अर्जुन उवाच 001
ततो निवातकवचाः सर्वे वेगेन भारत 001a
अभ्यद्रवन्मां सहिताः प्रगृहीतायुधा रणे 001c
आच्छिद्य रथपन्थानमुत्क्रोशन्तो महारथाः 002a
आवृत्य सर्वतस्ते मां शरवर्षैरवाकिरन् 002c
ततोऽपरे महावीर्याः शूलपट्टिशपाणयः 003a
शूलानि च भुशुण्डीश्च मुमुचुर्दानवा मयि 003c
तच्छूलवर्षं सुमहद्गदाशक्तिसमाकुलम् 004a
अनिशं सृज्यमानं तैरपतन्मद्रथोपरि 004c
अन्ये मामभ्यधावन्त निवातकवचा युधि 005a
शितशस्त्रायुधा रौद्राः कालरूपाः प्रहारिणः 005c
तानहं विविधैर्बाणैर्वेगवद्भिरजिह्मगैः 006a
गाण्डीवमुक्तैरभ्यघ्नमेकैकं दशभिर्मृधे 006c
ते कृता विमुखाः सर्वे मत्प्रयुक्तैः शिलाशितैः 006e
ततो मातलिना तूर्णं हयास्ते सम्प्रचोदिताः 007a
रथमार्गाद्बहूंस्तत्र विचेरुर्वातरंहसः 007c
सुसंयता मातलिना प्रामथ्नन्त दितेः सुतान् 007e
शतं शतास्ते हरयस्तस्मिन्युक्ता महारथे 008a
तदा मातलिना यत्ता व्यचरन्नल्पका इव 008c
तेषां चरणपातेन रथनेमिस्वनेन च 009a
मम बाणनिपातैश्च हतास्ते शतशोऽसुराः 009c
गतासवस्तथा चान्ये प्रगृहीतशरासनाः 010a
हतसारथयस्तत्र व्यकृष्यन्त तुरङ्गमैः 010c
ते दिशो विदिशः सर्वाः प्रतिरुध्य प्रहारिणः 011a
निघ्नन्ति विविधैः शस्त्रैस्ततो मे व्यथितं मनः 011c
ततोऽहं मातलेर्वीर्यमपश्यं परमाद्भुतम् 012a
अश्वांस्तथा वेगवतो यदयत्नादधारयत् 012c
ततोऽहं लघुभिश्चित्रैरस्त्रैस्तानसुरान्रणे 013a
सायुधानच्छिनं राजञ्शतशोऽथ सहस्रशः 013c
एवं मे चरतस्तत्र सर्वयत्नेन शत्रुहन् 014a
प्रीतिमानभवद्वीरो मातलिः शक्रसारथिः 014c
वध्यमानास्ततस्ते तु हयैस्तेन रथेन च 015a
अगमन्प्रक्षयं केचिन्न्यवर्तन्त तथापरे 015c
स्पर्धमाना इवास्माभिर्निवातकवचा रणे 016a
शरवर्षैर्महद्भिर्मां समन्तात्प्रत्यवारयन् 016c
ततोऽहं लघुभिश्चित्रैर्ब्रह्मास्त्रपरिमन्त्रितैः 017a
व्यधमं सायकैराशु शतशोऽथ सहस्रशः 017c
ततः सम्पीड्यमानास्ते क्रोधाविष्टा महासुराः 018a
अपीडयन्मां सहिताः शरशूलासिवृष्टिभिः 018c
ततोऽहमस्त्रमातिष्ठं परमं तिग्मतेजसम् 019a
दयितं देवराजस्य माधवं नाम भारत 019c
ततः खड्गांस्त्रिशूलांश्च तोमरांश्च सहस्रशः 020a
अस्त्रवीर्येण शतधा तैर्मुक्तानहमच्छिनम् 020c
छित्त्वा प्रहरणान्येषां ततस्तानपि सर्वशः 021a
प्रत्यविध्यमहं रोषाद्दशभिर्दशभिः शरैः 021c
गाण्डीवाद्धि तदा सङ्ख्ये यथा भ्रमरपङ्क्तयः 022a
निष्पतन्ति तथा बाणास्तन्मातलिरपूजयत् 022c
तेषामपि तु बाणास्ते बहुत्वाच्छलभा इव 023a
अवाकिरन्मां बलवत्तानहं व्यधमं शरैः 023c
वध्यमानास्ततस्ते तु निवातकवचाः पुनः 024a
शरवर्षैर्महद्भिर्मां समन्तात्पर्यवारयन् 024c
शरवेगान्निहत्याहमस्त्रैः शरविघातिभिः 025a
ज्वलद्भिः परमैः शीघ्रैस्तानविध्यं सहस्रशः 025c
तेषां छिन्नानि गात्राणि विसृजन्ति स्म शोणितम् 026a
प्रावृषीवातिवृष्टानि शृङ्गाणीव धराभृताम् 026c
इन्द्राशनिसमस्पर्शैर्वेगवद्भिरजिह्मगैः 027a
मद्बाणैर्वध्यमानास्ते समुद्विग्नाः स्म दानवाः 027c
शतधा भिन्नदेहान्त्राः क्षीणप्रहरणौजसः 028a
ततो निवातकवचा मामयुध्यन्त मायया 028c