वैशम्पायन उवाच 001
यथागतं गते शक्रे भ्रातृभिः सह सङ्गतः 001a
कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् 001c
अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् 002a
हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् 002c
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव 003a
कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः 003c
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत 004a
कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव 004c
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् 005a
यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते 005c
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिन्दम 006a
कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् 006c
एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते 006e
यथा तुष्टो महादेवो देवराजश्च तेऽनघ 007a
यच्चापि वज्रपाणेस्ते प्रियं कृतमरिन्दम 007c
एतदाख्याहि मे सर्वमखिलेन धनञ्जय 007e
अर्जुन उवाच 008
शृणु हन्त महाराज विधिना येन दृष्टवान् 008a
शतक्रतुमहं देवं भगवन्तं च शङ्करम् 008c
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन 009a
भवता च समादिष्टस्तपसे प्रस्थितो वनम् 009c
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः 010a
एकरात्रोषितः कञ्चिदपश्यं ब्राह्मणं पथि 010c
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे 011a
तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन 011c
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम 012a
अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि 012c
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत 013a
तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् 013c
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् 014a
तपोऽतप्यं महाराज मासं मूलफलाशनः 014c
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः 015a
निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन 015c
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा 016a
न च मे हीयते प्राणस्तदद्भुतमिवाभवत् 016c
चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते 017a
वराहसंस्थितं भूतं मत्समीपमुपागमत् 017c
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि 018a
सम्मार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः 018c
अनु तस्यापरं भूतं महत्कैरातसंस्थितम् 019a
धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा 019c
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी 020a
अताडयं शरेणाथ तद्भूतं लोमहर्षणम् 020c
युगपत्तत्किरातश्च विकृष्य बलवद्धनुः 021a
अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः 021c
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः 022a
मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया 022c
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव 023a
स वर्ष्मवान्महाकायस्ततो मामभ्यधावत 023c
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः 024a
तं चाहं शरवर्षेण महता समवाकिरम् 024c
ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः 025a
प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् 025c
तस्य तच्छतधा रूपमभवच्च सहस्रधा 026a
तानि चास्य शरीराणि शरैरहमताडयम् 026c
पुनस्तानि शरीराणि एकीभूतानि भारत 027a
अदृश्यन्त महाराज तान्यहं व्यधमं पुनः 027c
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः 028a
एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि 028c
यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे 029a
ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ 029c
न चैनमशकं हन्तुं तदद्भुतमिवाभवत् 030a
तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् 030c
भूयश्चैव महाराज सविशेषमहं ततः 031a
अस्त्रपूगेन महता रणे भूतमवाकिरम् 031c
स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् 032a
शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् 032c
जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ 032e
तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् 033a
ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत 033c
उपचीयमानश्च मया महास्त्रेण व्यवर्धत 033e
ततः सन्तापितो लोको मत्प्रसूतेन तेजसा 034a
क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् 034c
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् 035a
ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् 035c
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी 036a
सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् 036c
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च 037a
मम तस्य च भूतस्य बाहुयुद्धमवर्तत 037c
व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ 038a
अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् 038c
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत 039a
सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् 039c
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः 040a
दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् 040c
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः 041a
स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः 041c
अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः 042a
उमासहायो हरिदृग्बहुरूपः पिनाकधृक् 042c
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् 043a
शूलपाणिरथोवाच तुष्टोऽस्मीति परन्तप 043c
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ 044a
प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् 044c
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते 045a
यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् 045c
अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् 045e
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः 046a
प्रणम्य शिरसा शर्वं ततो वचनमाददे 046c
भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम 047a
अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् 047c
ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् 047e
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव 048a
प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः 048c
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् 049a
न प्रयोज्यं भवेदेतन्मानुषेषु कथञ्चन 049c
पीड्यमानेन बलवत्प्रयोज्यं ते धनञ्जय 050a
अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः 050c
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् 051a
मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे 051c
उत्सादनममित्राणां परसेनानिकर्तनम् 052a
दुरासदं दुष्प्रहसं सुरदानवराक्षसैः 052c
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् 053a
प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत 053c