वैशम्पायन उवाच 001
एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् 001a
प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः 001c
उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् 001e
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् 002a
अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् 002c
एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम 003a
यत्ते तदासीत्प्लवतः सागरं मकरालयम् 003c
रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् 003e
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः 004a
एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् 004c
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् 005a
कालावस्था तदा ह्यन्या वर्तते सा न साम्प्रतम् 005c
अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः 006a
अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे 006c
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः 007a
कालं समनुवर्तन्ते यथा भावा युगे युगे 007c
बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च 007e
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह 008a
युगं समनुवर्तामि कालो हि दुरतिक्रमः 008c
भीम उवाच 009
युगसङ्ख्यां समाचक्ष्व आचारं च युगे युगे 009a
धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ 009c
हनूमानुवाच 010
कृतं नाम युगं तात यत्र धर्मः सनातनः 010a
कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे 010c
न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः 011a
ततः कृतयुगं नाम कालेन गुणतां गतम् 011c
देवदानवगन्धर्वयक्षराक्षसपन्नगाः 012a
नासन्कृतयुगे तात तदा न क्रयविक्रयाः 012c
न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी 013a
अभिध्याय फलं तत्र धर्मः सन्न्यास एव च 013c
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः 014a
नासूया नापि रुदितं न दर्पो नापि पैशुनम् 014c
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् 015a
न भयं न च सन्तापो न चेर्ष्या न च मत्सरः 015c
ततः परमकं ब्रह्म या गतिर्योगिनां परा 016a
आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा 016c
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः 017a
कृते युगे समभवन्स्वकर्मनिरताः प्रजाः 017c
समाश्रमं समाचारं समज्ञानमतीबलम् 018a
तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् 018c
एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः 019a
पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः 019c
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना 020a
अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् 020c
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः 021a
कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः 021c
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् 022a
त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते 022c
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः 023a
सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः 023c
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः 024a
त्रेतायां भावसङ्कल्पाः क्रियादानफलोदयाः 024c
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः 025a
स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् 025c
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते 026a
विष्णुर्वै पीततां याति चतुर्धा वेद एव च 026c
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे 027a
द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे 027c
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया 028a
तपोदानप्रवृत्ता च राजसी भवति प्रजा 028c
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः 029a
सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः 029c
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् 030a
कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः 030c
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः 031a
कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे 031c
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः 032a
पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः 032c
तामसं युगमासाद्य कृष्णो भवति केशवः 033a
वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा 033c
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा 034a
उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा 034c
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः 035a
धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः 035c
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः 036a
युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते 036c
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते 037a
युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः 037c
यच्च ते मत्परिज्ञाने कौतूहलमरिन्दम 038a
अनर्थकेषु को भावः पुरुषस्य विजानतः 038c
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि 039a
युगसङ्ख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् 039c