा निवातकवचांश्च तान् 015a
ते वज्रचोदिता बाणा वज्रभूताः समाविशन् 015c
ते वज्रवेगाभिहता दानवाः पर्वतोपमाः 016a
इतरेतरमाश्लिष्य न्यपतन्पृथिवीतले 016c
अन्तर्भूमौ तु येऽगृह्णन्दानवा रथवाजिनः 017a
अनुप्रविश्य तान्बाणाः प्राहिण्वन्यमसादनम् 017c
हतैर्निवातकवचैर्निरस्तैः पर्वतोपमैः 018a
समाच्छाद्यत देशः स विकीर्णैरिव पर्वतैः 018c
न हयानां क्षतिः काचिन्न रथस्य न मातलेः 019a
मम चादृश्यत तदा तदद्भुतमिवाभवत् 019c
ततो मां प्रहसन्राजन्मातलिः प्रत्यभाषत 020a
नैतदर्जुन देवेषु त्वयि वीर्यं यदीक्ष्यते 020c
हतेष्वसुरसङ्घेषु दारास्तेषां तु सर्वशः 021a
प्राक्रोशन्नगरे तस्मिन्यथा शरदि लक्ष्मणाः 021c
ततो मातलिना सार्धमहं तत्पुरमभ्ययाम् 022a
त्रासयन्रथघोषेण निवातकवचस्त्रियः 022c
तान्दृष्ट्वा दशसाहस्रान्मयूरसदृशान्हयान् 023a
रथं च रविसङ्काशं प्राद्रवन्गणशः स्त्रियः 023c
ताभिराभरणैः शब्दस्त्रासिताभिः समीरितः 024a
शिलानामिव शैलेषु पतन्तीनामभूत्तदा 024c
वित्रस्ता दैत्यनार्यस्ताः स्वानि वेश्मान्यथाविशन् 025a
बहुरत्नविचित्राणि शातकुम्भमयानि च 025c
तदद्भुताकारमहं दृष्ट्वा नगरमुत्तमम् 026a
विशिष्टं देवनगरादपृच्छं मातलिं ततः 026c
इदमेवंविधं कस्माद्देवता नाविशन्त्युत 027a
पुरन्दरपुराद्धीदं विशिष्टमिति लक्षये 027c
मातलिरुवाच 028
आसीदिदं पुरा पार्थ देवराजस्य नः पुरम् 028a
ततो निवातकवचैरितः प्रच्याविताः सुराः 028c
तपस्तप्त्वा महत्तीव्रं प्रसाद्य च पितामहम् 029a
इदं वृतं निवासाय देवेभ्यश्चाभयं युधि 029c
ततः शक्रेण भगवान्स्वयम्भूरभिचोदितः 030a
विधत्तां भगवानत्रेत्यात्मनो हितकाम्यया 030c
तत उक्तो भगवता दिष्टमत्रेति वासवः 031a
भवितान्तस्त्वमेवैषां देहेनान्येन वृत्रहन् 031c
तत एषां वधार्थाय शक्रोऽस्त्राणि ददौ तव 032a
न हि शक्याः सुरैर्हन्तुं य एते निहतास्त्वया 032c
कालस्य परिणामेन ततस्त्वमिह भारत 033a
एषामन्तकरः प्राप्तस्तत्त्वया च कृतं तथा 033c
दानवानां विनाशार्थं महास्त्राणां महद्बलम् 034a
ग्राहितस्त्वं महेन्द्रेण पुरुषेन्द्र तदुत्तमम् 034c
अर्जुन उवाच 035
ततः प्रविश्य नगरं दानवांश्च निहत्य तान् 035a
पुनर्मातलिना सार्धमगच्छं देवसद्म तत् 035c