अर्जुन उवाच 001
कृतास्त्रमभिविश्वस्तमथ मां हरिवाहनः 001a
संस्पृश्य मूर्ध्नि पाणिभ्यामिदं वचनमब्रवीत् 001c
न त्वमद्य युधा जेतुं शक्यः सुरगणैरपि 002a
किं पुनर्मानुषे लोके मानुषैरकृतात्मभिः 002c
अप्रमेयोऽप्रधृष्यश्च युद्धेष्वप्रतिमस्तथा 002e
अथाब्रवीत्पुनर्देवः सम्प्रहृष्टतनूरुहः 003a
अस्त्रयुद्धे समो वीर न ते कश्चिद्भविष्यति 003c
अप्रमत्तः सदा दक्षः सत्यवादी जितेन्द्रियः 004a
ब्रह्मण्यश्चास्त्रविच्चासि शूरश्चासि कुरूद्वह 004c
अस्त्राणि समवाप्तानि त्वया दश च पञ्च च 005a
पञ्चभिर्विधिभिः पार्थ न त्वया विद्यते समः 005c
प्रयोगमुपसंहारमावृत्तिं च धनञ्जय 006a
प्रायश्चित्तं च वेत्थ त्वं प्रतिघातं च सर्वशः 006c
तव गुर्वर्थकालोऽयमुपपन्नः परन्तप 007a
प्रतिजानीष्व तं कर्तुमतो वेत्स्याम्यहं परम् 007c
ततोऽहमब्रुवं राजन्देवराजमिदं वचः 008a
विषह्यं चेन्मया कर्तुं कृतमेव निबोध तत् 008c
ततो मामब्रवीद्राजन्प्रहस्य बलवृत्रहा 009a
नाविषह्यं तवाद्यास्ति त्रिषु लोकेषु किञ्चन 009c
निवातकवचा नाम दानवा मम शत्रवः 010a
समुद्रकुक्षिमाश्रित्य दुर्गे प्रतिवसन्त्युत 010c
तिस्रः कोट्यः समाख्यातास्तुल्यरूपबलप्रभाः 011a
तांस्तत्र जहि कौन्तेय गुर्वर्थस्ते भविष्यति 011c
ततो मातलिसंयुक्तं मयूरसमरोमभिः 012a
हयैरुपेतं प्रादान्मे रथं दिव्यं महाप्रभम् 012c
बबन्ध चैव मे मूर्ध्नि किरीटमिदमुत्तमम् 013a
स्वरूपसदृशं चैव प्रादादङ्गविभूषणम् 013c
अभेद्यं कवचं चेदं स्पर्शरूपवदुत्तमम् 014a
अजरां ज्यामिमां चापि गाण्डीवे समयोजयत् 014c
ततः प्रायामहं तेन स्यन्दनेन विराजता 015a
येनाजयद्देवपतिर्बलिं वैरोचनिं पुरा 015c
ततो देवाः सर्व एव तेन घोषेण बोधितः 016a
मन्वाना देवराजं मां समाजग्मुर्विशां पते 016c
दृष्ट्वा च मामपृच्छन्त किं करिष्यसि फल्गुन 016e
तानब्रुवं यथाभूतमिदं कर्तास्मि संयुगे 017a
निवातकवचानां तु प्रस्थितं मां वधैषिणम् 017c
निबोधत महाभागाः शिवं चाशास्त मेऽनघाः 017e
तुष्टुवुर्मां प्रसन्नास्ते यथा देवं पुरन्दरम् 018a
रथेनानेन मघवा जितवाञ्शम्बरं युधि 018c
नमुचिं बलवृत्रौ च प्रह्लादनरकावपि 018e
बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च 019a
रथेनानेन दैत्यानां जितवान्मघवान्युधि 019c
त्वमप्येतेन कौन्तेय निवातकवचान्रणे 020a
विजेता युधि विक्रम्य पुरेव मघवान्वशी 020c
अयं च शङ्खप्रवरो येन जेतासि दानवान् 021a
अनेन विजिता लोकाः शक्रेणापि महात्मना 021c
प्रदीयमानं देवैस्तु देवदत्तं जलोद्भवम् 022a
प्रत्यगृह्णं जयायैनं स्तूयमानस्तदामरैः 022c
स शङ्खी कवची बाणी प्रगृहीतशरासनः 023a
दानवालयमत्युग्रं प्रयातोऽस्मि युयुत्सया 023c