जनमेजय उवाच 001
पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः 001a
कियन्तं कालमवसन्पर्वते गन्धमादने 001c
कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् 002a
वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम 002c
विस्तरेण च मे शंस भीमसेनपराक्रमम् 003a
यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ 003c
न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम 003e
कच्चित्समागमस्तेषामासीद्वैश्रवणेन च 004a
तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् 004c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन 005a
न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् 005c
वैशम्पायन उवाच 006
एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः 006a
शासनं सततं चक्रुस्तथैव भरतर्षभाः 006c
भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च 007a
शुद्धबाणहतानां च मृगाणां पिशितान्यपि 007c
मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च 008a
एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः 008c
तथा निवसतां तेषां पञ्चमं वर्षमभ्यगात् 009a
शृण्वतां लोमशोक्तानि वाक्यानि विविधानि च 009c
कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः 010a
राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो 010c
आर्ष्टिषेणाश्रमे तेषां वसतां वै महात्मनाम् 011a
अगच्छन्बहवो मासाः पश्यतां महदद्भुतम् 011c
तैस्तत्र रममाणैश्च विहरद्भिश्च पाण्डवैः 012a
प्रीतिमन्तो महाभागा मुनयश्चारणास्तथा 012c
आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः 013a
तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः 013c
ततः कतिपयाहस्य महाह्रदनिवासिनम् 014a
ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् 014c
प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः 015a
ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् 015c
ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः 016a
अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च 016c
तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः 017a
ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी 017c
भीमसेनं ततः कृष्णा काले वचनमब्रवीत् 018a
विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् 018c
सुपर्णानिलवेगेन श्वसनेन महाबलात् 019a
पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ 019c
प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति 019e
खाण्डवे सत्यसन्धेन भ्रात्रा तव नरेश्वर 020a
गन्धर्वोरगरक्षांसि वासवश्च निवारितः 020c
हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् 020e
तवापि सुमहत्तेजो महद्बाहुबलं च ते 021a
अविषह्यमनाधृष्यं शतक्रतुबलोपमम् 021c
त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः 022a
हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश 022c
ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् 023a
व्यपेतभयसम्मोहाः पश्यन्तु सुहृदस्तव 023c
एवं प्रणिहितं भीम चिरात्प्रभृति मे मनः 024a
द्रष्टुमिच्छामि शैलाग्रं त्वद्बाहुबलमाश्रिता 024c
ततः क्षिप्तमिवात्मानं द्रौपद्या स परन्तपः 025a
नामृष्यत महाबाहुः प्रहारमिव सद्गवः 025c
सिंहर्षभगतिः श्रीमानुदारः कनकप्रभः 026a
मनस्वी बलवान्दृप्तो मानी शूरश्च पाण्डवः 026c
लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः 027a
सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः 027c
महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः 028a
रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् 028c
केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः 029a
व्यपेतभयसम्मोहः शैलमभ्यपतद्बली 029c
तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् 030a
ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् 030c
द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः 031a
व्यपेतभयसम्मोहः शैलराजं समाविशत् 031c
न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः 032a
कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः 032c
तदेकायनमासाद्य विषमं भीमदर्शनम् 033a
बहुतालोच्छ्रयं शृङ्गमारुरोह महाबलः 033c
स किन्नरमहानागमुनिगन्धर्वराक्षसान् 034a
हर्षयन्पर्वतस्याग्रमाससाद महाबलः 034c
तत्र वैश्रवणावासं ददर्श भरतर्षभः 035a
काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलङ्कृतम् 035c
मोदयन्सर्वभूतानि गन्धमादनसम्भवः 036a
सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ 036c
चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः 037a
अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः 037c
रत्नजालपरिक्षिप्तं चित्रमाल्यधरं शिवम् 038a
राक्षसाधिपतेः स्थानं ददर्श भरतर्षभः 038c
गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः 039a
भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः 039c
ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् 040a
ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् 040c
ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः 041a
यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः 041c
गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः 042a
प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः 042c
ततः प्रववृते युद्धं तेषां तस्य च भारत 043a
तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् 043c
भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः 043e
अन्तरिक्षचराणां च भूमिष्ठानां च गर्जताम् 044a
शरैर्विव्याध गात्राणि राक्षसानां महाबलः 044c
सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् 045a
कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः 045c
भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् 046a
विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च 046c
प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् 047a
ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव 047c
स रश्मिभिरिवादित्यः शरैररिनिघातिभिः 048a
सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः 048c
अभितर्जयमानाश्च रुवन्तश्च महारवान् 049a
न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः 049c
ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः 050a
भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः 050c
उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् 051a
दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना 051c
तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः 052a
सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः 052c
अदर्शयदधीकारं पौरुषं च महाबलः 053a
स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् 053c
एकेन बहवः सङ्ख्ये मानुषेण पराजिताः 054a
प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् 054c
एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः 055a
शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् 055c
तमापतन्तं वेगेन प्रभिन्नमिव वारणम् 056a
वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् 056c
मणिमानपि सङ्क्रुद्धः प्रगृह्य महतीं गदाम् 057a
प्राहिणोद्भीमसेनाय परिक्षिप्य महाबलः 057c
विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् 058a
शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः 058c
प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः 059a
न वेगं धारयामासुर्गदावेगस्य वेगिताः 059c
गदायुद्धसमाचारं बुध्यमानः स वीर्यवान् 060a
व्यंसयामास तं तस्य प्रहारं भीमविक्रमः 060c
ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् 061a
तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः 061c
सा भुजं भीमनिर्ह्रादा भित्त्वा भीमस्य दक्षिणम् 062a
साग्निज्वाला महारौद्रा पपात सहसा भुवि 062c
सोऽतिविद्धो महेष्वासः शक्त्यामितपराक्रमः 063a
गदां जग्राह कौरव्यो गदायुद्धविशारदः 063c
तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् 064a
तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् 064c
दीप्यमानं महाशूलं प्रगृह्य मणिमानपि 065a
प्राहिणोद्भीमसेनाय वेगेन महता नदन् 065c
भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः 066a
अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् 066c
सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् 067a
प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि 067c
सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा 068a
हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह 068c
तं राक्षसं भीमबलं भीमसेनेन पातितम् 069a
ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् 069c
तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः 070a
भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति 070c