वैशम्पायन उवाच 001
युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् 001a
अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् 001c
ततः कृष्णा च भीमश्च यमौ चापि यशस्विनौ 002a
शिरोभिः प्राप्य राजर्षिं परिवार्योपतस्थिरे 002c
तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः 003a
यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् 003c
अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा 004a
पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् 004c
कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः 005a
सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् 005c
नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे 006a
मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति 006c
कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः 007a
कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु 007c
सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् 008a
यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे 008c
यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः 009a
वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे 009c
कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते 010a
दानधर्मतपःशौचैरार्जवेन तितिक्षया 010c
पितृपैतामहं वृत्तं कच्चित्पार्थानुवर्तसे 011a
कच्चिद्राजर्षियातेन पथा गच्छसि पाण्डव 011c
स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः 012a
पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च 012c
किं न्वस्य दुष्कृतेऽस्माभिः सम्प्राप्तव्यं भविष्यति 013a
किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् 013c
पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः 014a
यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ 014c
अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा 015a
जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसन्धिषु 015c
कामिनः सह कान्ताभिः परस्परमनुव्रताः 016a
दृश्यन्ते शैलशृङ्गस्थास्तथा किम्पुरुषा नृप 016c
अरजांसि च वासांसि वसानाः कौशिकानि च 017a
दृश्यन्ते बहवः पार्थ गन्धर्वाप्सरसां गणाः 017c
विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः 018a
महोरगगणाश्चैव सुपर्णाश्चोरगादयः 018c
अस्य चोपरि शैलस्य श्रूयते पर्वसन्धिषु 019a
भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः 019c
इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः 020a
न कार्या वः कथञ्चित्स्यात्तत्राभिसरणे मतिः 020c
न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः 021a
विहारो ह्यत्र देवानाममानुषगतिस्तु सा 021c
ईषच्चपलकर्माणं मनुष्यमिह भारत 022a
द्विषन्ति सर्वभूतानि ताडयन्ति च राक्षसाः 022c
अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर 023a
गतिः परमसिद्धानां देवर्षीणां प्रकाशते 023c
चापलादिह गच्छन्तं पार्थ यानमतः परम् 024a
अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन 024c
अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः 025a
इह वैश्रवणस्तात पर्वसन्धिषु दृश्यते 025c
शिखरे तं समासीनमधिपं सर्वरक्षसाम् 026a
प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् 026c
देवदानवसिद्धानां तथा वैश्रवणस्य च 027a
गिरेः शिखरमुद्यानमिदं भरतसत्तम 027c
उपासीनस्य धनदं तुम्बुरोः पर्वसन्धिषु 028a
गीतसामस्वनस्तात श्रूयते गन्धमादने 028c
एतदेवंविधं चित्रमिह तात युधिष्ठिर 029a
प्रेक्षन्ते सर्वभूतानि बहुशः पर्वसन्धिषु 029c
भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च 030a
वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् 030c
न तात चपलैर्भाव्यमिह प्राप्तैः कथञ्चन 031a
उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च 031c
ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि 031e