वैशम्पायन उवाच 001
ततस्तान्परिविश्वस्तान्वसतस्तत्र पाण्डवान् 001a
गतेषु तेषु रक्षःसु भीमसेनात्मजेऽपि च 001c
रहितान्भीमसेनेन कदाचित्तान्यदृच्छया 002a
जहार धर्मराजानं यमौ कृष्णां च राक्षसः 002c
ब्राह्मणो मन्त्रकुशलः सर्वास्त्रेष्वस्त्रवित्तमः 003a
इति ब्रुवन्पाण्डवेयान्पर्युपास्ते स्म नित्यदा 003c
परीक्षमाणः पार्थानां कलापानि धनूंषि च 004a
अन्तरं समभिप्रेप्सुर्नाम्ना ख्यातो जटासुरः 004c
स भीमसेने निष्क्रान्ते मृगयार्थमरिन्दमे 005a
अन्यद्रूपं समास्थाय विकृतं भैरवं महत् 005c
गृहीत्वा सर्वशस्त्राणि द्रौपदीं परिगृह्य च 006a
प्रातिष्ठत स दुष्टात्मा त्रीन्गृहीत्वा च पाण्डवान् 006c
सहदेवस्तु यत्नेन ततोऽपक्रम्य पाण्डवः 007a
आक्रन्दद्भीमसेनं वै येन यातो महाबलः 007c
तमब्रवीद्धर्मराजो ह्रियमाणो युधिष्ठिरः 008a
धर्मस्ते हीयते मूढ न चैनं समवेक्षसे 008c
येऽन्ये केचिन्मनुष्येषु तिर्यग्योनिगता अपि 009a
गन्धर्वयक्षरक्षांसि वयांसि पशवस्तथा 009c
मनुष्यानुपजीवन्ति ततस्त्वमुपजीवसि 009e
समृद्ध्या ह्यस्य लोकस्य लोको युष्माकमृध्यते 010a
इमं च लोकं शोचन्तमनुशोचन्ति देवताः 010c
पूज्यमानाश्च वर्धन्ते हव्यकव्यैर्यथाविधि 010e
वयं राष्ट्रस्य गोप्तारो रक्षितारश्च राक्षस 011a
राष्ट्रस्यारक्ष्यमाणस्य कुतो भूतिः कुतः सुखम् 011c
न च राजावमन्तव्यो रक्षसा जात्वनागसि 012a
अणुरप्यपचारश्च नास्त्यस्माकं नराशन 012c
द्रोग्धव्यं न च मित्रेषु न विश्वस्तेषु कर्हिचित् 013a
येषां चान्नानि भुञ्जीत यत्र च स्यात्प्रतिश्रयः 013c
स त्वं प्रतिश्रयेऽस्माकं पूज्यमानः सुखोषितः 014a
भुक्त्वा चान्नानि दुष्प्रज्ञ कथमस्माञ्जिहीर्षसि 014c
एवमेव वृथाचारो वृथावृद्धो वृथामतिः 015a
वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि 015c
अथ चेद्दुष्टबुद्धिस्त्वं सर्वैर्धर्मैर्विवर्जितः 016a
प्रदाय शस्त्राण्यस्माकं युद्धेन द्रौपदीं हर 016c
अथ चेत्त्वमविज्ञाय इदं कर्म करिष्यसि 017a
अधर्मं चाप्यकीर्तिं च लोके प्राप्स्यसि केवलम् 017c
एतामद्य परामृश्य स्त्रियं राक्षस मानुषीम् 018a
विषमेतत्समालोड्य कुम्भेन प्राशितं त्वया 018c
ततो युधिष्ठिरस्तस्य भारिकः समपद्यत 019a
स तु भाराभिभूतात्मा न तथा शीघ्रगोऽभवत् 019c
अथाब्रवीद्द्रौपदीं च नकुलं च युधिष्ठिरः 020a
मा भैष्ट राक्षसान्मूढाद्गतिरस्य मया हृता 020c
नातिदूरे महाबाहुर्भविता पवनात्मजः 021a
अस्मिन्मुहूर्ते सम्प्राप्ते न भविष्यति राक्षसः 021c
सहदेवस्तु तं दृष्ट्वा राक्षसं मूढचेतसम् 022a
उवाच वचनं राजन्कुन्तीपुत्रं युधिष्ठिरम् 022c
राजन्किं नाम तत्कृत्यं क्षत्रियस्यास्त्यतोऽधिकम् 023a
यद्युद्धेऽभिमुखः प्राणांस्त्यजेच्छत्रूञ्जयेत वा 023c
एष चास्मान्वयं चैनं युध्यमानाः परन्तप 024a
सूदयेम महाबाहो देशकालो ह्ययं नृप 024c
क्षत्रधर्मस्य सम्प्राप्तः कालः सत्यपराक्रम 025a
जयन्तः पात्यमाना वा प्राप्तुमर्हाम सद्गतिम् 025c
राक्षसे जीवमानेऽद्य रविरस्तमियाद्यदि 026a
नाहं ब्रूयां पुनर्जातु क्षत्रियोऽस्मीति भारत 026c
भो भो राक्षस तिष्ठस्व सहदेवोऽस्मि पाण्डवः 027a
हत्वा वा मां नयस्वैनान्हतो वाद्येह स्वप्स्यसि 027c
तथैव तस्मिन्ब्रुवति भीमसेनो यदृच्छया 028a
प्रादृश्यत महाबाहुः सवज्र इव वासवः 028c
सोऽपश्यद्भ्रातरौ तत्र द्रौपदीं च यशस्विनीम् 029a
क्षितिस्थं सहदेवं च क्षिपन्तं राक्षसं तदा 029c
मार्गाच्च राक्षसं मूढं कालोपहतचेतसम् 030a
भ्रमन्तं तत्र तत्रैव दैवेन विनिवारितम् 030c
भ्रातॄंस्तान्ह्रियतो दृष्ट्वा द्रौपदीं च महाबलः 031a
क्रोधमाहारयद्भीमो राक्षसं चेदमब्रवीत् 031c
विज्ञातोऽसि मया पूर्वं चेष्टञ्शस्त्रपरीक्षणे 032a
आस्था तु त्वयि मे नास्ति यतोऽसि न हतस्तदा 032c
ब्रह्मरूपप्रतिच्छन्नो न नो वदसि चाप्रियम् 032e
प्रियेषु चरमाणं त्वां न चैवाप्रियकारिणम् 033a
अतिथिं ब्रह्मरूपं च कथं हन्यामनागसम् 033c
राक्षसं मन्यमानोऽपि यो हन्यान्नरकं व्रजेत् 033e
अपक्वस्य च कालेन वधस्तव न विद्यते 034a
नूनमद्यासि सम्पक्वो यथा ते मतिरीदृशी 034c
दत्ता कृष्णापहरणे कालेनाद्भुतकर्मणा 034e
बडिशोऽयं त्वया ग्रस्तः कालसूत्रेण लम्बितः 035a
मत्स्योऽम्भसीव स्यूतास्यः कथं मेऽद्य गमिष्यसि 035c
यं चासि प्रस्थितो देशं मनः पूर्वं गतं च ते 036a
न तं गन्तासि गन्तासि मार्गं बकहिडिम्बयोः 036c
एवमुक्तस्तु भीमेन राक्षसः कालचोदितः 037a
भीत उत्सृज्य तान्सर्वान्युद्धाय समुपस्थितः 037c
अब्रवीच्च पुनर्भीमं रोषात्प्रस्फुरिताधरः 038a
न मे मूढा दिशः पाप त्वदर्थं मे विलम्बनम् 038c
श्रुता मे राक्षसा ये ये त्वया विनिहता रणे 039a
तेषामद्य करिष्यामि तवास्रेणोदकक्रियाम् 039c
एवमुक्तस्ततो भीमः सृक्किणी परिसंलिहन् 040a
स्मयमान इव क्रोधात्साक्षात्कालान्तकोपमः 040c
बाहुसंरम्भमेवेच्छन्नभिदुद्राव राक्षसम् 040e
राक्षसोऽपि तदा भीमं युद्धार्थिनमवस्थितम् 041a
अभिदुद्राव संरब्धो बलो वज्रधरं यथा 041c
वर्तमाने तदा ताभ्यां बाहुयुद्धे सुदारुणे 042a
माद्रीपुत्रावभिक्रुद्धावुभावप्यभ्यधावताम् 042c
न्यवारयत्तौ प्रहसन्कुन्तीपुत्रो वृकोदरः 043a
शक्तोऽहं राक्षसस्येति प्रेक्षध्वमिति चाब्रवीत् 043c
आत्मना भ्रातृभिश्चाहं धर्मेण सुकृतेन च 044a
इष्टेन च शपे राजन्सूदयिष्यामि राक्षसम् 044c
इत्येवमुक्त्वा तौ वीरौ स्पर्धमानौ परस्परम् 045a
बाहुभिः समसज्जेतामुभौ रक्षोवृकोदरौ 045c
तयोरासीत्सम्प्रहारः क्रुद्धयोर्भीमरक्षसोः 046a
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव 046c
आरुज्यारुज्य तौ वृक्षानन्योन्यमभिजघ्नतुः 047a
जीमूताविव घर्मान्ते विनदन्तौ महाबलौ 047c
बभञ्जतुर्महावृक्षानूरुभिर्बलिनां वरौ 048a
अन्योन्येनाभिसंरब्धौ परस्परजयैषिणौ 048c
तद्वृक्षयुद्धमभवन्महीरुहविनाशनम् 049a
वालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः 049c
आविध्याविध्य तौ वृक्षान्मुहूर्तमितरेतरम् 050a
ताडयामासतुरुभौ विनदन्तौ मुहुर्मुहुः 050c
तस्मिन्देशे यदा वृक्षाः सर्व एव निपातिताः 051a
पुञ्जीकृताश्च शतशः परस्परवधेप्सया 051c
तदा शिलाः समादाय मुहूर्तमिव भारत 052a
महाभ्रैरिव शैलेन्द्रौ युयुधाते महाबलौ 052c
उग्राभिरुग्ररूपाभिर्बृहतीभिः परस्परम् 053a
वज्रैरिव महावेगैराजघ्नतुरमर्षणौ 053c
अभिहत्य च भूयस्तावन्योन्यं बलदर्पितौ 054a
भुजाभ्यां परिगृह्याथ चकर्षाते गजाविव 054c
मुष्टिभिश्च महाघोरैरन्योन्यमभिपेततुः 055a
तयोश्चटचटाशब्दो बभूव सुमहात्मनोः 055c
ततः संहृत्य मुष्टिं तु पञ्चशीर्षमिवोरगम् 056a
वेगेनाभ्यहनद्भीमो राक्षसस्य शिरोधराम् 056c
ततः श्रान्तं तु तद्रक्षो भीमसेनभुजाहतम् 057a
सुपरिश्रान्तमालक्ष्य भीमसेनोऽभ्यवर्तत 057c
तत एनं महाबाहुर्बाहुभ्याममरोपमः 058a
समुत्क्षिप्य बलाद्भीमो निष्पिपेष महीतले 058c
तस्य गात्राणि सर्वाणि चूर्णयामास पाण्डवः 059a
अरत्निना चाभिहत्य शिरः कायादपाहरत् 059c
सन्दष्टोष्ठं विवृत्ताक्षं फलं वृन्तादिव च्युतम् 060a
जटासुरस्य तु शिरो भीमसेनबलाद्धृतम् 060c
पपात रुधिरादिग्धं सन्दष्टदशनच्छदम् 060e
तं निहत्य महेष्वासो युधिष्ठिरमुपागमत् 061a
स्तूयमानो द्विजाग्र्यैस्तैर्मरुद्भिरिव वासवः 061c