वैशम्पायन उवाच 001
एतस्मिन्नेव काले तु सर्ववादित्रनिस्वनः 001a
बभूव तुमुलः शब्दस्त्वन्तरिक्षे दिवौकसाम् 001c
रथनेमिस्वनश्चैव घण्टाशब्दश्च भारत 002a
पृथग्व्यालमृगाणां च पक्षिणां चैव सर्वशः 002c
तं समन्तादनुययुर्गन्धर्वाप्सरसस्तथा 003a
विमानैः सूर्यसङ्काशैर्देवराजमरिन्दमम् 003c
ततः स हरिभिर्युक्तं जाम्बूनदपरिष्कृतम् 004a
मेघनादिनमारुह्य श्रिया परमया ज्वलन् 004c
पार्थानभ्याजगामाशु देवराजः पुरन्दरः 005a
आगत्य च सहस्राक्षो रथादवरुरोह वै 005c
तं दृष्ट्वैव महात्मानं धर्मराजो युधिष्ठिरः 006a
भ्रातृभिः सहितः श्रीमान्देवराजमुपागमत् 006c
पूजयामास चैवाथ विधिवद्भूरिदक्षिणः 007a
यथार्हममितात्मानं विधिदृष्टेन कर्मणा 007c
धनञ्जयश्च तेजस्वी प्रणिपत्य पुरन्दरम् 008a
भृत्यवत्प्रणतस्तस्थौ देवराजसमीपतः 008c
आप्यायत महातेजाः कुन्तीपुत्रो युधिष्ठिरः 009a
धनञ्जयमभिप्रेक्ष्य विनीतं स्थितमन्तिके 009c
जटिलं देवराजस्य तपोयुक्तमकल्मषम् 010a
हर्षेण महताविष्टः फल्गुनस्याथ दर्शनात् 010c
तं तथादीनमनसं राजानं हर्षसम्प्लुतम् 011a
उवाच वचनं धीमान्देवराजः पुरन्दरः 011c
त्वमिमां पृथिवीं राजन्प्रशासिष्यसि पाण्डव 012a
स्वस्ति प्राप्नुहि कौन्तेय काम्यकं पुनराश्रमम् 012c
अस्त्राणि लब्धानि च पाण्डवेन सर्वाणि मत्तः प्रयतेन राजन् 013a
कृतप्रियश्चास्मि धनञ्जयेन जेतुं न शक्यस्त्रिभिरेष लोकैः 013c
एवमुक्त्वा सहस्राक्षः कुन्तीपुत्रं युधिष्ठिरम् 014a
जगाम त्रिदिवं हृष्टः स्तूयमानो महर्षिभिः 014c
धनेश्वरगृहस्थानां पाण्डवानां समागमम् 015a
शक्रेण य इमं विद्वानधीयीत समाहितः 015c
संवत्सरं ब्रह्मचारी नियतः संशितव्रतः 016a
स जीवेत निराबाधः सुसुखी शरदां शतम् 016c