वैशम्पायन उवाच 001
एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः 001a
भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः 001c
को भवान्किन्निमित्तं वा वानरं वपुराश्रितः 002a
ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति 002c
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः 003a
पाण्डवो वायुतनयो भीमसेन इति श्रुतः 003c
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् 004a
हनूमान्वायुतनयो वायुपुत्रमभाषत 004c
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् 005a
साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् 005c
भीम उवाच 006
वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर 006a
प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् 006c
हनूमानुवाच 007
नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् 007a
यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् 007c
भीम उवाच 008
निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति 008a
तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये 008c
यद्यागमैर्न विन्देयं तमहं भूतभावनम् 009a
क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् 009c
हनूमानुवाच 010
क एष हनुमान्नाम सागरो येन लङ्घितः 010a
पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते 010c
भीम उवाच 011
भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः 011a
रामायणेऽतिविख्यातः शूरो वानरपुङ्गवः 011c
रामपत्नीकृते येन शतयोजनमायतः 012a
सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः 012c
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा 013a
बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे 013c
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् 014a
मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् 014c
वैशम्पायन उवाच 015
विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् 015a
हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् 015c
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ 016a
ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् 016c
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना 017a
न चाशकच्चालयितुं भीमः पुच्छं महाकपेः 017c
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् 018a
नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः 018c
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः 019a
स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह 019c
यत्नवानपि तु श्रीमाल्ँलाङ्गूलोद्धरणोद्धुतः 020a
कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः 020c
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् 021a
प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम 021c
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः 022a
पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् 022c
हनूमानुवाच 023
यत्ते मम परिज्ञाने कौतूहलमरिन्दम 023a
तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन 023c
अहं केसरिणः क्षेत्रे वायुना जगदायुषा 024a
जातः कमलपत्राक्ष हनूमान्नाम वानरः 024c
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् 025a
सर्ववानरराजानौ सर्ववानरयूथपाः 025c
उपतस्थुर्महावीर्या मम चामित्रकर्शन 026a
सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा 026c
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे 027a
ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् 027c
अथ दाशरथिर्वीरो रामो नाम महाबलः 028a
विष्णुर्मानुषरूपेण चचार वसुधामिमाम् 028c
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः 029a
सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः 029c
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् 030a
वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् 030c
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः 031a
दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् 031c
तेन तस्याभवत्सख्यं राघवस्य महात्मनः 032a
स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् 032c
स हरीन्प्रेषयामास सीतायाः परिमार्गणे 032e
ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् 033a
तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता 033c
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः 034a
शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः 034c
दृष्टा सा च मया देवी रावणस्य निवेशने 035a
प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै 035c
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् 036a
पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा 036c
ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया 037a
यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् 037c
तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् 037e
दश वर्षसहस्राणि दश वर्षशतानि च 038a
राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः 038c
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ 039a
तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् 039c
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन 040a
ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् 040c
धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत 040e
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः 041a
यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि 041c