अर्जुन उवाच 001
ततोऽहं स्तूयमानस्तु तत्र तत्र महर्षिभिः 001a
अपश्यमुदधिं भीममपाम्पतिमथाव्ययम् 001c
फेनवत्यः प्रकीर्णाश्च संहताश्च समुच्छ्रिताः 002a
ऊर्मयश्चात्र दृश्यन्ते चलन्त इव पर्वताः 002c
नावः सहस्रशस्तत्र रत्नपूर्णाः समन्ततः 002e
तिमिङ्गिलाः कच्छपाश्च तथा तिमितिमिङ्गिलाः 003a
मकराश्चात्र दृश्यन्ते जले मग्ना इवाद्रयः 003c
शङ्खानां च सहस्राणि मग्नान्यप्सु समन्ततः 004a
दृश्यन्ते स्म यथा रात्रौ तारास्तन्वभ्रसंवृताः 004c
तथा सहस्रशस्तत्र रत्नसङ्घाः प्लवन्त्युत 005a
वायुश्च घूर्णते भीमस्तदद्भुतमिवाभवत् 005c
तमतीत्य महावेगं सर्वाम्भोनिधिमुत्तमम् 006a
अपश्यं दानवाकीर्णं तद्दैत्यपुरमन्तिकात् 006c
तत्रैव मातलिस्तूर्णं निपत्य पृथिवीतले 007a
नादयन्रथघोषेण तत्पुरं समुपाद्रवत् 007c
रथघोषं तु तं श्रुत्वा स्तनयित्नोरिवाम्बरे 008a
मन्वाना देवराजं मां संविग्ना दानवाभवन् 008c
सर्वे सम्भ्रान्तमनसः शरचापधराः स्थिताः 009a
तथा शूलासिपरशुगदामुसलपाणयः 009c
ततो द्वाराणि पिदधुर्दानवास्त्रस्तचेतसः 010a
संविधाय पुरे रक्षां न स्म कश्चन दृश्यते 010c
ततः शङ्खमुपादाय देवदत्तं महास्वनम् 011a
पुरमासुरमाश्लिष्य प्राधमं तं शनैरहम् 011c
स तु शब्दो दिवं स्तब्ध्वा प्रतिशब्दमजीजनत् 012a
वित्रेसुश्च निलिल्युश्च भूतानि सुमहान्त्यपि 012c
ततो निवातकवचाः सर्व एव समन्ततः 013a
दंशिता विविधैस्त्राणैर्विविधायुधपाणयः 013c
आयसैश्च महाशूलैर्गदाभिर्मुसलैरपि 014a
पट्टिशैः करवालैश्च रथचक्रैश्च भारत 014c
शतघ्नीभिर्भुशुण्डीभिः खड्गैश्चित्रैः स्वलङ्कृतैः 015a
प्रगृहीतैर्दितेः पुत्राः प्रादुरासन्सहस्रशः 015c
ततो विचार्य बहुधा रथमार्गेषु तान्हयान् 016a
प्राचोदयत्समे देशे मातलिर्भरतर्षभ 016c
तेन तेषां प्रणुन्नानामाशुत्वाच्छीघ्रगामिनाम् 017a
नान्वपश्यं तदा किञ्चित्तन्मेऽद्भुतमिवाभवत् 017c
ततस्ते दानवास्तत्र योधव्रातान्यनेकशः 018a
विकृतस्वररूपाणि भृशं सर्वाण्यचोदयन् 018c
तेन शब्देन महता समुद्रे पर्वतोपमाः 019a
आप्लवन्त गतैः सत्त्वैर्मत्स्याः शतसहस्रशः 019c
ततो वेगेन महता दानवा मामुपाद्रवन् 020a
विमुञ्चन्तः शितान्बाणाञ्शतशोऽथ सहस्रशः 020c
स सम्प्रहारस्तुमुलस्तेषां मम च भारत 021a
अवर्तत महाघोरो निवातकवचान्तकः 021c
ततो देवर्षयश्चैव दानवर्षिगणाश्च ये 022a
ब्रह्मर्षयश्च सिद्धाश्च समाजग्मुर्महामृधे 022c
ते वै मामनुरूपाभिर्मधुराभिर्जयैषिणः 023a
अस्तुवन्मुनयो वाग्भिर्यथेन्द्रं तारकामये 023c