वैशम्पायन उवाच 001
स गत्वा नलिनीं रम्यां राक्षसैरभिरक्षिताम् 001a
कैलासशिखरे रम्ये ददर्श शुभकानने 001c
कुबेरभवनाभ्याशे जातां पर्वतनिर्झरे 002a
सुरम्यां विपुलच्छायां नानाद्रुमलतावृताम् 002c
हरिताम्बुजसञ्छन्नां दिव्यां कनकपुष्कराम् 003a
पवित्रभूतां लोकस्य शुभामद्भुतदर्शनाम् 003c
तत्रामृतरसं शीतं लघु कुन्तीसुतः शुभम् 004a
ददर्श विमलं तोयं शिवं बहु च पाण्डवः 004c
तां तु पुष्करिणीं रम्यां पद्मसौगन्धिकायुताम् 005a
जातरूपमयैः पद्मैश्छन्नां परमगन्धिभिः 005c
वैडूर्यवरनालैश्च बहुचित्रैर्मनोहरैः 006a
हंसकारण्डवोद्धूतैः सृजद्भिरमलं रजः 006c
आक्रीडं यक्षराजस्य कुबेरस्य महात्मनः 007a
गन्धर्वैरप्सरोभिश्च देवैश्च परमार्चिताम् 007c
सेवितामृषिभिर्दिव्यां यक्षैः किम्पुरुषैस्तथा 008a
राक्षसैः किन्नरैश्चैव गुप्तां वैश्रवणेन च 008c
तां च दृष्ट्वैव कौन्तेयो भीमसेनो महाबलः 009a
बभूव परमप्रीतो दिव्यं सम्प्रेक्ष्य तत्सरः 009c
तच्च क्रोधवशा नाम राक्षसा राजशासनात् 010a
रक्षन्ति शतसाहस्राश्चित्रायुधपरिच्छदाः 010c
ते तु दृष्ट्वैव कौन्तेयमजिनैः परिवारितम् 011a
रुक्माङ्गदधरं वीरं भीमं भीमपराक्रमम् 011c
सायुधं बद्धनिस्त्रिंशमशङ्कितमरिन्दमम् 012a
पुष्करेप्सुमुपायान्तमन्योन्यमभिचुक्रुशुः 012c
अयं पुरुषशार्दूलः सायुधोऽजिनसंवृतः 013a
यच्चिकीर्षुरिह प्राप्तस्तत्सम्प्रष्टुमिहार्हथ 013c
ततः सर्वे महाबाहुं समासाद्य वृकोदरम् 014a
तेजोयुक्तमपृच्छन्त कस्त्वमाख्यातुमर्हसि 014c
मुनिवेषधरश्चासि चीरवासाश्च लक्ष्यसे 015a
यदर्थमसि सम्प्राप्तस्तदाचक्ष्व महाद्युते 015c