अर्जुन उवाच 001
ततस्तामवसं प्रीतो रजनीं तत्र भारत 001a
प्रसादाद्देवदेवस्य त्र्यम्बकस्य महात्मनः 001c
व्युषितो रजनीं चाहं कृत्वा पूर्वाह्णिकक्रियाम् 002a
अपश्यं तं द्विजश्रेष्ठं दृष्टवानस्मि यं पुरा 002c
तस्मै चाहं यथावृत्तं सर्वमेव न्यवेदयम् 003a
भगवन्तं महादेवं समेतोऽस्मीति भारत 003c
स मामुवाच राजेन्द्र प्रीयमाणो द्विजोत्तमः 004a
दृष्टस्त्वया महादेवो यथा नान्येन केनचित् 004c
समेत्य लोकपालैस्तु सर्वैर्वैवस्वतादिभिः 005a
द्रष्टास्यनघ देवेन्द्रं स च तेऽस्त्राणि दास्यति 005c
एवमुक्त्वा स मां राजन्नाश्लिष्य च पुनः पुनः 006a
अगच्छत्स यथाकामं ब्राह्मणः सूर्यसन्निभः 006c
अथापराह्णे तस्याह्नः प्रावात्पुण्यः समीरणः 007a
पुनर्नवमिमं लोकं कुर्वन्निव सपत्नहन् 007c
दिव्यानि चैव माल्यानि सुगन्धीनि नवानि च 008a
शैशिरस्य गिरेः पादे प्रादुरासन्समीपतः 008c
वादित्राणि च दिव्यानि सुघोषाणि समन्ततः 009a
स्तुतयश्चेन्द्रसंयुक्ता अश्रूयन्त मनोहराः 009c
गणाश्चाप्सरसां तत्र गन्धर्वाणां तथैव च 010a
पुरस्ताद्देवदेवस्य जगुर्गीतानि सर्वशः 010c
मरुतां च गणास्तत्र देवयानैरुपागमन् 011a
महेन्द्रानुचरा ये च देवसद्मनिवासिनः 011c
ततो मरुत्वान्हरिभिर्युक्तैर्वाहैः स्वलङ्कृतैः 012a
शचीसहायस्तत्रायात्सह सर्वैस्तदामरैः 012c
एतस्मिन्नेव काले तु कुबेरो नरवाहनः 013a
दर्शयामास मां राजल्ँलक्ष्म्या परमया युतः 013c
दक्षिणस्यां दिशि यमं प्रत्यपश्यं व्यवस्थितम् 014a
वरुणं देवराजं च यथास्थानमवस्थितम् 014c
ते मामूचुर्महाराज सान्त्वयित्वा सुरर्षभाः 015a
सव्यसाचिन्समीक्षस्व लोकपालानवस्थितान् 015c
सुरकार्यार्थसिद्ध्यर्थं दृष्टवानसि शङ्करम् 016a
अस्मत्तोऽपि गृहाण त्वमस्त्राणीति समन्ततः 016c
ततोऽहं प्रयतो भूत्वा प्रणिपत्य सुरर्षभान् 017a
प्रत्यगृह्णं तदास्त्राणि महान्ति विधिवत्प्रभो 017c
गृहीतास्त्रस्ततो देवैरनुज्ञातोऽस्मि भारत 018a
अथ देवा ययुः सर्वे यथागतमरिन्दम 018c
मघवानपि देवेशो रथमारुह्य सुप्रभम् 019a
उवाच भगवान्वाक्यं स्मयन्निव सुरारिहा 019c
पुरैवागमनादस्माद्वेदाहं त्वां धनञ्जय 020a
अतः परं त्वहं वै त्वां दर्शये भरतर्षभ 020c
त्वया हि तीर्थेषु पुरा समाप्लावः कृतोऽसकृत् 021a
तपश्चेदं पुरा तप्तं स्वर्गं गन्तासि पाण्डव 021c
भूयश्चैव तु तप्तव्यं तपः परमदारुणम् 022a
उवाच भगवान्सर्वं तपसश्चोपपादनम् 022c
मातलिर्मन्नियोगात्त्वां त्रिदिवं प्रापयिष्यति 023a
विदितस्त्वं हि देवानामृषीणां च महात्मनाम् 023c
ततोऽहमब्रुवं शक्रं प्रसीद भगवन्मम 024a
आचार्यं वरये त्वाहमस्त्रार्थं त्रिदशेश्वर 024c
इन्द्र उवाच 025
क्रूरं कर्मास्त्रवित्तात करिष्यसि परन्तप 025a
यदर्थमस्त्राणीप्सुस्त्वं तं कामं पाण्डवाप्नुहि 025c
अर्जुन उवाच 026
ततोऽहमब्रुवं नाहं दिव्यान्यस्त्राणि शत्रुहन् 026a
मानुषेषु प्रयोक्ष्यामि विनास्त्रप्रतिघातनम् 026c
तानि दिव्यानि मेऽस्त्राणि प्रयच्छ विबुधाधिप 027a
लोकांश्चास्त्रजितान्पश्चाल्लभेयं सुरपुङ्गव 027c
इन्द्र उवाच 028
परीक्षार्थं मयैतत्ते वाक्यमुक्तं धनञ्जय 028a
ममात्मजस्य वचनं सूपपन्नमिदं तव 028c
शिक्ष मे भवनं गत्वा सर्वाण्यस्त्राणि भारत 029a
वायोरग्नेर्वसुभ्योऽथ वरुणात्समरुद्गणात् 029c
साध्यं पैतामहं चैव गन्धर्वोरगरक्षसाम् 030a
वैष्णवानि च सर्वाणि नैर्ऋतानि तथैव च 030c
मद्गतानि च यानीह सर्वास्त्राणि कुरूद्वह 030e
अर्जुन उवाच 031
एवमुक्त्वा तु मां शक्रस्तत्रैवान्तरधीयत 031a
अथापश्यं हरियुजं रथमैन्द्रमुपस्थितम् 031c
दिव्यं मायामयं पुण्यं यत्तं मातलिना नृप 031e
लोकपालेषु यातेषु मामुवाचाथ मातलिः 032a
द्रष्टुमिच्छति शक्रस्त्वां देवराजो महाद्युते 032c
संसिद्धस्त्वं महाबाहो कुरु कार्यमनुत्तमम् 033a
पश्य पुण्यकृतां लोकान्सशरीरो दिवं व्रज 033c
इत्युक्तोऽहं मातलिना गिरिमामन्त्र्य शैशिरम् 034a
प्रदक्षिणमुपावृत्य समारोहं रथोत्तमम् 034c
चोदयामास स हयान्मनोमारुतरंहसः 035a
मातलिर्हयशास्त्रज्ञो यथावद्भूरिदक्षिणः 035c
अवैक्षत च मे वक्त्रं स्थितस्याथ स सारथिः 036a
तथा भ्रान्ते रथे राजन्विस्मितश्चेदमब्रवीत् 036c
अत्यद्भुतमिदं मेऽद्य विचित्रं प्रतिभाति माम् 037a
यदास्थितो रथं दिव्यं पदा न चलितो भवान् 037c
देवराजोऽपि हि मया नित्यमत्रोपलक्षितः 038a
विचलन्प्रथमोत्पाते हयानां भरतर्षभ 038c
त्वं पुनः स्थित एवात्र रथे भ्रान्ते कुरूद्वह 039a
अतिशक्रमिदं सत्त्वं तवेति प्रतिभाति मे 039c
इत्युक्त्वाकाशमाविश्य मातलिर्विबुधालयान् 040a
दर्शयामास मे राजन्विमानानि च भारत 040c
नन्दनादीनि देवानां वनानि बहुलान्युत 041a
दर्शयामास मे प्रीत्या मातलिः शक्रसारथिः 041c
ततः शक्रस्य भवनमपश्यममरावतीम् 042a
दिव्यैः कामफलैर्वृक्षै रत्नैश्च समलङ्कृताम् 042c
न तां भासयते सूर्यो न शीतोष्णे न च क्लमः 043a
रजः पङ्को न च तमस्तत्रास्ति न जरा नृप 043c
न तत्र शोको दैन्यं वा वैवर्ण्यं चोपलक्ष्यते 044a
दिवौकसां महाराज न च ग्लानिररिन्दम 044c
न क्रोधलोभौ तत्रास्तामशुभं च विशां पते 045a
नित्यतुष्टाश्च हृष्टाश्च प्राणिनः सुरवेश्मनि 045c
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः 046a
पुष्करिण्यश्च विविधाः पद्मसौगन्धिकायुताः 046c
शीतस्तत्र ववौ वायुः सुगन्धो जीवनः शुचिः 047a
सर्वरत्नविचित्रा च भूमिः पुष्पविभूषिता 047c
मृगद्विजाश्च बहवो रुचिरा मधुरस्वराः 048a
विमानयायिनश्चात्र दृश्यन्ते बहवोऽमराः 048c
ततोऽपश्यं वसून्रुद्रान्साध्यांश्च समरुद्गणान् 049a
आदित्यानश्विनौ चैव तान्सर्वान्प्रत्यपूजयम् 049c
ते मां वीर्येण यशसा तेजसा च बलेन च 050a
अस्त्रैश्चाप्यन्वजानन्त सङ्ग्रामविजयेन च 050c
प्रविश्य तां पुरीं रम्यां देवगन्धर्वसेविताम् 051a
देवराजं सहस्राक्षमुपातिष्ठं कृताञ्जलिः 051c
ददावर्धासनं प्रीतः शक्रो मे ददतां वरः 052a
बहुमानाच्च गात्राणि पस्पर्श मम वासवः 052c
तत्राहं देवगन्धर्वैः सहितो भुरिदक्षिण 053a
अस्त्रार्थमवसं स्वर्गे कुर्वाणोऽस्त्राणि भारत 053c
विश्वावसोश्च मे पुत्रश्चित्रसेनोऽभवत्सखा 054a
स च गान्धर्वमखिलं ग्राहयामास मां नृप 054c
ततोऽहमवसं राजन्गृहीतास्त्रः सुपूजितः 055a
सुखं शक्रस्य भवने सर्वकामसमन्वितः 055c
शृण्वन्वै गीतशब्दं च तूर्यशब्दं च पुष्कलम् 056a
पश्यंश्चाप्सरसः श्रेष्ठा नृत्यमानाः परन्तप 056c
तत्सर्वमनवज्ञाय तथ्यं विज्ज्ञाय भारत 057a
अत्यर्थं प्रतिगृह्याहमस्त्रेष्वेव व्यवस्थितः 057c
ततोऽतुष्यत्सहस्राक्षस्तेन कामेन मे विभुः 058a
एवं मे वसतो राजन्नेष कालोऽत्यगाद्दिवि 058c