वैशम्पायन उवाच 001
ततस्तानि महार्हाणि दिव्यानि भरतर्षभ 001a
बहूनि बहुरूपाणि विरजांसि समाददे 001c
ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः 002a
प्रादुरासीत्खरस्पर्शः सङ्ग्राममभिचोदयन् 002c
पपात महती चोल्का सनिर्घाता महाप्रभा 003a
निष्प्रभश्चाभवत्सूर्यश्छन्नरश्मिस्तमोवृतः 003c
निर्घातश्चाभवद्भीमो भीमे विक्रममास्थिते 004a
चचाल पृथिवी चापि पांसुवर्षं पपात च 004c
सलोहिता दिशश्चासन्खरवाचो मृगद्विजाः 005a
तमोवृतमभूत्सर्वं न प्रज्ञायत किञ्चन 005c
तदद्भुतमभिप्रेक्ष्य धर्मपुत्रो युधिष्ठिरः 006a
उवाच वदतां श्रेष्ठः कोऽस्मानभिभविष्यति 006c
सज्जीभवत भद्रं वः पाण्डवा युद्धदुर्मदाः 007a
यथारूपाणि पश्यामि स्वभ्यग्रो नः पराक्रमः 007c
एवमुक्त्वा ततो राजा वीक्षाञ्चक्रे समन्ततः 008a
अपश्यमानो भीमं च धर्मराजो युधिष्ठिरः 008c
तत्र कृष्णां यमौ चैव समीपस्थानरिन्दमः 009a
पप्रच्छ भ्रातरं भीमं भीमकर्माणमाहवे 009c
कच्चिन्न भीमः पाञ्चालि किञ्चित्कृत्यं चिकीर्षति 010a
कृतवानपि वा वीरः साहसं साहसप्रियः 010c
इमे ह्यकस्मादुत्पाता महासमरदर्शिनः 011a
दर्शयन्तो भयं तीव्रं प्रादुर्भूताः समन्ततः 011c
तं तथा वादिनं कृष्णा प्रत्युवाच मनस्विनी 012a
प्रिया प्रियं चिकीर्षन्ती महिषी चारुहासिनी 012c
यत्तत्सौगन्धिकं राजन्नाहृतं मातरिश्वना 013a
तन्मया भीमसेनस्य प्रीतयाद्योपपादितम् 013c
अपि चोक्तो मया वीरो यदि पश्येद्बहून्यपि 014a
तानि सर्वाण्युपादाय शीघ्रमागम्यतामिति 014c
स तु नूनं महाबाहुः प्रियार्थं मम पाण्डवः 015a
प्रागुदीचीं दिशं राजंस्तान्याहर्तुमितो गतः 015c
उक्तस्त्वेवं तया राजा यमाविदमथाब्रवीत् 016a
गच्छाम सहितास्तूर्णं येन यातो वृकोदरः 016c
वहन्तु राक्षसा विप्रान्यथाश्रान्तान्यथाकृशान् 017a
त्वमप्यमरसङ्काश वह कृष्णां घटोत्कच 017c
व्यक्तं दूरमितो भीमः प्रविष्ट इति मे मतिः 018a
चिरं च तस्य कालोऽयं स च वायुसमो जवे 018c
तरस्वी वैनतेयस्य सदृशो भुवि लङ्घने 019a
उत्पतेदपि चाकाशं निपतेच्च यथेच्छकम् 019c
तमन्वियाम भवतां प्रभावाद्रजनीचराः 020a
पुरा स नापराध्नोति सिद्धानां ब्रह्मवादिनाम् 020c
तथेत्युक्त्वा तु ते सर्वे हैडिम्बप्रमुखास्तदा 021a
उद्देशज्ञाः कुबेरस्य नलिन्या भरतर्षभ 021c
आदाय पाण्डवांश्चैव तांश्च विप्राननेकशः 022a
लोमशेनैव सहिताः प्रययुः प्रीतमानसाः 022c
ते गत्वा सहिताः सर्वे ददृशुस्तत्र कानने 023a
प्रफुल्लपङ्कजवतीं नलिनीं सुमनोहराम् 023c
तं च भीमं महात्मानं तस्यास्तीरे व्यवस्थितम् 024a
ददृशुर्निहतांश्चैव यक्षान्सुविपुलेक्षणान् 024c
उद्यम्य च गदां दोर्भ्यां नदीतीरे व्यवस्थितम् 025a
प्रजासङ्क्षेपसमये दण्डहस्तमिवान्तकम् 025c
तं दृष्ट्वा धर्मराजस्तु परिष्वज्य पुनः पुनः 026a
उवाच श्लक्ष्णया वाचा कौन्तेय किमिदं कृतम् 026c
साहसं बत भद्रं ते देवानामपि चाप्रियम् 027a
पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् 027c
अनुशास्य च कौन्तेयं पद्मानि प्रतिगृह्य च 028a
तस्यामेव नलिन्यां ते विजह्रुरमरोपमाः 028c
एतस्मिन्नेव काले तु प्रगृहीतशिलायुधाः 029a
प्रादुरासन्महाकायास्तस्योद्यानस्य रक्षिणः 029c
ते दृष्ट्वा धर्मराजानं देवर्षिं चापि लोमशम् 030a
नकुलं सहदेवं च तथान्यान्ब्राह्मणर्षभान् 030c
विनयेनानताः सर्वे प्रणिपेतुश्च भारत 030e
सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः 031a
विदिताश्च कुबेरस्य ततस्ते नरपुङ्गवाः 031c
ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः 031e