युधिष्ठिर उवाच 001
धर्मज्ञो बलवाञ्शूरः सद्यो राक्षसपुङ्गवः 001a
भक्तोऽस्मानौरसः पुत्रो भीम गृह्णातु मातरम् 001c
तव भीम बलेनाहमतिभीमपराक्रम 002a
अक्षतः सह पाञ्चाल्या गच्छेयं गन्धमादनम् 002c
वैशम्पायन उवाच 003
भ्रातुर्वचनमाज्ञाय भीमसेनो घटोत्कचम् 003a
आदिदेश नरव्याघ्रस्तनयं शत्रुकर्शनम् 003c
हैडिम्बेय परिश्रान्ता तव मातापराजिता 004a
त्वं च कामगमस्तात बलवान्वह तां खग 004c
स्कन्धमारोप्य भद्रं ते मध्येऽस्माकं विहायसा 005a
गच्छ नीचिकया गत्या यथा चैनां न पीडयेः 005c
घटोत्कच उवाच 006
धर्मराजं च धौम्यं च राजपुत्रीं यमौ तथा 006a
एकोऽप्यहमलं वोढुं किमुताद्य सहायवान् 006c
वैशम्पायन उवाच 007
एवमुक्त्वा ततः कृष्णामुवाह स घटोत्कचः 007a
पाण्डूनां मध्यगो वीरः पाण्डवानपि चापरे 007c
लोमशः सिद्धमार्गेण जगामानुपमद्युतिः 008a
स्वेनैवात्मप्रभावेन द्वितीय इव भास्करः 008c
ब्राह्मणांश्चापि तान्सर्वान्समुपादाय राक्षसाः 009a
नियोगाद्राक्षसेन्द्रस्य जग्मुर्भीमपराक्रमाः 009c
एवं सुरमणीयानि वनान्युपवनानि च 010a
आलोकयन्तस्ते जग्मुर्विशालां बदरीं प्रति 010c
ते त्वाशुगतिभिर्वीरा राक्षसैस्तैर्महाबलैः 011a
उह्यमाना ययुः शीघ्रं महदध्वानमल्पवत् 011c
देशान्म्लेच्छगणाकीर्णान्नानारत्नाकरायुतान् 012a
ददृशुर्गिरिपादांश्च नानाधातुसमाचितान् 012c
विद्याधरगणाकीर्णान्युतान्वानरकिन्नरैः 013a
तथा किम्पुरुषैश्चैव गन्धर्वैश्च समन्ततः 013c
नदीजालसमाकीर्णान्नानापक्षिरुताकुलान् 014a
नानाविधैर्मृगैर्जुष्टान्वानरैश्चोपशोभितान् 014c
ते व्यतीत्य बहून्देशानुत्तरांश्च कुरूनपि 015a
ददृशुर्विविधाश्चर्यं कैलासं पर्वतोत्तमम् 015c
तस्याभ्याशे तु ददृशुर्नरनारायणाश्रमम् 016a
उपेतं पादपैर्दिव्यैः सदापुष्पफलोपगैः 016c
ददृशुस्तां च बदरीं वृत्तस्कन्धां मनोरमाम् 017a
स्निग्धामविरलच्छायां श्रिया परमया युताम् 017c
पत्रैः स्निग्धैरविरलैरुपेतां मृदुभिः शुभाम् 018a
विशालशाखां विस्तीर्णामतिद्युतिसमन्विताम् 018c
फलैरुपचितैर्दिव्यैराचितां स्वादुभिर्भृशम् 019a
मधुस्रवैः सदा दिव्यां महर्षिगणसेविताम् 019c
मदप्रमुदितैर्नित्यं नानाद्विजगणैर्युताम् 019e
अदंशमशके देशे बहुमूलफलोदके 020a
नीलशाद्वलसञ्छन्ने देवगन्धर्वसेविते 020c
सुसमीकृतभूभागे स्वभावविहिते शुभे 021a
जातां हिममृदुस्पर्शे देशेऽपहतकण्टके 021c
तामुपेत्य महात्मानः सह तैर्ब्राह्मणर्षभैः 022a
अवतेरुस्ततः सर्वे राक्षसस्कन्धतः शनैः 022c
ततस्तमाश्रमं पुण्यं नरनारायणाश्रितम् 023a
ददृशुः पाण्डवा राजन्सहिता द्विजपुङ्गवैः 023c
तमसा रहितं पुण्यमनामृष्टं रवेः करैः 024a
क्षुत्तृट्शीतोष्णदोषैश्च वर्जितं शोकनाशनम् 024c
महर्षिगणसम्बाधं ब्राह्म्या लक्ष्म्या समन्वितम् 025a
दुष्प्रवेशं महाराज नरैर्धर्मबहिष्कृतैः 025c
बलिहोमार्चितं दिव्यं सुसम्मृष्टानुलेपनम् 026a
दिव्यपुष्पोपहारैश्च सर्वतोऽभिविराजितम् 026c
विशालैरग्निशरणैः स्रुग्भाण्डैराचितं शुभैः 027a
महद्भिस्तोयकलशैः कठिनैश्चोपशोभितम् 027c
शरण्यं सर्वभूतानां ब्रह्मघोषनिनादितम् 027e
दिव्यमाश्रयणीयं तमाश्रमं श्रमनाशनम् 028a
श्रिया युतमनिर्देश्यं देवचर्योपशोभितम् 028c
फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः 029a
सूर्यवैश्वानरसमैस्तपसा भावितात्मभिः 029c
महर्षिभिर्मोक्षपरैर्यतिभिर्नियतेन्द्रियैः 030a
ब्रह्मभूतैर्महाभागैरुपेतं ब्रह्मवादिभिः 030c
सोऽभ्यगच्छन्महातेजास्तानृषीन्नियतः शुचिः 031a
भ्रातृभिः सहितो धीमान्धर्मपुत्रो युधिष्ठिरः 031c
दिव्यज्ञानोपपन्नास्ते दृष्ट्वा प्राप्तं युधिष्ठिरम् 032a
अभ्यगच्छन्त सुप्रीताः सर्व एव महर्षयः 032c
आशीर्वादान्प्रयुञ्जानाः स्वाध्यायनिरता भृशम् 032e
प्रीतास्ते तस्य सत्कारं विधिना पावकोपमाः 033a
उपाजह्रुश्च सलिलं पुष्पमूलफलं शुचि 033c
स तैः प्रीत्याथ सत्कारमुपनीतं महर्षिभिः 034a
प्रयतः प्रतिगृह्याथ धर्मपुत्रो युधिष्ठिरः 034c
तं शक्रसदनप्रख्यं दिव्यगन्धं मनोरमम् 035a
प्रीतः स्वर्गोपमं पुण्यं पाण्डवः सह कृष्णया 035c
विवेश शोभया युक्तं भ्रातृभिश्च सहानघ 036a
ब्राह्मणैर्वेदवेदाङ्गपारगैश्च सहाच्युतः 036c
तत्रापश्यत्स धर्मात्मा देवदेवर्षिपूजितम् 037a
नरनारायणस्थानं भागीरथ्योपशोभितम् 037c
मधुस्रवफलां दिव्यां महर्षिगणसेविताम् 038a
तामुपेत्य महात्मानस्तेऽवसन्ब्राह्मणैः सह 038c
आलोकयन्तो मैनाकं नानाद्विजगणायुतम् 039a
हिरण्यशिखरं चैव तच्च बिन्दुसरः शिवम् 039c
भागीरथीं सुतीर्थां च शीतामलजलां शिवाम् 040a
मणिप्रवालप्रस्तारां पादपैरुपशोभिताम् 040c
दिव्यपुष्पसमाकीर्णां मनसः प्रीतिवर्धनीम् 041a
वीक्षमाणा महात्मानो विजह्रुस्तत्र पाण्डवाः 041c
तत्र देवान्पितॄंश्चैव तर्पयन्तः पुनः पुनः 042a
ब्राह्मणैः सहिता वीरा न्यवसन्पुरुषर्षभाः 042c
कृष्णायास्तत्र पश्यन्तः क्रीडितान्यमरप्रभाः 043a
विचित्राणि नरव्याघ्रा रेमिरे तत्र पाण्डवाः 043c