भीम उवाच 001
पूर्वरूपमदृष्ट्वा ते न यास्यामि कथञ्चन 001a
यदि तेऽहमनुग्राह्यो दर्शयात्मानमात्मना 001c
वैशम्पायन उवाच 002
एवमुक्तस्तु भीमेन स्मितं कृत्वा प्लवङ्गमः 002a
तद्रूपं दर्शयामास यद्वै सागरलङ्घने 002c
भ्रातुः प्रियमभीप्सन्वै चकार सुमहद्वपुः 003a
देहस्तस्य ततोऽतीव वर्धत्यायामविस्तरैः 003c
तद्रूपं कदलीषण्डं छादयन्नमितद्युतिः 004a
गिरेश्चोच्छ्रयमागम्य तस्थौ तत्र स वानरः 004c
समुच्छ्रितमहाकायो द्वितीय इव पर्वतः 005a
ताम्रेक्षणस्तीक्ष्णदंष्ट्रो भृकुटीकृतलोचनः 005c
दीर्घलाङ्गूलमाविध्य दिशो व्याप्य स्थितः कपिः 005e
तद्रूपं महदालक्ष्य भ्रातुः कौरवनन्दनः 006a
विसिस्मिये तदा भीमो जहृषे च पुनः पुनः 006c
तमर्कमिव तेजोभिः सौवर्णमिव पर्वतम् 007a
प्रदीप्तमिव चाकाशं दृष्ट्वा भीमो न्यमीलयत् 007c
आबभाषे च हनुमान्भीमसेनं स्मयन्निव 008a
एतावदिह शक्तस्त्वं रूपं द्रष्टुं ममानघ 008c
वर्धेऽहं चाप्यतो भूयो यावन्मे मनसेप्सितम् 009a
भीम शत्रुषु चात्यर्थं वर्धते मूर्तिरोजसा 009c
तदद्भुतं महारौद्रं विन्ध्यमन्दरसन्निभम् 010a
दृष्ट्वा हनूमतो वर्ष्म सम्भ्रान्तः पवनात्मजः 010c
प्रत्युवाच ततो भीमः सम्प्रहृष्टतनूरुहः 011a
कृताञ्जलिरदीनात्मा हनूमन्तमवस्थितम् 011c
दृष्टं प्रमाणं विपुलं शरीरस्यास्य ते विभो 012a
संहरस्व महावीर्य स्वयमात्मानमात्मना 012c
न हि शक्नोमि त्वां द्रष्टुं दिवाकरमिवोदितम् 013a
अप्रमेयमनाधृष्यं मैनाकमिव पर्वतम् 013c
विस्मयश्चैव मे वीर सुमहान्मनसोऽद्य वै 014a
यद्रामस्त्वयि पार्श्वस्थे स्वयं रावणमभ्यगात् 014c
त्वमेव शक्तस्तां लङ्कां सयोधां सहवाहनाम् 015a
स्वबाहुबलमाश्रित्य विनाशयितुमोजसा 015c
न हि ते किञ्चिदप्राप्यं मारुतात्मज विद्यते 016a
तव नैकस्य पर्याप्तो रावणः सगणो युधि 016c
एवमुक्तस्तु भीमेन हनूमान्प्लवगर्षभः 017a
प्रत्युवाच ततो वाक्यं स्निग्धगम्भीरया गिरा 017c
एवमेतन्महाबाहो यथा वदसि भारत 018a
भीमसेन न पर्याप्तो ममासौ राक्षसाधमः 018c
मया तु तस्मिन्निहते रावणे लोककण्टके 019a
कीर्तिर्नश्येद्राघवस्य तत एतदुपेक्षितम् 019c
तेन वीरेण हत्वा तु सगणं राक्षसाधिपम् 020a
आनीता स्वपुरं सीता लोके कीर्तिश्च स्थापिता 020c
तद्गच्छ विपुलप्रज्ञ भ्रातुः प्रियहिते रतः 021a
अरिष्टं क्षेममध्वानं वायुना परिरक्षितः 021c
एष पन्थाः कुरुश्रेष्ठ सौगन्धिकवनाय ते 022a
द्रक्ष्यसे धनदोद्यानं रक्षितं यक्षराक्षसैः 022c
न च ते तरसा कार्यः कुसुमावचयः स्वयम् 023a
दैवतानि हि मान्यानि पुरुषेण विशेषतः 023c
बलिहोमनमस्कारैर्मन्त्रैश्च भरतर्षभ 024a
दैवतानि प्रसादं हि भक्त्या कुर्वन्ति भारत 024c
मा तात साहसं कार्षीः स्वधर्ममनुपालय 025a
स्वधर्मस्थः परं धर्मं बुध्यस्वागमयस्व च 025c
न हि धर्ममविज्ञाय वृद्धाननुपसेव्य च 026a
धर्मो वै वेदितुं शक्यो बृहस्पतिसमैरपि 026c
अधर्मो यत्र धर्माख्यो धर्मश्चाधर्मसञ्ज्ञितः 027a
विज्ञातव्यो विभागेन यत्र मुह्यन्त्यबुद्धयः 027c
आचारसम्भवो धर्मो धर्माद्वेदाः समुत्थिताः 028a
वेदैर्यज्ञाः समुत्पन्ना यज्ञैर्देवाः प्रतिष्ठिताः 028c
वेदाचारविधानोक्तैर्यज्ञैर्धार्यन्ति देवताः 029a
बृहस्पत्युशनोक्तैश्च नयैर्धार्यन्ति मानवाः 029c
पण्याकरवणिज्याभिः कृष्याथो योनिपोषणैः 030a
वार्तया धार्यते सर्वं धर्मैरेतैर्द्विजातिभिः 030c
त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या विजानताम् 031a
ताभिः सम्यक्प्रयुक्ताभिर्लोकयात्रा विधीयते 031c
सा चेद्धर्मक्रिया न स्यात्त्रयीधर्ममृते भुवि 032a
दण्डनीतिमृते चापि निर्मर्यादमिदं भवेत् 032c
वार्ताधर्मे ह्यवर्तन्त्यो विनश्येयुरिमाः प्रजाः 033a
सुप्रवृत्तैस्त्रिभिर्ह्येतैर्धर्मैः सूयन्ति वै प्रजाः 033c
द्विजानाममृतं धर्मो ह्येकश्चैवैकवर्णिकः 034a
यज्ञाध्ययनदानानि त्रयः साधारणाः स्मृताः 034c
याजनाध्यापने चोभे ब्राह्मणानां प्रतिग्रहः 035a
पालनं क्षत्रियाणां वै वैश्यधर्मश्च पोषणम् 035c
शुश्रूषा तु द्विजातीनां शूद्राणां धर्म उच्यते 036a
भैक्षहोमव्रतैर्हीनास्तथैव गुरुवासिनाम् 036c
क्षत्रधर्मोऽत्र कौन्तेय तव धर्माभिरक्षणम् 037a
स्वधर्मं प्रतिपद्यस्व विनीतो नियतेन्द्रियः 037c
वृद्धैः सम्मन्त्र्य सद्भिश्च बुद्धिमद्भिः श्रुतान्वितैः 038a
सुस्थितः शास्ति दण्डेन व्यसनी परिभूयते 038c
निग्रहानुग्रहैः सम्यग्यदा राजा प्रवर्तते 039a
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 039c
तस्माद्देशे च दुर्गे च शत्रुमित्रबलेषु च 040a
नित्यं चारेण बोद्धव्यं स्थानं वृद्धिः क्षयस्तथा 040c
राज्ञामुपायाश्चत्वारो बुद्धिमन्त्रः पराक्रमः 041a
निग्रहानुग्रहौ चैव दाक्ष्यं तत्कार्यसाधनम् 041c
साम्ना दानेन भेदेन दण्डेनोपेक्षणेन च 042a
साधनीयानि कार्याणि समासव्यासयोगतः 042c
मन्त्रमूला नयाः सर्वे चाराश्च भरतर्षभ 043a
सुमन्त्रितैर्नयैः सिद्धिस्तद्विदैः सह मन्त्रयेत् 043c
स्त्रिया मूढेन लुब्धेन बालेन लघुना तथा 044a
न मन्त्रयेत गुह्यानि येषु चोन्मादलक्षणम् 044c
मन्त्रयेत्सह विद्वद्भिः शक्तैः कर्माणि कारयेत् 045a
स्निग्धैश्च नीतिविन्यासान्मूर्खान्सर्वत्र वर्जयेत् 045c
धार्मिकान्धर्मकार्येषु अर्थकार्येषु पण्डितान् 046a
स्त्रीषु क्लीबान्नियुञ्जीत क्रूरान्क्रूरेषु कर्मसु 046c
स्वेभ्यश्चैव परेभ्यश्च कार्याकार्यसमुद्भवा 047a
बुद्धिः कर्मसु विज्ञेया रिपूणां च बलाबलम् 047c
बुद्ध्या सुप्रतिपन्नेषु कुर्यात्साधुपरिग्रहम् 048a
निग्रहं चाप्यशिष्टेषु निर्मर्यादेषु कारयेत् 048c
निग्रहे प्रग्रहे सम्यग्यदा राजा प्रवर्तते 049a
तदा भवति लोकस्य मर्यादा सुव्यवस्थिता 049c
एष ते विहितः पार्थ घोरो धर्मो दुरन्वयः 050a
तं स्वधर्मविभागेन विनयस्थोऽनुपालय 050c
तपोधर्मदमेज्याभिर्विप्रा यान्ति यथा दिवम् 051a
दानातिथ्यक्रियाधर्मैर्यान्ति वैश्याश्च सद्गतिम् 051c
क्षत्रं याति तथा स्वर्गं भुवि निग्रहपालनैः 052a
सम्यक्प्रणीय दण्डं हि कामद्वेषविवर्जिताः 052c
अलुब्धा विगतक्रोधाः सतां यान्ति सलोकताम् 052e