वैश्रवण उवाच 001
युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः 001a
लोकतन्त्रविधानानामेष पञ्चविधो विधिः 001c
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत 002a
पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् 002c
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् 003a
क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै 003c
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु 004a
स लोके लभते वीर यशः प्रेत्य च सद्गतिम् 004c
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् 005a
सम्प्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह 005c
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते 006a
कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति 006c
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् 007a
वृथाचारसमारम्भः प्रेत्य चेह च नश्यति 007c
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् 008a
सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः 008c
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः 009a
निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ 009c
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् 010a
तामिस्रं प्रथमं पक्षं वीतशोकभयो वस 010c
अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः 011a
मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः 011c
रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः 011e
साहसेषु च सन्तिष्ठन्निह शैले वृकोदरः 012a
वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर 012c
इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः 013a
उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः 013c
तथैव चान्नपानानि स्वादूनि च बहूनि च 014a
उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ 014c
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः 015a
धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः 015c
आत्मजावात्मसम्पन्नौ यमौ चोभौ यथाश्विनोः 016a
रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर 016c
अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् 017a
भीमसेनादवरजः फल्गुनः कुशली दिवि 017c
याः काश्चन मता लोकेष्वग्र्याः परमसम्पदः 018a
जन्मप्रभृति ताः सर्वाः स्थितास्तात धनञ्जये 018c
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् 019a
एतान्यपि महासत्त्वे स्थितान्यमिततेजसि 019c
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् 020a
न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु 020c
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः 021a
मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत 021c
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् 022a
स शन्तनुर्महातेजाः पितुस्तव पितामहः 022c
प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना 022e
सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः 023a
पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः 023c
सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति 023e
अधिराजः स राजंस्त्वां शन्तनुः प्रपितामहः 024a
स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति 024c
वैशम्पायन उवाच 025
ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ 025a
प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः 025c
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् 026a
मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः 026c
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः 027a
कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः 027c
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः 028a
साक्षान्मघवता सृष्टः सम्प्राप्स्यति धनञ्जयः 028c
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् 029a
अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः 029c
तं परिस्तोमसङ्कीर्णैर्नानारत्नविभूषितैः 030a
यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः 030c
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति 031a
बभूव परमाश्वानामैरावतपथे यताम् 031c
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः 032a
प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् 032c
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् 033a
अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् 033c
तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता 034a
समरे निहतास्तस्मात्सर्वे मणिमता सह 034c
पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् 035a
सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः 035c