वैशम्पायन उवाच 001
श्रुत्वा बहुविधैः शब्दैर्नाद्यमाना गिरेर्गुहाः 001a
अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि 001c
धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा 002a
भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् 002c
द्रौपदीमार्ष्टिषेणाय प्रदाय तु महारथाः 003a
सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा 003c
ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः 004a
ददृशुस्ते महेष्वासा भीमसेनमरिन्दमम् 004c
स्फुरतश्च महाकायान्गतसत्त्वांश्च राक्षसान् 005a
महाबलान्महाघोरान्भीमसेनेन पातितान् 005c
शुशुभे स महाबाहुर्गदाखड्गधनुर्धरः 006a
निहत्य समरे सर्वान्दानवान्मघवानिव 006c
ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् 007a
तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् 007c
तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत 008a
लोकपालैर्महाभागैर्दिवं देववरैरिव 008c
कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् 009a
भ्राता भ्रातरमासीनमभ्यभाषत पाण्डवम् 009c
साहसाद्यदि वा मोहाद्भीम पापमिदं कृतम् 010a
नैतत्ते सदृशं वीर मुनेरिव मृषावचः 010c
राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः 011a
त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् 011c
अर्थधर्मावनादृत्य यः पापे कुरुते मनः 012a
कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् 012c
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् 012e
एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् 013a
अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः 013c
विरराम महातेजास्तमेवार्थं विचिन्तयन् 013e
ततस्तु हतशिष्टा ये भीमसेनेन राक्षसाः 014a
सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति 014c
ते जवेन महावेगाः प्राप्य वैश्रवणालयम् 015a
भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः 015c
न्यस्तशस्त्रायुधाः श्रान्ताः शोणिताक्तपरिच्छदाः 016a
प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् 016c
गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः 017a
राक्षसा निहताः सर्वे तव देव पुरःसराः 017c
प्रमृद्य तरसा शैलं मानुषेण धनेश्वर 018a
एकेन सहिताः सङ्ख्ये हताः क्रोधवशा गणाः 018c
प्रवरा रक्षसेन्द्राणां यक्षाणां च धनाधिप 019a
शेरते निहता देव गतसत्त्वाः परासवः 019c
लब्धः शैलो वयं मुक्ता मणिमांस्ते सखा हतः 020a
मानुषेण कृतं कर्म विधत्स्व यदनन्तरम् 020c
स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः 021a
कोपसंरक्तनयनः कथमित्यब्रवीद्वचः 021c
द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः 022a
चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् 022c
अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् 023a
हयैः संयोजयामासुर्गान्धर्वैरुत्तमं रथम् 023c
तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः 024a
तेजोबलजवोपेता नानारत्नविभूषिताः 024c
शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः 025a
हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः 025c
स तमास्थाय भगवान्राजराजो महारथम् 026a
प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः 026c
तं प्रयान्तं महात्मानं सर्वयक्षधनाधिपम् 027a
रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः 027c
सायुधा बद्धनिस्त्रिंशा यक्षा दशशतायुताः 028a
जवेन महता वीराः परिवार्योपतस्थिरे 028c
तं महान्तमुपायान्तं धनेश्वरमुपान्तिके 029a
ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् 029c
कुबेरस्तु महासत्त्वान्पाण्डोः पुत्रान्महारथान् 030a
आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा 030c
ते पक्षिण इवोत्पत्य गिरेः शृङ्गं महाजवाः 031a
तस्थुस्तेषां समभ्याशे धनेश्वरपुरःसराः 031c
ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत 032a
समीक्ष्य यक्षगन्धर्वा निर्विकारा व्यवस्थिताः 032c
पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् 033a
नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् 033c
अपराद्धमिवात्मानं मन्यमाना महारथाः 034a
तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् 034c
शय्यासनवरं श्रीमत्पुष्पकं विश्वकर्मणा 035a
विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः 035c
तमासीनं महाकायाः शङ्कुकर्णा महाजवाः 036a
उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः 036c
शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः 037a
परिवार्योपतिष्ठन्त यथा देवाः शतक्रतुम् 037c
काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् 038a
बाणखड्गधनुष्पाणिरुदैक्षत धनाधिपम् 038c
न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः 039a
आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः 039c
आददानं शितान्बाणान्योद्धुकाममवस्थितम् 040a
दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः 040c
विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् 041a
निर्भयश्चापि शैलाग्रे वस त्वं सह बन्धुभिः 041c
न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव 042a
कालेनैते हताः पूर्वं निमित्तमनुजस्तव 042c
व्रीडा चात्र न कर्तव्या साहसं यदिदं कृतम् 043a
दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् 043c
न भीमसेने कोपो मे प्रीतोऽस्मि भरतर्षभ 044a
कर्मणानेन भीमस्य मम तुष्टिरभूत्पुरा 044c
एवमुक्त्वा तु राजानं भीमसेनमभाषत 045a
नैतन्मनसि मे तात वर्तते कुरुसत्तम 045c
यदिदं साहसं भीम कृष्णार्थे कृतवानसि 045e
मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् 046a
स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि 046c
शापादस्मि विनिर्मुक्तो घोरादद्य वृकोदर 046e
अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा 047a
शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिः कृता 047c
दृष्टो हि मम सङ्क्लेशः पुरा पाण्डवनन्दन 048a
न तवात्रापराधोऽस्ति कथञ्चिदपि शत्रुहन् 048c
युधिष्ठिर उवाच 049
कथं शप्तोऽसि भगवन्नगस्त्येन महात्मना 049a
श्रोतुमिच्छाम्यहं देव तवैतच्छापकारणम् 049c
इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः 050a
तदैव त्वं न निर्दग्धः सबलः सपदानुगः 050c
वैश्रवण उवाच 051
देवतानामभून्मन्त्रः कुशवत्यां नरेश्वर 051a
वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः 051c
यक्षाणां घोररूपाणां विविधायुधधारिणाम् 051e
अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् 052a
उग्रं तपस्तपस्यन्तं यमुनातीरमाश्रितम् 052c
नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् 052e
तमूर्ध्वबाहुं दृष्ट्वा तु सूर्यस्याभिमुखं स्थितम् 053a
तेजोराशिं दीप्यमानं हुताशनमिवैधितम् 053c
राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा 054a
मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च भारत 054c
न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि 054e
स कोपान्मामुवाचेदं दिशः सर्वा दहन्निव 055a
मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव 055c
धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर 056a
तस्मात्सहैभिः सैन्यैस्ते वधं प्राप्स्यति मानुषात् 056c
त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्स्यसि दुर्मते 057a
तमेव मानुषं दृष्ट्वा किल्बिषाद्विप्रमोक्ष्यसे 057c
सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् 058a
न शापं प्राप्स्यते घोरं गच्छ तेऽऽज्ञां करिष्यति 058c
एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् 059a
स भीमेन महाराज भ्रात्रा तव विमोक्षितः 059c