वैशम्पायन उवाच 001
ततः संहृत्य विपुलं तद्वपुः कामवर्धितम् 001a
भीमसेनं पुनर्दोर्भ्यां पर्यष्वजत वानरः 001c
परिष्वक्तस्य तस्याशु भ्रात्रा भीमस्य भारत 002a
श्रमो नाशमुपागच्छत्सर्वं चासीत्प्रदक्षिणम् 002c
ततः पुनरथोवाच पर्यश्रुनयनो हरिः 003a
भीममाभाष्य सौहार्दाद्बाष्पगद्गदया गिरा 003c
गच्छ वीर स्वमावासं स्मर्तव्योऽस्मि कथान्तरे 004a
इहस्थश्च कुरुश्रेष्ठ न निवेद्योऽस्मि कस्यचित् 004c
धनदस्यालयाच्चापि विसृष्टानां महाबल 005a
देशकाल इहायातुं देवगन्धर्वयोषिताम् 005c
ममापि सफलं चक्षुः स्मारितश्चास्मि राघवम् 006a
मानुषं गात्रसंस्पर्शं गत्वा भीम त्वया सह 006c
तदस्मद्दर्शनं वीर कौन्तेयामोघमस्तु ते 007a
भ्रातृत्वं त्वं पुरस्कृत्य वरं वरय भारत 007c
यदि तावन्मया क्षुद्रा गत्वा वारणसाह्वयम् 008a
धार्तराष्ट्रा निहन्तव्या यावदेतत्करोम्यहम् 008c
शिलया नगरं वा तन्मर्दितव्यं मया यदि 009a
यावदद्य करोम्येतत्कामं तव महाबल 009c
भीमसेनस्तु तद्वाक्यं श्रुत्वा तस्य महात्मनः 010a
प्रत्युवाच हनूमन्तं प्रहृष्टेनान्तरात्मना 010c
कृतमेव त्वया सर्वं मम वानरपुङ्गव 011a
स्वस्ति तेऽस्तु महाबाहो क्षामये त्वां प्रसीद मे 011c
सनाथाः पाण्डवाः सर्वे त्वया नाथेन वीर्यवन् 012a
तवैव तेजसा सर्वान्विजेष्यामो वयं रिपून् 012c
एवमुक्तस्तु हनुमान्भीमसेनमभाषत 013a
भ्रातृत्वात्सौहृदाच्चापि करिष्यामि तव प्रियम् 013c
चमूं विगाह्य शत्रूणां शरशक्तिसमाकुलाम् 014a
यदा सिंहरवं वीर करिष्यसि महाबल 014c
तदाहं बृंहयिष्यामि स्वरवेण रवं तव 014e
विजयस्य ध्वजस्थश्च नादान्मोक्ष्यामि दारुणान् 015a
शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत 015c
गते तस्मिन्हरिवरे भीमोऽपि बलिनां वरः 016a
तेन मार्गेण विपुलं व्यचरद्गन्धमादनम् 016c
अनुस्मरन्वपुस्तस्य श्रियं चाप्रतिमां भुवि 017a
माहात्म्यमनुभावं च स्मरन्दाशरथेर्ययौ 017c
स तानि रमणीयानि वनान्युपवनानि च 018a
विलोडयामास तदा सौगन्धिकवनेप्सया 018c
फुल्लपद्मविचित्राणि पुष्पितानि वनानि च 019a
मत्तवारणयूथानि पङ्कक्लिन्नानि भारत 019c
वर्षतामिव मेघानां वृन्दानि ददृशे तदा 019e
हरिणैश्चञ्चलापाङ्गैर्हरिणीसहितैर्वने 020a
सशष्पकवलैः श्रीमान्पथि दृष्टो द्रुतं ययौ 020c
महिषैश्च वराहैश्च शार्दूलैश्च निषेवितम् 021a
व्यपेतभीर्गिरिं शौर्याद्भीमसेनो व्यगाहत 021c
कुसुमानतशाखैश्च ताम्प्रपल्लवकोमलैः 022a
याच्यमान इवारण्ये द्रुमैर्मारुतकम्पितैः 022c
कृतपद्माञ्जलिपुटा मत्तषट्पदसेविताः 023a
प्रियतीर्थवना मार्गे पद्मिनीः समतिक्रमन् 023c
सज्जमानमनोदृष्टिः फुल्लेषु गिरिसानुषु 024a
द्रौपदीवाक्यपाथेयो भीमः शीघ्रतरं ययौ 024c
परिवृत्तेऽहनि ततः प्रकीर्णहरिणे वने 025a
काञ्चनैर्विमलैः पद्मैर्ददर्श विपुलां नदीम् 025c
मत्तकारण्डवयुतां चक्रवाकोपशोभिताम् 026a
रचितामिव तस्याद्रेर्मालां विमलपङ्कजाम् 026c
तस्यां नद्यां महासत्त्वः सौगन्धिकवनं महत् 027a
अपश्यत्प्रीतिजननं बालार्कसदृशद्युति 027c
तद्दृष्ट्वा लब्धकामः स मनसा पाण्डुनन्दनः 028a
वनवासपरिक्लिष्टां जगाम मनसा प्रियाम् 028c