भीम उवाच 001
पाण्डवो भीमसेनोऽहं धर्मपुत्रादनन्तरः 001a
विशालां बदरीं प्राप्तो भ्रातृभिः सह राक्षसाः 001c
अपश्यत्तत्र पञ्चाली सौगन्धिकमनुत्तमम् 002a
अनिलोढमितो नूनं सा बहूनि परीप्सति 002c
तस्या मामनवद्याङ्ग्या धर्मपत्न्याः प्रिये स्थितम् 003a
पुष्पाहारमिह प्राप्तं निबोधत निशाचराः 003c
राक्षसा ऊचुः 004
आक्रीडोऽयं कुबेरस्य दयितः पुरुषर्षभ 004a
नेह शक्यं मनुष्येण विहर्तुं मर्त्यधर्मिणा 004c
देवर्षयस्तथा यक्षा देवाश्चात्र वृकोदर 005a
आमन्त्र्य यक्षप्रवरं पिबन्ति विहरन्ति च 005c
गन्धर्वाप्सरसश्चैव विहरन्त्यत्र पाण्डव 005e
अन्यायेनेह यः कश्चिदवमन्य धनेश्वरम् 006a
विहर्तुमिच्छेद्दुर्वृत्तः स विनश्येदसंशयम् 006c
तमनादृत्य पद्मानि जिहीर्षसि बलादितः 007a
धर्मराजस्य चात्मानं ब्रवीषि भ्रातरं कथम् 007c
भीम उवाच 008
राक्षसास्तं न पश्यामि धनेश्वरमिहान्तिके 008a
दृष्ट्वापि च महाराजं नाहं याचितुमुत्सहे 008c
न हि याचन्ति राजान एष धर्मः सनातनः 009a
न चाहं हातुमिच्छामि क्षात्रधर्मं कथञ्चन 009c
इयं च नलिनी रम्या जाता पर्वतनिर्झरे 010a
नेयं भवनमासाद्य कुबेरस्य महात्मनः 010c
तुल्या हि सर्वभूतानामियं वैश्रवणस्य च 011a
एवङ्गतेषु द्रव्येषु कः कं याचितुमर्हति 011c
वैशम्पायन उवाच 012
इत्युक्त्वा राक्षसान्सर्वान्भीमसेनो व्यगाहत 012a
ततः स राक्षसैर्वाचा प्रतिषिद्धः प्रतापवान् 012c
मा मैवमिति सक्रोधैर्भर्त्सयद्भिः समन्ततः 012e
कदर्थीकृत्य तु स तान्राक्षसान्भीमविक्रमः 013a
व्यगाहत महातेजास्ते तं सर्वे न्यवारयन् 013c
गृह्णीत बध्नीत निकृन्ततेमं पचाम खादाम च भीमसेनम् 014a
क्रुद्धा ब्रुवन्तोऽनुययुर्द्रुतं ते शस्त्राणि चोद्यम्य विवृत्तनेत्राः 014c
ततः स गुर्वीं यमदण्डकल्पां महागदां काञ्चनपट्टनद्धाम् 015a
प्रगृह्य तानभ्यपतत्तरस्वी ततोऽब्रवीत्तिष्ठत तिष्ठतेति 015c
ते तं तदा तोमरपट्टिशाद्यैर्व्याविध्य शस्त्रैः सहसाभिपेतुः 016a
जिघांसवः क्रोधवशाः सुभीमा भीमं समन्तात्परिवव्रुरुग्राः 016c
वातेन कुन्त्यां बलवान्स जातः शूरस्तरस्वी द्विषतां निहन्ता 017a
सत्ये च धर्मे च रतः सदैव पराक्रमे शत्रुभिरप्रधृष्यः 017c
तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शात्रवाणाम् 018a
यथाप्रवीरान्निजघान वीरः परःशतान्पुष्करिणीसमीपे 018c
ते तस्य वीर्यं च बलं च दृष्ट्वा विद्याबलं बाहुबलं तथैव 019a
अशक्नुवन्तः सहिताः समन्ताद्धतप्रवीराः सहसा निवृत्ताः 019c
विदीर्यमाणास्तत एव तूर्णमाकाशमास्थाय विमूढसञ्ज्ञाः 020a
कैलासशृङ्गाण्यभिदुद्रुवुस्ते भीमार्दिताः क्रोधवशाः प्रभग्नाः 020c
स शक्रवद्दानवदैत्यसङ्घान्विक्रम्य जित्वा च रणेऽरिसङ्घान् 021a
विगाह्य तां पुष्करिणीं जितारिः कामाय जग्राह ततोऽम्बुजानि 021c
ततः स पीत्वामृतकल्पमम्भो भूयो बभूवोत्तमवीर्यतेजाः 022a
उत्पाट्य जग्राह ततोऽम्बुजानि सौगन्धिकान्युत्तमगन्धवन्ति 022c
ततस्तु ते क्रोधवशाः समेत्य धनेश्वरं भीमबलप्रणुन्नाः 023a
भीमस्य वीर्यं च बलं च सङ्ख्ये यथावदाचख्युरतीव दीनाः 023c
तेषां वचस्तत्तु निशम्य देवः प्रहस्य रक्षांशि ततोऽभ्युवाच 024a
गृह्णातु भीमो जलजानि कामं कृष्णानिमित्तं विदितं ममैतत् 024c
ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः 025a
भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् 025c