वैशम्पायन उवाच 001
ततः सूर्योदये धौम्यः कृत्वाह्निकमरिन्दम 001a
आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत 001c
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह 002a
ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् 002c
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे 003a
प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् 003c
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति 004a
शैलराजो महाराज मन्दरोऽभिविराजते 004c
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः 005a
पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् 005c
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च 006a
ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः 006c
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः 007a
ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः 007c
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः 008a
प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् 008c
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् 009a
प्रेतराजस्य भवनमृद्ध्या परमया युतम् 009c
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति 010a
अस्तं पर्वतराजानमेतमाहुर्मनीषिणः 010c
एतं पर्वतराजानं समुद्रं च महोदधिम् 011a
आवसन्वरुणो राजा भूतानि परिरक्षति 011c
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् 012a
महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः 012c
यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः 013a
भूतात्मा विसृजन्सर्वं यत्किञ्चिज्जङ्गमागमम् 013c
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् 014a
तेषामपि महामेरुः स्थानं शिवमनामयम् 014c
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च 015a
सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा 015c
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् 016a
यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः 016c
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् 017a
अनादिनिधनं देवं प्रभुं नारायणं परम् 017c
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते 018a
देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् 018c
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः 019a
स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः 019c
तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च 020a
स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते 020c
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् 021a
परेण तपसा युक्ता भाविताः कर्मभिः शुभैः 021c
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः 022a
तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत 022c
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् 023a
ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर 023c
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि 024a
कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् 024c
अस्तं प्राप्य ततः सन्ध्यामतिक्रम्य दिवाकरः 025a
उदीचीं भजते काष्ठां दिशमेष विभावसुः 025c
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव 026a
प्राङ्मुखः सविता देवः सर्वभूतहिते रतः 026c
स मासं विभजन्कालं बहुधा पर्वसन्धिषु 027a
तथैव भगवान्सोमो नक्षत्रैः सह गच्छति 027c
एवमेष परिक्रम्य महामेरुमतन्द्रितः 028a
भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् 028c
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् 029a
मार्गमेतदसम्बाधमादित्यः परिवर्तते 029c
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् 030a
ततः सर्वाणि भूतानि कालः शिशिरमृच्छति 030c
स्थावराणां च भूतानां जङ्गमानां च तेजसा 031a
तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः 031c
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् 032a
प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते 032c
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् 033a
पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः 033c
वृष्टिमारुतसन्तापैः सुखैः स्थावरजङ्गमान् 034a
वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते 034c
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः 035a
प्रकर्षन्सर्वभूतानि सविता परिवर्तते 035c
सन्तता गतिरेतस्य नैष तिष्ठति पाण्डव 036a
आदायैव तु भूतानां तेजो विसृजते पुनः 036c
विभजन्सर्वभूतानामायुः कर्म च भारत 037a
अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः 037c