वैशम्पायन उवाच 001
तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम् 001a
रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य 001c
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वांस्तेजस्विनः सत्यधृतिप्रधानान् 002a
सम्प्रीयमाणा बहवोऽभिजग्मुर्गन्धर्वसङ्घाश्च महर्षयश्च 002c
तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम् 003a
मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् 003c
मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य 004a
शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः 004c
साक्षात्कुबेरेण कृताश्च तस्मिन्नगोत्तमे संवृतकूलरोधसः 005a
कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन् 005c
क्रीडाप्रदेशांश्च समृद्धरूपान्सुचित्रमाल्यावृतजातशोभान् 006a
मणिप्रवेकान्सुमनोहरांश्च यथा भवेयुर्धनदस्य राज्ञः 006c
अनेकवर्णैश्च सुगन्धिभिश्च महाद्रुमैः सन्ततमभ्रमालिभिः 007a
तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः 007c
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात् 008a
विभक्तभावो न बभूव कश्चिदहर्निशानां पुरुषप्रवीर 008c
यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः 009a
तस्योदयं चास्तमयं च वीरास्तत्र स्थितास्ते ददृशुर्नृसिंहाः 009c
रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमयं च वीराः 010a
समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च 010c
स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च 011a
सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः 011c
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनञ्जयेन 012a
इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः 012c
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम् 013a
बभूव रात्रिर्दिवसश्च तेषां संवत्सरेणैव समानरूपः 013c
यदैव धौम्यानुमते महात्मा कृत्वा जटाः प्रव्रजितः स जिष्णुः 014a
तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम् 014c
भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी 015a
यत्काम्यकात्प्रव्रजितः स जिष्णुस्तदैव ते शोकहता बभूवुः 015c
तथा तु तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम् 016a
मासोऽथ कृच्छ्रेण तदा व्यतीतस्तस्मिन्नगे भारत भारतानाम् 016c
ततः कदाचिद्धरिसम्प्रयुक्तं महेन्द्रवाहं सहसोपयातम् 017a
विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव 017c
स दीप्यमानः सहसान्तरिक्षं प्रकाशयन्मातलिसङ्गृहीतः 018a
बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा 018c
तमास्थितः सन्ददृशे किरीटी स्रग्वी वराण्याभरणानि बिभ्रत् 019a
धनञ्जयो वज्रधरप्रभावः श्रिया ज्वलन्पर्वतमाजगाम 019c
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात् 020a
धौम्यस्य पादावभिवाद्य पूर्वमजातशत्रोस्तदनन्तरं च 020c
वृकोदरस्यापि ववन्द पादौ माद्रीसुताभ्यामभिवादितश्च 021a
समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः 021c
बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समागतानाम् 022a
स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन् 022c
यमास्थितः सप्त जघान पूगान्दितेः सुतानां नमुचेर्निहन्ता 023a
तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्त्वाः 023c
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम् 024a
सर्वं यथावच्च दिवौकसस्तान्पप्रच्छुरेनं कुरुराजपुत्राः 024c
तानप्यसौ मातलिरभ्यनन्दत्पितेव पुत्राननुशिष्य चैनान् 025a
ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य 025c
गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी 026a
शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति 026c
दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे 026e
ततः स तेषां कुरुपुङ्गवानां तेषां च सूर्याग्निसमप्रभाणाम् 027a
विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयां बभूव 027c
एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात् 028a
तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः 028c
सङ्क्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवेशम् 029a
माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः 029c