वैशम्पायन उवाच 001
निहते राक्षसे तस्मिन्पुनर्नारायणाश्रमम् 001a
अभ्येत्य राजा कौन्तेयो निवासमकरोत्प्रभुः 001c
स समानीय तान्सर्वान्भ्रातॄनित्यब्रवीद्वचः 002a
द्रौपद्या सहितान्काले संस्मरन्भ्रातरं जयम् 002c
समाश्चतस्रोऽभिगताः शिवेन चरतां वने 003a
कृतोद्देशश्च बीभत्सुः पञ्चमीमभितः समाम् 003c
प्राप्य पर्वतराजानं श्वेतं शिखरिणां वरम् 004a
तत्रापि च कृतोद्देशः समागमदिदृक्षुभिः 004c
कृतश्च समयस्तेन पार्थेनामिततेजसा 005a
पञ्च वर्षाणि वत्स्यामि विद्यार्थीति पुरा मयि 005c
तत्र गाण्डीवधन्वानमवाप्तास्त्रमरिन्दमम् 006a
देवलोकादिमं लोकं द्रक्ष्यामः पुनरागतम् 006c
इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः 007a
कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् 007c
तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् 008a
ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च 008c
सुखोदर्कमिमं क्लेशमचिराद्भरतर्षभ 009a
क्षत्रधर्मेण धर्मज्ञ तीर्त्वा गां पालयिष्यसि 009c
तत्तु राजा वचस्तेषां प्रतिगृह्य तपस्विनाम् 010a
प्रतस्थे सह विप्रैस्तैर्भ्रातृभिश्च परन्तपः 010c
द्रौपद्या सहितः श्रीमान्हैडिम्बेयादिभिस्तथा 011a
राक्षसैरनुयातश्च लोमशेनाभिरक्षितः 011c
क्वचिज्जगाम पद्भ्यां तु राक्षसैरुह्यते क्वचित् 012a
तत्र तत्र महातेजा भ्रातृभिः सह सुव्रतः 012c
ततो युधिष्ठिरो राजा बहून्क्लेशान्विचिन्तयन् 013a
सिंहव्याघ्रगजाकीर्णामुदीचीं प्रययौ दिशम् 013c
अवेक्षमाणः कैलासं मैनाकं चैव पर्वतम् 014a
गन्धमादनपादांश्च मेरुं चापि शिलोच्चयम् 014c
उपर्युपरि शैलस्य बह्वीश्च सरितः शिवाः 015a
प्रस्थं हिमवतः पुण्यं ययौ सप्तदशेऽहनि 015c
ददृशुः पाण्डवा राजन्गन्धमादनमन्तिकात् 016a
पृष्ठे हिमवतः पुण्ये नानाद्रुमलतायुते 016c
सलिलावर्तसञ्जातैः पुष्पितैश्च महीरुहैः 017a
समावृतं पुण्यतममाश्रमं वृषपर्वणः 017c
तमुपक्रम्य राजर्षिं धर्मात्मानमरिन्दमाः 018a
पाण्डवा वृषपर्वाणमवन्दन्त गतक्लमाः 018c
अभ्यनन्दत्स राजर्षिः पुत्रवद्भरतर्षभान् 019a
पूजिताश्चावसंस्तत्र सप्तरात्रमरिन्दमाः 019c
अष्टमेऽहनि सम्प्राप्ते तमृषिं लोकविश्रुतम् 020a
आमन्त्र्य वृषपर्वाणं प्रस्थानं समरोचयन् 020c
एकैकशश्च तान्विप्रान्निवेद्य वृषपर्वणे 021a
न्यासभूतान्यथाकालं बन्धूनिव सुसत्कृतान् 021c
ततस्ते वरवस्त्राणि शुभान्याभरणानि च 022a
न्यदधुः पाण्डवास्तस्मिन्नाश्रमे वृषपर्वणः 022c
अतीतानागते विद्वान्कुशलः सर्वधर्मवित् 023a
अन्वशासत्स धर्मज्ञः पुत्रवद्भरतर्षभान् 023c
तेऽनुज्ञाता महात्मानः प्रययुर्दिशमुत्तराम् 024a
कृष्णया सहिता वीरा ब्राह्मणैश्च महात्मभिः 024c
तान्प्रस्थितानन्वगच्छद्वृषपर्वा महीपतिः 024e
उपन्यस्य महातेजा विप्रेभ्यः पाण्डवांस्तदा 025a
अनुसंसाध्य कौन्तेयानाशीर्भिरभिनन्द्य च 025c
वृषपर्वा निववृते पन्थानमुपदिश्य च 025e
नानामृगगणैर्जुष्टं कौन्तेयः सत्यविक्रमः 026a
पदातिर्भ्रातृभिः सार्धं प्रातिष्ठत युधिष्ठिरः 026c
नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु 027a
पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः 027c
महाभ्रघनसङ्काशं सलिलोपहितं शुभम् 028a
मणिकाञ्चनरम्यं च शैलं नानासमुच्छ्रयम् 028c
ते समासाद्य पन्थानं यथोक्तं वृषपर्वणा 029a
अनुसस्रुर्यथोद्देशं पश्यन्तो विविधान्नगान् 029c
उपर्युपरि शैलस्य गुहाः परमदुर्गमाः 030a
सुदुर्गमांस्ते सुबहून्सुखेनैवाभिचक्रमुः 030c
धौम्यः कृष्णा च पार्थाश्च लोमशश्च महानृषिः 031a
अगमन्सहितास्तत्र न कश्चिदवहीयते 031c
ते मृगद्विजसङ्घुष्टं नानाद्विजसमाकुलम् 032a
शाखामृगगणैश्चैव सेवितं सुमनोहरम् 032c
पुण्यं पद्मसरोपेतं सपल्वलमहावनम् 033a
उपतस्थुर्महावीर्या माल्यवन्तं महागिरिम् 033c
ततः किम्पुरुषावासं सिद्धचारणसेवितम् 034a
ददृशुर्हृष्टरोमाणः पर्वतं गन्धमादनम् 034c
विद्याधरानुचरितं किन्नरीभिस्तथैव च 035a
गजसिंहसमाकीर्णमुदीर्णशरभायुतम् 035c
उपेतमन्यैश्च तदा मृगैर्मृदुनिनादिभिः 036a
ते गन्धमादनवनं तन्नन्दनवनोपमम् 036c
मुदिताः पाण्डुतनया मनोहृदयनन्दनम् 037a
विविशुः क्रमशो वीरा अरण्यं शुभकाननम् 037c
द्रौपदीसहिता वीरास्तैश्च विप्रैर्महात्मभिः 038a
शृण्वन्तः प्रीतिजननान्वल्गून्मदकलाञ्शुभान् 038c
श्रोत्ररम्यान्सुमधुराञ्शब्दान्खगमुखेरितान् 038e
सर्वर्तुफलभाराढ्यान्सर्वर्तुकुसुमोज्ज्वलान् 039a
पश्यन्तः पादपांश्चापि फलभारावनामितान् 039c
आम्रानाम्रातकान्फुल्लान्नारिकेलान्सतिन्दुकान् 040a
अजातकांस्तथा जीरान्दाडिमान्बीजपूरकान् 040c
पनसाल्ँलिकुचान्मोचान्खर्जूरानाम्रवेतसान् 041a
पारावतांस्तथा क्षौद्रान्नीपांश्चापि मनोरमान् 041c
बिल्वान्कपित्थाञ्जम्बूंश्च काश्मरीर्बदरीस्तथा 042a
प्लक्षानुदुम्बरवटानश्वत्थान्क्षीरिणस्तथा 042c
भल्लातकानामलकान्हरीतकबिभीतकान् 042e
इङ्गुदान्करवीरांश्च तिन्दुकांश्च महाफलान् 043a
एतानन्यांश्च विविधान्गन्धमादनसानुषु 043c
फलैरमृतकल्पैस्तानाचितान्स्वादुभिस्तरून् 044a
तथैव चम्पकाशोकान्केतकान्बकुलांस्तथा 044c
पुन्नागान्सप्तपर्णांश्च कर्णिकारान्सकेतकान् 045a
पाटलान्कुटजान्रम्यान्मन्दारेन्दीवरांस्तथा 045c
पारिजातान्कोविदारान्देवदारुतरूंस्तथा 046a
शालांस्तालांस्तमालांश्च प्रियालान्बकुलांस्तथा 046c
शाल्मलीः किंशुकाशोकाञ्शिंशपांस्तरलांस्तथा 046e
चकोरैः शतपत्रैश्च भृङ्गराजैस्तथा शुकैः 047a
कोकिलैः कलविङ्कैश्च हारीतैर्जीवजीवकैः 047c
प्रियव्रतैश्चातकैश्च तथान्यैर्विविधैः खगैः 048a
श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितान् 048c
सरांसि च विचित्राणि प्रसन्नसलिलानि च 049a
कुमुदैः पुण्डरीकैश्च तथा कोकनदोत्पलैः 049c
कह्लारैः कमलैश्चैव आचितानि समन्ततः 049e
कदम्बैश्चक्रवाकैश्च कुररैर्जलकुक्कुटैः 050a
कारण्डवैः प्लवैर्हंसैर्बकैर्मद्गुभिरेव च 050c
एतैश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः 050e
हृष्टैस्तथा तामरसरसासवमदालसैः 051a
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः 051c
मधुरस्वरैर्मधुकरैर्विरुतान्कमलाकरान् 052a
पश्यन्तस्ते मनोरम्यान्गन्धमादनसानुषु 052c
तथैव पद्मषण्डैश्च मण्डितेषु समन्ततः 053a
शिखण्डिनीभिः सहिताल्ँलतामण्डपकेषु च 053c
मेघतूर्यरवोद्दाममदनाकुलितान्भृशम् 053e
कृत्वैव केकामधुरं सङ्गीतमधुरस्वरम् 054a
चित्रान्कलापान्विस्तीर्य सविलासान्मदालसान् 054c
मयूरान्ददृशुश्चित्रान्नृत्यतो वनलासकान् 054e
कान्ताभिः सहितानन्यानपश्यन्रमतः सुखम् 055a
वल्लीलतासङ्कटेषु कटकेषु स्थितांस्तथा 055c
कांश्चिच्छकुनजातांश्च विटपेषूत्कटानपि 056a
कलापरचिताटोपान्विचित्रमुकुटानिव 056c
विवरेषु तरूणां च मुदितान्ददृशुश्च ते 056e
सिन्धुवारानथोद्दामान्मन्मथस्येव तोमरान् 057a
सुवर्णकुसुमाकीर्णान्गिरीणां शिखरेषु च 057c
कर्णिकारान्विरचितान्कर्णपूरानिवोत्तमान् 058a
अथापश्यन्कुरबकान्वनराजिषु पुष्पितान् 058c
कामवश्योत्सुककरान्कामस्येव शरोत्करान् 058e
तथैव वनराजीनामुदारान्रचितानिव 059a
विराजमानांस्तेऽपश्यंस्तिलकांस्तिलकानिव 059c
तथानङ्गशराकारान्सहकारान्मनोरमान् 060a
अपश्यन्भ्रमरारावान्मञ्जरीभिर्विराजितान् 060c
हिरण्यसदृशैः पुष्पैर्दावाग्निसदृशैरपि 061a
लोहितैरञ्जनाभैश्च वैडूर्यसदृशैरपि 061c
तथा शालांस्तमालांश्च पाटल्यो बकुलानि च 062a
माला इव समासक्ताः शैलानां शिखरेषु च 062c
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः 063a
गजसङ्घसमाबाधं सिंहव्याघ्रसमायुतम् 063c
शरभोन्नादसङ्घुष्टं नानारावनिनादितम् 064a
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु 064c
पीता भास्वरवर्णाभा बभूवुर्वनराजयः 065a
नात्र कण्टकिनः केचिन्नात्र केचिदपुष्पिताः 065c
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु 065e
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः 066a
राजहंसैरुपेतानि सारसाभिरुतानि च 066c
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु 066e
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च 067a
गन्धवन्ति च माल्यानि रसवन्ति फलानि च 067c
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु 067e
एते चान्ये च बहवस्तत्र काननजा द्रुमाः 068a
लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः 068c
युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे 069a
भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् 069c
पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः 070a
अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर 070c
लताभिश्चैव बह्वीभिः पुष्पिताः पादपोत्तमाः 071a
संश्लिष्टाः पार्थ शोभन्ते गन्धमादनसानुषु 071c
शिखण्डिनीभिश्चरतां सहितानां शिखण्डिनाम् 072a
नर्दतां शृणु निर्घोषं भीम पर्वतसानुषु 072c
चकोराः शतपत्राश्च मत्तकोकिलशारिकाः 073a
पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् 073c
रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः 074a
परस्परमुदीक्षन्ते बहवो जीवजीवकाः 074c
हरितारुणवर्णानां शाद्वलानां समन्ततः 075a
सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि 075c
वदन्ति मधुरा वाचः सर्वभूतमनोनुगाः 076a
भृङ्गराजोपचक्राश्च लोहपृष्ठाश्च पत्रिणः 076c
चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः 077a
एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः 077c
बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः 078a
नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः 078c
भास्कराभप्रभा भीम शारदाभ्रघनोपमाः 079a
शोभयन्ति महाशैलं नानारजतधातवः 079c
क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसन्निभाः 080a
धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च 080c
मनःशिलागुहाश्चैव सन्ध्याभ्रनिकरोपमाः 081a
शशलोहितवर्णाभाः क्वचिद्गैरिकधातवः 081c
सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः 082a
एते बहुविधाः शैलं शोभयन्ति महाप्रभाः 082c
गन्धर्वाः सह कान्ताभिर्यथोक्तं वृषपर्वणा 083a
दृश्यन्ते शैलशृङ्गेषु पार्थ किम्पुरुषैः सह 083c
गीतानां तलतालानां यथा साम्नां च निस्वनः 084a
श्रूयते बहुधा भीम सर्वभूतमनोहरः 084c
महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् 085a
कलहंसगणैर्जुष्टामृषिकिन्नरसेविताम् 085c
धातुभिश्च सरिद्भिश्च किन्नरैर्मृगपक्षिभिः 086a
गन्धर्वैरप्सरोभिश्च काननैश्च मनोरमैः 086c
व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः 087a
उपेतं पश्य कौन्तेय शैलराजमरिन्दम 087c
ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् 088a
नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परन्तपाः 088c
उपेतमथ माल्यैश्च फलवद्भिश्च पादपैः 089a
आर्ष्टिषेणस्य राजर्षेराश्रमं ददृशुस्तदा 089c
ततस्तं तीव्रतपसं कृशं धमनिसन्ततम् 090a
पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् 090c