अर्जुन उवाच 001
ततोऽश्मवर्षं सुमहत्प्रादुरासीत्समन्ततः 001a
नगमात्रैर्महाघोरैस्तन्मां दृढमपीडयत् 001c
तदहं वज्रसङ्काशैः शरैरिन्द्रास्त्रचोदितैः 002a
अचूर्णयं वेगवद्भिः शतधैकैकमाहवे 002c
चूर्ण्यमानेऽश्मवर्षे तु पावकः समजायत 003a
तत्राश्मचूर्णमपतत्पावकप्रकरा इव 003c
ततोऽश्मवर्षे निहते जलवर्षं महत्तरम् 004a
धाराभिरक्षमात्राभिः प्रादुरासीन्ममान्तिके 004c
नभसः प्रच्युता धारास्तिग्मवीर्याः सहस्रशः 005a
आवृण्वन्सर्वतो व्योम दिशश्चोपदिशस्तथा 005c
धाराणां च निपातेन वायोर्विस्फूर्जितेन च 006a
गर्जितेन च दैत्यानां न प्राज्ञायत किञ्चन 006c
धारा दिवि च सम्बद्धा वसुधायां च सर्वशः 007a
व्यामोहयन्त मां तत्र निपतन्त्योऽनिशं भुवि 007c
तत्रोपदिष्टमिन्द्रेण दिव्यमस्त्रं विशोषणम् 008a
दीप्तं प्राहिणवं घोरमशुष्यत्तेन तज्जलम् 008c
हतेऽश्मवर्षे तु मया जलवर्षे च शोषिते 009a
मुमुचुर्दानवा मायामग्निं वायुं च मानद 009c
ततोऽहमग्निं व्यधमं सलिलास्त्रेण सर्वशः 010a
शैलेन च महास्त्रेण वायोर्वेगमधारयम् 010c
तस्यां प्रतिहतायां तु दानवा युद्धदुर्मदाः 011a
प्राकुर्वन्विविधा माया यौगपद्येन भारत 011c
ततो वर्षं प्रादुरभूत्सुमहल्लोमहर्षणम् 012a
अस्त्राणां घोररूपाणामग्नेर्वायोस्तथाश्मनाम् 012c
सा तु मायामयी वृष्टिः पीडयामास मां युधि 013a
अथ घोरं तमस्तीव्रं प्रादुरासीत्समन्ततः 013c
तमसा संवृते लोके घोरेण परुषेण च 014a
तुरगा विमुखाश्चासन्प्रास्खलच्चापि मातलिः 014c
हस्ताद्धिरण्मयश्चास्य प्रतोदः प्रापतद्भुवि 015a
असकृच्चाह मां भीतः क्वासीति भरतर्षभ 015c
मां च भीराविशत्तीव्रा तस्मिन्विगतचेतसि 016a
स च मां विगतज्ञानः सन्त्रस्त इदमब्रवीत् 016c
सुराणामसुराणां च सङ्ग्रामः सुमहानभूत् 017a
अमृतार्थे पुरा पार्थ स च दृष्टो मयानघ 017c
शम्बरस्य वधे चापि सङ्ग्रामः सुमहानभूत् 018a
सारथ्यं देवराजस्य तत्रापि कृतवानहम् 018c
तथैव वृत्रस्य वधे सङ्गृहीता हया मया 019a
वैरोचनेर्मया युद्धं दृष्टं चापि सुदारुणम् 019c
एते मया महाघोराः सङ्ग्रामाः पर्युपासिताः 020a
न चापि विगतज्ञानो भूतपूर्वोऽस्मि पाण्डव 020c
पितामहेन संहारः प्रजानां विहितो ध्रुवम् 021a
न हि युद्धमिदं युक्तमन्यत्र जगतः क्षयात् 021c
तस्य तद्वचनं श्रुत्वा संस्तभ्यात्मानमात्मना 022a
मोहयिष्यन्दानवानामहं मायामयं बलम् 022c
अब्रुवं मातलिं भीतं पश्य मे भुजयोर्बलम् 023a
अस्त्राणां च प्रभावं मे धनुषो गाण्डिवस्य च 023c
अद्यास्त्रमाययैतेषां मायामेतां सुदारुणाम् 024a
विनिहन्मि तमश्चोग्रं मा भैः सूत स्थिरो भव 024c
एवमुक्त्वाहमसृजमस्त्रमायां नराधिप 025a
मोहनीं सर्वशत्रूणां हिताय त्रिदिवौकसाम् 025c
पीड्यमानासु मायासु तासु तास्वसुरेश्वराः 026a
पुनर्बहुविधा मायाः प्राकुर्वन्नमितौजसः 026c
पुनः प्रकाशमभवत्तमसा ग्रस्यते पुनः 027a
व्रजत्यदर्शनं लोकः पुनरप्सु निमज्जति 027c
सुसङ्गृहीतैर्हरिभिः प्रकाशे सति मातलिः 028a
व्यचरत्स्यन्दनाग्र्येण सङ्ग्रामे लोमहर्षणे 028c
ततः पर्यपतन्नुग्रा निवातकवचा मयि 029a
तानहं विवरं दृष्ट्वा प्राहिण्वं यमसादनम् 029c
वर्तमाने तथा युद्धे निवातकवचान्तके 030a
नापश्यं सहसा सर्वान्दानवान्माययावृतान् 030c