001 वैशम्पायन उवाच
001a तत्र ते पुरुषव्याघ्राः परमं शौचमास्थिताः
001c षड्रात्रमवसन्वीरा धनञ्जयदिदृक्षया
001e तस्मिन्विहरमाणाश्च रममाणाश्च पाण्डवाः
002a मनोज्ञे काननवरे सर्वभूतमनोरमे
002c पादपैः पुष्पविकचैः फलभारावनामितैः
003a शोभितं सर्वतोरम्यैः पुंस्कोकिलकुलाकुलैः
003c स्निग्धपत्रैरविरलैः शीतच्छायैर्मनोरमैः
004a सरांसि च विचित्राणि प्रसन्नसलिलानि च
004c कमलैः सोत्पलैस्तत्र भ्राजमानानि सर्वशः
004e पश्यन्तश्चारुरूपाणि रेमिरे तत्र पाण्डवाः
005a पुण्यगन्धः सुखस्पर्शो ववौ तत्र समीरणः
005c ह्लादयन्पाण्डवान्सर्वान्सकृष्णान्सद्विजर्षभान्
006a ततः पूर्वोत्तरो वायुः पवमानो यदृच्छया
006c सहस्रपत्रमर्काभं दिव्यं पद्ममुदावहत्
007a तदपश्यत पाञ्चाली दिव्यगन्धं मनोरमम्
007c अनिलेनाहृतं भूमौ पतितं जलजं शुचि
008a तच्छुभा शुभमासाद्य सौगन्धिकमनुत्तमम्
008c अतीव मुदिता राजन्भीमसेनमथाब्रवीत्
009a पश्य दिव्यं सुरुचिरं भीम पुष्पमनुत्तमम्
009c गन्धसंस्थानसम्पन्नं मनसो मम नन्दनम्
010a एतत्तु धर्मराजाय प्रदास्यामि परन्तप
010c हरेरिदं मे कामाय काम्यके पुनराश्रमे
011a यदि तेऽहं प्रिया पार्थ बहूनीमान्युपाहर
011c तान्यहं नेतुमिच्छामि काम्यकं पुनराश्रमम्
012a एवमुक्त्वा तु पाञ्चाली भीमसेनमनिन्दिता
012c जगाम धर्मराजाय पुष्पमादाय तत्तदा
013a अभिप्रायं तु विज्ञाय महिष्याः पुरुषर्षभः
013c प्रियायाः प्रियकामः स भीमो भीमपराक्रमः
014a वातं तमेवाभिमुखो यतस्तत्पुष्पमागतम्
014c आजिहीर्षुर्जगामाशु स पुष्पाण्यपराण्यपि
015a रुक्मपृष्ठं धनुर्गृह्य शरांश्चाशीविषोपमान्
015c मृगराडिव सङ्क्रुद्धः प्रभिन्न इव कुञ्जरः
016a द्रौपद्याः प्रियमन्विच्छन्स्वबाहुबलमाश्रितः
016c व्यपेतभयसम्मोहः शैलमभ्यपतद्बली
017a स तं द्रुमलतागुल्मच्छन्नं नीलशिलातलम्
017c गिरिं चचारारिहरः किन्नराचरितं शुभम्
018a नानावर्णधरैश्चित्रं धातुद्रुममृगाण्डजैः
018c सर्वभूषणसम्पूर्णं भूमेर्भुजमिवोच्छ्रितम्
019a सर्वर्तुरमणीयेषु गन्धमादनसानुषु
019c सक्तचक्षुरभिप्रायं हृदयेनानुचिन्तयन्
020a पुंस्कोकिलनिनादेषु षट्पदाभिरुतेषु च
020c बद्धश्रोत्रमनश्चक्षुर्जगामामितविक्रमः
021a जिघ्रमाणो महातेजाः सर्वर्तुकुसुमोद्भवम्
021c गन्धमुद्दाममुद्दामो वने मत्त इव द्विपः
022a ह्रियमाणश्रमः पित्रा सम्प्रहृष्टतनूरुहः
022c पितुः संस्पर्शशीतेन गन्धमादनवायुना
023a स यक्षगन्धर्वसुरब्रह्मर्षिगणसेवितम्
023c विलोडयामास तदा पुष्पहेतोररिन्दमः
024a विषमच्छेदरचितैरनुलिप्तमिवाङ्गुलैः
024c विमलैर्धातुविच्छेदैः काञ्चनाञ्जनराजतैः
025a सपक्षमिव नृत्यन्तं पार्श्वलग्नैः पयोधरैः
025c मुक्ताहारैरिव चितं च्युतैः प्रस्रवणोदकैः
026a अभिरामनदीकुञ्जनिर्झरोदरकन्दरम्
026c अप्सरोनूपुररवैः प्रनृत्तबहुबर्हिणम्
027a दिग्वारणविषाणाग्रैर्घृष्टोपलशिलातलम्
027c स्रस्तांशुकमिवाक्षोभ्यैर्निम्नगानिःसृतैर्जलैः
028a सशष्पकवलैः स्वस्थैरदूरपरिवर्तिभिः
028c भयस्याज्ञैश्च हरिणैः कौतूहलनिरीक्षितः
029a चालयन्नूरुवेगेन लताजालान्यनेकशः
029c आक्रीडमानः कौन्तेयः श्रीमान्वायुसुतो ययौ
030a प्रियामनोरथं कर्तुमुद्यतश्चारुलोचनः
030c प्रांशुः कनकतालाभः सिंहसंहननो युवा
031a मत्तवारणविक्रान्तो मत्तवारणवेगवान्
031c मत्तवारणताम्राक्षो मत्तवारणवारणः
032a प्रियपार्श्वोपविष्टाभिर्व्यावृत्ताभिर्विचेष्टितैः
032c यक्षगन्धर्वयोषाभिरदृश्याभिर्निरीक्षितः
033a नवावतारं रूपस्य विक्रीणन्निव पाण्डवः
033c चचार रमणीयेषु गन्धमादनसानुषु
034a संस्मरन्विविधान्क्लेशान्दुर्योधनकृतान्बहून्
034c द्रौपद्या वनवासिन्याः प्रियं कर्तुं समुद्यतः
035a सोऽचिन्तयद्गते स्वर्गमर्जुने मयि चागते
035c पुष्पहेतोः कथं न्वार्यः करिष्यति युधिष्ठिरः
036a स्नेहान्नरवरो नूनमविश्वासाद्वनस्य च
036c नकुलं सहदेवं च न मोक्ष्यति युधिष्ठिरः
037a कथं नु कुसुमावाप्तिः स्याच्छीघ्रमिति चिन्तयन्
037c प्रतस्थे नरशार्दूलः पक्षिराडिव वेगितः
038a कम्पयन्मेदिनीं पद्भ्यां निर्घात इव पर्वसु
038c त्रासयन्गजयूथानि वातरंहा वृकोदरः
039a सिंहव्याघ्रगणांश्चैव मर्दमानो महाबलः
039c उन्मूलयन्महावृक्षान्पोथयंश्चोरसा बली
040a लतावल्लीश्च वेगेन विकर्षन्पाण्डुनन्दनः
040c उपर्युपरि शैलाग्रमारुरुक्षुरिव द्विपः
040e विनर्दमानोऽतिभृशं सविद्युदिव तोयदः
041a तस्य शब्देन घोरेण धनुर्घोषेण चाभिभो
041c त्रस्तानि मृगयूथानि समन्ताद्विप्रदुद्रुवुः
042a अथापश्यन्महाबाहुर्गन्धमादनसानुषु
सुरम्यं कदलीषण्डं बहुयोजनविस्तृतम् 042c
तमभ्यगच्छद्वेगेन क्षोभयिष्यन्महाबलः 043a
महागज इवास्रावी प्रभञ्जन्विविधान्द्रुमान् 043c
उत्पाट्य कदलीस्कन्धान्बहुतालसमुच्छ्रयान् 044a
चिक्षेप तरसा भीमः समन्ताद्बलिनां वरः 044c
ततः सत्त्वान्युपाक्रामन्बहूनि च महान्ति च 045a
रुरुवारणसङ्घाश्च महिषाश्च जलाश्रयाः 045c
सिंहव्याघ्राश्च सङ्क्रुद्धा भीमसेनमभिद्रवन् 046a
व्यादितास्या महारौद्रा विनदन्तोऽतिभीषणाः 046c
ततो वायुसुतः क्रोधात्स्वबाहुबलमाश्रितः 047a
गजेनाघ्नन्गजं भीमः सिंहं सिंहेन चाभिभूः 047c
तलप्रहारैरन्यांश्च व्यहनत्पाण्डवो बली 047e
ते हन्यमाना भीमेन सिंहव्याघ्रतरक्षवः 048a
भयाद्विससृपुः सर्वे शकृन्मूत्रं च सुस्रुवुः 048c
प्रविवेश ततः क्षिप्रं तानपास्य महाबलः 049a
वनं पाण्डुसुतः श्रीमाञ्शब्देनापूरयन्दिशः 049c
तेन शब्देन चोग्रेण भीमसेनरवेण च 050a
वनान्तरगताः सर्वे वित्रेसुर्मृगपक्षिणः 050c
तं शब्दं सहसा श्रुत्वा मृगपक्षिसमीरितम् 051a
जलार्द्रपक्षा विहगाः समुत्पेतुः सहस्रशः 051c
तानौदकान्पक्षिगणान्निरीक्ष्य भरतर्षभः 052a
तानेवानुसरन्रम्यं ददर्श सुमहत्सरः 052c
काञ्चनैः कदलीषण्डैर्मन्दमारुतकम्पितैः 053a
वीज्यमानमिवाक्षोभ्यं तीरान्तरविसर्पिभिः 053c
तत्सरोऽथावतीर्याशु प्रभूतकमलोत्पलम् 054a
महागज इवोद्दामश्चिक्रीड बलवद्बली 054c
विक्रीड्य तस्मिन्सुचिरमुत्ततारामितद्युतिः 054e
ततोऽवगाह्य वेगेन तद्वनं बहुपादपम् 055a
दध्मौ च शङ्खं स्वनवत्सर्वप्राणेन पाण्डवः 055c
तस्य शङ्खस्य शब्देन भीमसेनरवेण च 056a
बाहुशब्देन चोग्रेण नर्दन्तीव गिरेर्गुहाः 056c
तं वज्रनिष्पेषसममास्फोटितरवं भृशम् 057a
श्रुत्वा शैलगुहासुप्तैः सिंहैर्मुक्तो महास्वनः 057c
सिंहनादभयत्रस्तैः कुञ्जरैरपि भारत 058a
मुक्तो विरावः सुमहान्पर्वतो येन पूरितः 058c
तं तु नादं ततः श्रुत्वा सुप्तो वानरपुङ्गवः 059a
प्राजृम्भत महाकायो हनूमान्नाम वानरः 059c
कदलीषण्डमध्यस्थो निद्रावशगतस्तदा 060a
जृम्भमाणः सुविपुलं शक्रध्वजमिवोच्छ्रितम् 060c
आस्फोटयत लाङ्गूलमिन्द्राशनिसमस्वनम् 060e
तस्य लाङ्गूलनिनदं पर्वतः स गुहामुखैः 061a
उद्गारमिव गौर्नर्दमुत्ससर्ज समन्ततः 061c
स लाङ्गूलरवस्तस्य मत्तवारणनिस्वनम् 062a
अन्तर्धाय विचित्रेषु चचार गिरिसानुषु 062c
स भीमसेनस्तं श्रुत्वा सम्प्रहृष्टतनूरुहः 063a
शब्दप्रभवमन्विच्छंश्चचार कदलीवनम् 063c
कदलीवनमध्यस्थमथ पीने शिलातले 064a
स ददर्श महाबाहुर्वानराधिपतिं स्थितम् 064c
विद्युत्सङ्घातदुष्प्रेक्ष्यं विद्युत्सङ्घातपिङ्गलम् 065a
विद्युत्सङ्घातसदृशं विद्युत्सङ्घातचञ्चलम् 065c
बाहुस्वस्तिकविन्यस्तपीनह्रस्वशिरोधरम् 066a
स्कन्धभूयिष्ठकायत्वात्तनुमध्यकटीतटम् 066c
किञ्चिच्चाभुग्नशीर्षेण दीर्घरोमाञ्चितेन च 067a
लाङ्गूलेनोर्ध्वगतिना ध्वजेनेव विराजितम् 067c
रक्तोष्ठं ताम्रजिह्वास्यं रक्तकर्णं चलद्भ्रुवम् 068a
वदनं वृत्तदंष्ट्राग्रं रश्मिवन्तमिवोडुपम् 068c
वदनाभ्यन्तरगतैः शुक्लभासैरलङ्कृतम् 069a
केसरोत्करसम्मिश्रमशोकानामिवोत्करम् 069c
हिरण्मयीनां मध्यस्थं कदलीनां महाद्युतिम् 070a
दीप्यमानं स्ववपुषा अर्चिष्मन्तमिवानलम् 070c
निरीक्षन्तमवित्रस्तं लोचनैर्मधुपिङ्गलैः 071a
तं वानरवरं वीरमतिकायं महाबलम् 071c
अथोपसृत्य तरसा भीमो भीमपराक्रमः 072a
सिंहनादं समकरोद्बोधयिष्यन्कपिं तदा 072c
तेन शब्देन भीमस्य वित्रेसुर्मृगपक्षिणः 073a
हनूमांश्च महासत्त्व ईषदुन्मील्य लोचने 073c
अवैक्षदथ सावज्ञं लोचनैर्मधुपिङ्गलैः 073e
स्मितेनाभाष्य कौन्तेयं वानरो नरमब्रवीत् 074a
किमर्थं सरुजस्तेऽहं सुखसुप्तः प्रबोधितः 074c
ननु नाम त्वया कार्या दया भूतेषु जानता 075a
वयं धर्मं न जानीमस्तिर्यग्योनिं समाश्रिताः 075c
मनुष्या बुद्धिसम्पन्ना दयां कुर्वन्ति जन्तुषु 076a
क्रूरेषु कर्मसु कथं देहवाक्चित्तदूषिषु 076c
धर्मघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः 076e
न त्वं धर्मं विजानासि वृद्धा नोपासितास्त्वया 077a
अल्पबुद्धितया वन्यानुत्सादयसि यन्मृगान् 077c
ब्रूहि कस्त्वं किमर्थं वा वनं त्वमिदमागतः 078a
वर्जितं मानुषैर्भावैस्तथैव पुरुषैरपि 078c
अतः परमगम्योऽयं पर्वतः सुदुरारुहः 079a
विना सिद्धगतिं वीर गतिरत्र न विद्यते 079c
कारुण्यात्सौहृदाच्चैव वारये त्वां महाबल 080a
नातः परं त्वया शक्यं गन्तुमाश्वसिहि प्रभो 080c
इमान्यमृतकल्पानि मूलानि च फलानि च 081a
भक्षयित्वा निवर्तस्व ग्राह्यं यदि वचो मम 081c